आचम्य । प्राणानायम्य । देशकालौ संकीर्त्य ।
संकल्प :- शालाकर्म पूर्वकं शिख्यादि वास्तुमण्डलदेवतानां आवाहनं पूजनं च करिष्ये ।
॥ वास्तुपीठे आग्नेयादिक्रमेण शङ्कुरोपणम् ॥
आग्नेयाम्-
ॐ विशन्तु भूतले नागा लोकपालाश्च सर्वतः ।
अस्मिन्गृहे प्रतिष्ठन्तु आयुर्बलकराः सदा ॥ १ ॥
ततो नैर्ऋत्याम्-
ॐ विशन्तु भूतले नागा लोकपालाश्च सर्वतः ।
अस्मिन्गृहे प्रतिष्ठन्तु आयुर्बलकराः सदा ॥ २ ॥
ततो वायव्याम्-
ॐ विशन्तु भूतले नागा लोकपालाश्च सर्वतः ।
अस्मिन्गृहे प्रतिष्ठन्तु आयुर्बलकराः सदा ॥ ३ ॥
तत ऐशान्याम्-
ॐ विशन्तु भूतले नागा लोकपालाश्च सर्वतः ।
अस्मिन्गृहे प्रतिष्ठन्तु आयुर्बलकराः सदा ॥ ४ ॥
एवं आग्नेयादिषु चतुष्कोणेषु शङ्कुनारोप्य आग्नेयादिक्रमेणैव माषभक्तं दध्योदनं वा बलिं दद्यात् ॥
आग्नेय्यां शङ्कुसमीपे बलिं निधाय हस्ते जलं गृहीत्वा ।
ॐ अग्निभ्योऽप्यथ सर्पेभ्यो ये चान्ये तान्समाश्रिताः ॥
बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम् ॥ १ ॥
इति जलमुत्सृजेत् ॥
एवं नैर्ऋत्यां शङ्कुसमीपे बलिं निधाय हस्ते जलं गृहीत्वा ।
ॐ नैर्ऋत्याधिपतिभ्यश्च नैर्ऋत्यां ये च राक्षसाः ॥
बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम् ॥ २ ॥
इति जलमुत्सृजेत् ॥
ततो वायव्यां शङ्कुसमीपे बलिं निधाय हस्ते जलं गृहीत्वा ।
ॐ नमो वै वायुरक्षेभ्यो ये चान्ये तान्समाश्रिताः ॥
बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम् ॥ ३ ॥
इति जलमुत्सृजेत् ॥
तत ऐशान्यां शङ्कुसमीपे बलिं निधाय हस्ते जलमादाय ।
ॐ रुद्रेभ्यश्चैव सर्पेभ्यो ये चान्ये तान्समाश्रिताः ॥
बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम् ॥ ४ ॥
इति जलमुत्सृजेत् ॥
तत आग्नेयादिक्रमेण शङ्कुदेवताभ्यो नमो गन्धं पुष्पं धूपं दीपं नैवेद्यञ्च सम० ॥ अनेन शङ्कुरोपणपूर्वकबलिदानेन आग्नेयादिदिग्देवताः प्रीयन्तां न मम ॥
॥ अथ रेखाकरणं पूजनञ्च ॥
वास्तुपीठे सुवर्ण-शलाकया कुश-शलाकया वा पश्चिमत आरभ्य प्रागायता उदक्संस्थाः, दक्षिणत आरभ्य उदगायताः प्राक्संस्थाः समचतुरा नव नव रेखा विद्ध्यात् ॥
प्रथमं पश्चिमत आरभ्य प्रागायता उदक्संस्था रेखाः कार्याः ॥
ॐ शान्तायै नमः ॥ १ ॥
ॐ यशोवत्यै नमः ॥ २ ॥
ॐ कान्तायै नमः ॥ ३ ॥
ॐ विशालायै नमः ॥ ४ ॥
ॐ प्राणवाहिन्यै नमः ॥ ५ ॥
ॐ सत्यै नमः ॥ ६ ॥
ॐ सुमत्यै नमः ॥ ७ ॥
ॐ नन्दायै नमः ॥ ८ ॥
ॐ सुभद्रायै नमः ॥ ९ ॥
ॐ सुरथायै नमः ॥ १० ॥
ततो दक्षिणत आरभ्य उदगायताः पूर्वदिक्संस्था रेखाः कार्याः ॥
ॐ हिरण्यायै नमः ॥ १ ॥
ॐ सुव्रतायै नमः ॥ २ ॥
ॐ लक्ष्म्यै नमः ॥ ३ ॥
ॐ विभूत्यै नमः ॥ ४ ॥
ॐ विमलायै नमः ॥ ५ ॥
ॐ श्रियायै नमः ॥ ६ ॥
ॐ जयायै नमः ॥ ७ ॥
ॐ कालायै नमः ॥ ८ ॥
ॐ विशोकायै नमः ॥ ९ ॥
ॐ ईडायै नमः ॥ १० ॥
रेखादेवताः सुप्रतिष्ठाः वरदाः भवत । ॐ भूर्भुवस्वः रेखादेवताभ्यो नमः गन्धं पुष्पं धूपं दीपं नैवेद्यञ्च सम० ॥ अनेन रेखादेवतानां पंन्चोपचारैः पूजनेन ॐ भूर्भुवस्वः रेखादेवताः प्रीयन्तां न मम ॥
॥ अथ शिख्यादि देवतानां आवाहनम् ॥
हस्तेऽक्षतान् गृहित्वा शिख्यादी देवतांनां आवाहनं कुर्यात्
१) ईशान्यकोने कृष्णपदे - ॐ शिखिने नमः !
ॐ तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियञ्जि॒न्वमव॑से हूमहे व॒यम् । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द् वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑
ॐ भूर्भुवः स्वः शिखिने नमः शिखिनम् आवाहयामि स्थापयामि !
२) तदग्रे श्वेतएकपदे - ॐ पर्जन्याय नमः !
ॐ म॒हाँ२ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ२ इ॑व । स्तोमै॑र्व॒त्सस्य॑ वावृधे । उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा
ॐ भूर्भुवः स्वः पर्जन्याय नमः पर्जन्यम् आवाहयामि स्थापयामि !
३) तदग्रे हरित द्विपदे - ॐ जयन्ताय नमः !
ॐ मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॒नानु॑वस्ताम् । उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वाऽनु॑ दे॒वा म॑दन्तु
ॐ भूर्भुवः स्वः जयन्ताय नमः जयन्तम् आवाहयामि स्थापयामि !
४) तदग्रे हरित द्विपदे - ॐ कुलिशायुधाय नमः !
ॐ आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒मद॑स्तु॒ शूर॑: । वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त्
ॐ भूर्भुवः स्वः कुलिशायुधाय नमः कुलिशायुधम् आवाहयामि स्थापयामि !
५) तदग्रे हरित द्विपदे - ॐ सूर्याय नमः !
ॐ बण्म॒हाँ२ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ२ अ॑सि । म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ२ अ॑सि
ॐ भूर्भुवः स्वः सूर्याय नमः सूर्यम् आवाहयामि स्थापयामि !
६) तदग्रे हरित द्विपदे - ॐ सत्याय नमः !
ॐ व्र॒तेन॑ दी॒क्षामा॑प्नोति दी॒क्षया॑ऽऽप्नोति॒ दक्षि॑णाम् । दक्षि॑णा श्र॒द्धामा॑प्नोति श्र॒द्धया॑ स॒त्यमा॑प्यते
ॐ भूर्भुवः स्वः सत्याय नमः सत्यम् आवाहयामि स्थापयामि !
७) तदग्रे हरित द्विपदे - ॐ भृशाय नमः !
ॐ आ त्वा॑ऽहार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑भ्रशत्
ॐ भूर्भुवः स्वः भृशाय नमः भृशम् आवाहयामि स्थापयामि !
८) तदग्रेस्त्रयश्वेतपदात् एकपदे - ॐ आकाशाय नमः !
ॐ यावां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती । तया॑ य॒ज्ञं मि॑मिक्षतम् ॥
ॐ भूर्भुवः स्वः आकाशाय नमः आकाशम् आवाहयामि स्थापयामि !
९) तदग्रे आग्नेयकोने कृष्णपदे - ॐ वायवे नमः !
ॐ वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि । नि॒युत्वा॒न्त्सोम॑पीतये ॥
ॐ भूर्भुवः स्वः वायवे नमः वायुम् आवाहयामि स्थापयामि !
१०) तदग्रे दक्षिणश्वेतपदे - ॐ पूष्णे नमः !
ॐ पूष॒न् तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न । स्तो॒तार॑स्त इ॒ह स्म॑सि ॥
ॐ भूर्भुवः स्वः पूष्णे नमः पूषणम् आवाहयामि स्थापयामि !
११) तदग्रे हरित द्विपदे - ॐ वितथाय नमः !
ॐ तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑त॒ᳪ सं ज॑भार । य॒देदयु॑क्त ह॒रित॑: स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥
ॐ भूर्भुवः स्वः वितथाय नमः वितथम् आवाहयामि स्थापयामि !
१२) तदग्रे हरित द्विपदे - ॐ गृहक्षताय नमः !
ॐ अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत । अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ निवि॑ष्ठया म॒ती योजा॒ न्वि॒न्द्र ते॒ हरी॑ ॥
ॐ भूर्भुवः स्वः गृहक्षताय नमः गृहक्षतम् आवाहयामि स्थापयामि !
१३) तदग्रे हरित द्विपदे - ॐ यमाय नमः !
ॐ य॒माय॑ त्वाऽङ्गिरस्वते पितृ॒मते॒ स्वाहा॑ । स्वाहा॑ घ॒र्माय॒ स्वाहा॑ घ॒र्मः पि॒त्रे ॥
ॐ भूर्भुवः स्वः यमाय नमः यमम् आवाहयामि स्थापयामि !
१४) तदग्रे हरित द्विपदे - ॐ गन्धर्वाय नमः !
ॐ ग॒न्ध॒र्वस्त्वा॑ वि॒श्वाव॑सुः॒ परि॑दधातु॒ विश्व॒स्यारि॑ष्टयै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः ॥
ॐ भूर्भुवः स्वः गन्धर्वाय नमः गन्धर्वम् आवाहयामि स्थापयामि !
१५) तदग्रे हरित द्विपदे - ॐ भृङ्गराजाय नमः !
ॐ सौ॒री ब॒लाका॑ शा॒र्गः सृ॑ज॒यः श॒याण्ड॑क॒स्ते मै॒त्राः सर॑स्वत्यै॒ शारि॑ः पुरुष॒वाक् श्वा॒विद्भौ॒मी शा॑र्दू॒लो वृक॒ः पृदा॑कु॒स्ते म॒न्यवे॒ सर॑स्वते॒ शुक॑ः पुरुष॒वाक् ॥
ॐ भूर्भुवः स्वः भृङ्गराजाय नमः भृङ्गराजम् आवाहयामि स्थापयामि !
१६) तदग्रे श्वेतपदात् एकपदे - ॐ मृगाय नमः !
ॐ च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत । श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत ॥
ॐ भूर्भुवः स्वः मृगाय नमः मृगम् आवाहयामि स्थापयामि !
१७) नैर्ऋत्यकोने कृष्णएकपदे - ॐ पितृभ्यो नमः !
ॐ उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्त॒: समि॑धीमहि । उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन् ह॒विषे॒ अत्त॑वे ॥
ॐ भूर्भुवः स्वः पितृभ्यो नमः पितॄन् आवाहयामि स्थापयामि !
१८) पश्चिमे श्वेतएकपदे - ॐ दौवारिकाय नमः !
ॐ आ ब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मा रा॒ष्ट्रे रा॑ज॒न्यः शूर॑ इष॒व्योऽतिव्या॒धी म॑हार॒थो जा॑यतां॒ दोग्ध्री॑ धे॒नुर्वोढा॑न॒ड्वाना॒शुः सप्ति॒: पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवास्य यज॑मानस्य वी॒रो जा॑यतां॒ निका॒मे-नि॑कामे नः प॒र्जन्यो॑ वर्षतु॒ फल॑वत्यो न॒ ओष॑धयः पच्यन्तां योगक्षे॒मो न॑: कल्पताम् ॥
ॐ भूर्भुवः स्वः दौवारिकाय नमः दौवारिकम् आवाहयामि स्थापयामि !
१९) तदग्रे हरित द्विपदे - ॐ सुग्रीवाय नमः !
ॐ नील॑ग्रीवाः शिति॒कण्ठा॑: श॒र्वा अ॒धः क्ष॑माच॒राः । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥
ॐ भूर्भुवः स्वः सुग्रीवाय नमः सुग्रीवम् आवाहयामि स्थापयामि !
२०) तदग्रे हरित द्विपदे - ॐ पुष्पदन्ताय नमः !
ॐ नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नम॑: ॥
ॐ भूर्भुवः स्वः पुष्पदन्ताय नमः पुष्पदन्तम् आवाहयामि स्थापयामि !
२१) तदग्रे हरित द्विपदे - ॐ वरुणाय नमः !
ॐ इ॒मं मे॑ वरुण श्रुधी हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑के ॥
ॐ भूर्भुवः स्वः वरुणाय नमः वरुणम् आवाहयामि स्थापयामि !
२२) तदग्रे हरित द्विपदे - ॐ असुराय नमः !
ॐ ये रू॒पाणि॑ प्रतिमुञ्च॑माना॒ असु॑राः सन्तः॑ स्व॒धया॒ चर॑न्ति । प॒रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टाँल्लो॒कात्प्र णु॑दात्य॒स्मात् ॥
ॐ भूर्भुवः स्वः असुराय नमः असुरम् आवाहयामि स्थापयामि !
२३) तदग्रे हरित द्विपदे - ॐ शेषाय नमः !
ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥
ॐ भूर्भुवः स्वः शेषाय नमः शेषम् आवाहयामि स्थापयामि !
२४) तदग्रे श्वेतएकपदे - ॐ पापाय नमः !
ॐ ए॒तत् ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तोऽती॑हि । अव॑ततधन्वा॒ पिना॑कावसः॒ कृत्ति॑वासा॒ अहिꣳ॑सन्नः शि॒वोऽती॑हि ॥
ॐ भूर्भुवः स्वः पापाय नमः पापम् आवाहयामि स्थापयामि !
२५) वायव्ये कृष्णएकपदे - ॐ रोगाय नमः !
ॐ द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित । आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ न॒: किंच॒नाम॑मत् ॥
ॐ भूर्भुवः स्वः रोगाय नमः रोगम् आवाहयामि स्थापयामि !
२६) उत्तरे श्वेतएकपदे - ॐ अहये नमः !
ॐ अहि॑रिव भोगै॒: पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान् पुमा॒न् पुमा॑ᳪसं॒ परि॑ पातु वि॒श्वत॑: ॥
ॐ भूर्भुवः स्वः अहये नमः अहिम् आवाहयामि स्थापयामि !
२७) तदग्रे हरित द्विपदे - ॐ मुख्याय नमः !
ॐ अ॒व॒तत्य॒ धनु॒ष्ट्वᳪ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑: सु॒मना॑ भव ॥
ॐ भूर्भुवः स्वः मुख्याय नमः मुख्यम् आवाहयामि स्थापयामि !
२८) तदग्रे हरित द्विपदे - ॐ भल्लाटाय नमः !
ॐ इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्षयद्वीयरा॑य॒ प्र भ॑रामहे म॒तीः । यथा॒ शम॑सद् द्विपदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रा॑मे अ॒स्मिन्नना॑तुरम् ॥
ॐ भूर्भुवः स्वः भल्लाटाय नमः भल्लाटम् आवाहयामि स्थापयामि !
२९) तदग्रे हरित द्विपदे - ॐ सोमाय नमः !
ॐ व॒यꣳ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि ॥
ॐ भूर्भुवः स्वः सोमाय नमः सोमम् आवाहयामि स्थापयामि !
३०) तदग्रे हरित द्विपदे - ॐ सर्पाय नमः !
ॐ नमो॑sस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥
ॐ भूर्भुवः स्वः सर्पाय नमः सर्पम् आवाहयामि स्थापयामि !
३१) तदग्रे हरित द्विपदे - ॐ अदितये नमः !
ॐ अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥
ॐ भूर्भुवः स्वः अदितये नमः अदितिम् आवाहयामि स्थापयामि !
३२) तदग्रे श्वेतएकपदे - ॐ दित्यै नमः !
ॐ ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न् ये ब्रह्म॑णः पुर ए॒तारो॑ अ॒स्य । येभ्यो॒ न ऋ॒ते पव॑ते॒ धाम॒ किञ्च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑ ॥
ॐ भूर्भुवः स्वः दित्यै नमः दितिम् आवाहयामि स्थापयामि !
३३) ईशान्ये शिखिपदाधः - ॐ आपाय नमः !
ॐ आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥
ॐ भूर्भुवः स्वः आपाय नमः आपम् आवाहयामि स्थापयामि !
३४) आग्नेये वायु पदाधः - ॐ सावित्राय नमः !
ॐ वसोः॑ प॒वित्र॑मसि श॒तधा॑रं॒ वसोः॑ प॒वित्र॑मसि स॒हस्र॑धारम् । दे॒वस्त्वा॑ सवि॒ता पु॑नातु॒ वसोः॑ प॒वित्रे॑ण श॒तधा॑रेण सु॒प्वा काम॑धुक्षः ॥
ॐ भूर्भुवः स्वः सावित्राय नमः सावित्रम् आवाहयामि स्थापयामि !
३५) नैर्ऋत्ये पितृपदाधः - ॐ जयाय नमः !
ॐ यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥
ॐ भूर्भुवः स्वः जयाय नमः जयम् आवाहयामि स्थापयामि !
३६) वायव्ये रोगपदाधः - ॐ रुद्राय नमः !
ॐ या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒न्वा शन्त॑मया॒ गिरिं॑शन्ता॒भि चा॑कशीहि ॥
ॐ भूर्भुवः स्वः रुद्राय नमः रुद्रम् आवाहयामि स्थापयामि !
३७) मध्ये पूर्व रक्तपदत्रये - ॐ अर्यम्णे नमः !
ॐ यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य । सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥
ॐ भूर्भुवः स्वः अर्यम्णे नमः अर्यमणम् आवाहयामि स्थापयामि !
३८) आग्नेयकोने श्वेतएकपदे - ॐ सवित्रे नमः !
ॐ विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव । यद्भ॒द्रं तन्न॒ आ सु॑व ॥
ॐ भूर्भुवः स्वः सवित्रे नमः सवितारम् आवाहयामि स्थापयामि !
३९) तदग्रे दक्षिणरक्तपदत्रये - ॐ विवस्वते नमः !
ॐ असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥
ॐ भूर्भुवः स्वः विवस्वते नमः विवस्वन्तम् आवाहयामि स्थापयामि !
४०) नैर्ऋत्ये श्वेत एकपदे - ॐ विबुधाधिपाय नमः !
ॐ स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् । यु॒यो॒ध्यस्मद् द्वेषा॑ᳪसि वि॒श्वक॑र्मणे॒ स्वाहा॑ ॥
ॐ भूर्भुवः स्वः विबुधाधिपाय नमः विबुधाधिपम् आवाहयामि स्थापयामि !
४१) पश्चिमेरक्तपदत्रये - ॐ मित्राय नमः !
ॐ मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि । द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ॥
ॐ भूर्भुवः स्वः मित्राय नमः मित्रम् आवाहयामि स्थापयामि !
४२) वायव्ये श्वेत एकपदे - ॐ राजयक्ष्मणे नमः !
ॐ ना॒श॒यि॒त्री ब॒लास॒स्यार्श॑स उप॒चिता॑मसि । अथो॑ श॒तस्य॒ यक्ष्मा॑णां पाका॒रोर॑सि॒ नाश॑नी ॥
ॐ भूर्भुवः स्वः राजयक्ष्मणे नमः राजयक्ष्माणम् आवाहयामि स्थापयामि !
४३) तदग्रे उत्तरे रक्तपदत्रये - ॐ पृथ्वीधराय नमः !
ॐ स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी । यच्छा॑ न॒: शर्म॑ स॒प्रथा॑: ॥
ॐ भूर्भुवः स्वः पृथ्वीधराय नमः पृथ्वीधरम् आवाहयामि स्थापयामि !
४४) ईशान्यश्वेतएकपदे - ॐ आपवत्साय नमः !
ॐ इ॒मं मे॑ वरुण श्रुधी हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑के ॥
ॐ भूर्भुवः स्वः आपवत्साय नमः आपवत्सम् आवाहयामि स्थापयामि !
४५) मध्येनवपीतपदे - ॐ ब्रह्मणे नमः !
ॐ ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सीम॑तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विव॑: ॥
ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आवाहयामि स्थापयामि !
॥ मण्डलाद्बहिः प्रथम श्वेत परिधौ ॥
४६) ईशान्यकोने - ॐ चरक्यै नमः !
ॐ इन्धा॑नास्त्वा श॒तᳪहिमा॑ द्यु॒मन्त॒ᳪसमि॑धीमहि । वय॑स्वन्तो वय॒स्कृत॒ सह॑स्वन्तः सह॒स्कृत॑म् ॥
ॐ भूर्भुवः स्वः चरक्यै नमः चरकीम् आवाहयामि स्थापयामि !
४७) आग्नेये - ॐ विदार्यै नमः !
ॐ असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यामन्वि॑हि॒ तस्क॑रस्य । अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्ऋते॒ तुभ्य॑मस्तु ॥
ॐ भूर्भुवः स्वः विदार्यै नमः विदारीम् आवाहयामि स्थापयामि !
४८) नैर्ऋत्ये - ॐ पूतनायै नमः !
ॐ कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑ । कया॒ शचि॑ष्ठया वृता ॥
ॐ भूर्भुवः स्वः पूतनायै नमः पूतनाम् आवाहयामि स्थापयामि !
४९) वायव्ये - ॐ पापराक्षस्यै नमः !
ॐ इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ॥
ॐ भूर्भुवः स्वः पापराक्षस्यै नमः पापराक्षसीम् आवाहयामि स्थापयामि !
॥ मण्डलाद्बहिः द्वितीय रक्तपरिधौ ॥
५०) पूर्वे - ॐ स्कन्दाय नमः !
ॐ त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोsव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तम॒: शोशु॑चानो॒ विश्वा॒ द्वेषा॑ᳪसि॒ प्र मु॑मुग्ध्य॒स्मत् ॥
ॐ भूर्भुवः स्वः स्कन्दाय नमः स्कन्दम् आवाहयामि स्थापयामि !
५१) दक्षिणे - ॐ अर्यम्णे नमः !
ॐ यद॒द्य सूर॒ उदि॒तेऽना॑गा मि॒त्रो अ॑र्य॒मा । सु॒वाति॑ सवि॒ता भग॑: ॥
ॐ भूर्भुवः स्वः अर्यम्णे नमः अर्यमणम् आवाहयामि स्थापयामि !
५२) पश्चिमे - ॐ जृम्भकाय नमः !
ॐ हि॒ङ्का॒राय॒ स्वाहा॒ हिङ्कृ॑ताय॒ स्वाहा॒ क्रन्द॑ते॒ स्वाहा॑ ऽवक्र॒न्दाय॒ स्वाहा॒ प्रोथ॑ते॒ स्वाहा॑ प्रप्रो॒थाय॒ स्वाहा॑ ग॒न्धाय॒ स्वाहा॑ घ्रा॒ताय॒ स्वाहा॒ निवि॑ष्टाय॒ स्वाहोप॑विष्टाय॒ स्वाहा॒ सन्दि॑ताय॒ स्वाहा॒ वल्ग॑ते॒ स्वाहा ऽऽसी॑नाय॒ स्वाहा॑ शया॑नाय॒ स्वाहा॒ स्वप॑ते॒ स्वाहा॒ जाग्र॑ते॒ स्वाहा॒ कूज॑ते॒ स्वाहा॒ प्रबु॑द्धाय॒ स्वाहा॑ वि॒जृम्भ॑माणाय॒ स्वाहा॒ विचृ॑ताय॒ स्वाहा॒ सᳪहा॑नाय॒ स्वाहोप॑स्थिताय॒ स्वाहाऽऽय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहा॑ ॥
ॐ भूर्भुवः स्वः जृम्भकाय नमः जृम्भकम् आवाहयामि स्थापयामि !
५३) उत्तरे - ॐ पिलिपिच्छाय नमः !
ॐ र॒क्षो॒हणं॑ वलग॒हनं॑ वैष्ण॒वी मि॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॒ निष्ट्यो॒ यम॒मात्यो॑ निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॑ समा॒नो यमस॑मानो निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॒ सब॑न्धु॒र्यमस॑बन्धुर्निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॑ सजा॒तो यमस॑जातो निच॒खानोत्कृ॒त्यां कि॑रामि ॥
ॐ भूर्भुवः स्वः पिलिपिच्छाय नमः पिलिपिच्छम् आवाहयामि स्थापयामि !
॥ दशदिक्पालाः इन्द्रादि (द्वितीय रक्तपरिधौ) ॥
५४) पूर्वे - ॐ इन्द्राय नमः !
ॐ त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रꣳ॒ हवे॑ हवे सु॒हव॒ꣳ॒ शूर॒मिन्द्र॑म् । ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्रंꣳ॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥
ॐ भूर्भुवः स्वः इन्द्राय नमः इन्द्रम् आवाहयामि स्थापयामि !
५५) आग्नेये - ॐ अग्नये नमः !
ॐ त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥
ॐ भूर्भुवः स्वः अग्नये नमः अग्निम् आवाहयामि स्थापयामि !
५६) दक्षिणे - ॐ यमाय नमः !
ॐ य॒माय॑ त्वाऽङ्गिरस्वते पितृ॒मते॒ स्वाहा॑ । स्वाहा॑ घ॒र्माय॒ स्वाहा॑ घ॒र्मः पि॒त्रे ॥
ॐ भूर्भुवः स्वः यमाय नमः यमम् आवाहयामि स्थापयामि !
५७) नैर्ऋत्ये - ॐ निर्ऋतये नमः !
ॐ असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यामन्वि॑हि॒ तस्क॑रस्य । अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्ऋते॒ तुभ्य॑मस्तु ॥
ॐ भूर्भुवः स्वः निर्ऋतये नमः निर्ऋतिम् आवाहयामि स्थापयामि !
५८) पश्चिमे - ॐ वरुणाय नमः !
ॐ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳ स॒मान॒ आयुः॒ प्र मो॑षीः ॥
ॐ भूर्भुवः स्वः वरुणाय नमः वरुणम् आवाहयामि स्थापयामि !
५९) वायव्ये - ॐ वायवे नमः !
ॐ आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रꣳ स॑हस्रि॒णीभि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ॐ भूर्भुवः स्वः वायवे नमः वायुम् आवाहयामि स्थापयामि !
६०) उत्तरे - ॐ सोमाय नमः !
ॐ व॒यꣳ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि ॥
ॐ भूर्भुवः स्वः सोमाय नमः सोमम् आवाहयामि स्थापयामि !
६१) ईशान्ये - ॐ ईशानाय नमः !
ॐ तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियञ्जि॒न्वमव॑से हूमहे व॒यम् । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द् वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥
ॐ भूर्भुवः स्वः ईशानाय नमः ईशानम् आवाहयामि स्थापयामि !
६२) पूर्वेशानयोर्मध्ये - ॐ ब्रह्मणे नमः !
ॐ अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषा॑: । यः शᳪस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ२ अ॑वन्तु दे॒वाः ॥
ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आवाहयामि स्थापयामि !
६३) निर्ऋतपश्चिमयोर्मध्ये - ॐ अनन्ताय नमः !
ॐ स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी । यच्छा॑ न॒: शर्म॑ स॒प्रथा॑: ॥
ॐ भूर्भुवः स्वः अनन्ताय नमः अनन्तम् आवाहयामि स्थापयामि !
॥ मण्डलाद्बहिः तृतीय कृष्ण परिधौ (गृहवास्तुप्रयोगे विशेषः) ॥
पूर्वे इन्द्रात् उत्तरतः - ॐ भूर्भुवः स्वः उग्रसेनाय नमः उग्रसेनम् आवाहयामि स्थापयामि !
दक्षिणे यमात् उत्तरतः - ॐ भूर्भुवः स्वः डामराय नमः डामरम् आवाहयामि स्थापयामि !
पश्चिमे वरुणात् उत्तरतः - ॐ भूर्भुवः स्वः महाकालाय नमः महाकालम् आवाहयामि स्थापयामि !
उत्तरे सोमात् उत्तरतः - ॐ भूर्भुवः स्वः पिलिपिच्छाय नमः पिलिपिच्छम् आवाहयामि स्थापयामि !
पूर्वे - ॐ भूर्भुवः स्वः हेतुकाय नमः हेतुकम् आवाहयामि स्थापयामि !
आग्नेय्याम् - ॐ भूर्भुवः स्वः त्रिपुरान्तकाय नमः त्रिपुरान्तकम् आवाहयामि स्थापयामि !
दक्षिणे - ॐ भूर्भुवः स्वः अग्निवैतालाय नमः अग्निवैतालम् आवाहयामि स्थापयामि !
नैर्ऋत्यां - ॐ भूर्भुवः स्वः असिवैतालाय नमः असिवैतालम् आवाहयामि स्थापयामि !
पश्चिमे - ॐ भूर्भुवः स्वः कालाय नमः कालम् आवाहयामि स्थापयामि !
वायव्यां - ॐ भूर्भुवः स्वः करालाय नमः करालम् आवाहयामि स्थापयामि !
उत्तरे - ॐ भूर्भुवः स्वः एकपादाय नमः एकपादम् आवाहयामि स्थापयामि !
ईशान्य्याम् - ॐ भूर्भुवः स्वः भीमरुपाय नमः भीमरुपम् आवाहयामि स्थापयामि !
पूर्वेशानयोर्मध्ये - ॐ भूर्भुवः स्वः खेचराय नमः खेचरम् आवाहयामि स्थापयामि !
निर्ऋतिपश्चिमयोर्मध्ये - ॐ भूर्भुवः स्वः तलवासिने नमः तलवासिनम् आवाहयामि स्थापयामि !
पूजनमंत्र :- शिख्याद्यावाहितवास्तुमंडल देवताभ्यो नमः । षोडशोपचारैः पूजयेत् ।
टिप्पणी पोस्ट करा
आपला अमूल्य प्रतिसाद आमच्यासाठी खूप महत्त्वाचा आहे. जर आमच्याकडून लिखाणात काही चुकी झाली असेल किंवा आपणांस अजून काही सुचवायचा असेल तर खालील कमेंट बॉक्स मध्ये नक्की लिहा .