रुद्राष्टाध्यायी स्वस्ति प्रार्थना मन्त्राध्याय:

हरिः ॐ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥१॥

ॐ पयः॑ पृथि॒व्याम्पय॒ ओष॑धीषु पयो॑ दि॒व्यन्त॑रि॑क्षे पयो॑ धाः ।
पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्य॑म् ॥२॥

ॐ विष्णो॑ र॒राट॑मसि॒ विष्णो॒ः श्नप्त्रे॑स्थो विष्णो॒ः स्यूर॑सि॒ विष्णो॑र्ध्रु॒वो॒ऽसि । वै॒ष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥३॥

ॐ अ॒ग्निर्दे॒वता॒ वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑ ऽऽदि॒त्या दे॒वता॑ म॒रुतो॑ दे॒वता॒ विश्वे॑ दे॒वा देवता॒ बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ ॥४॥

ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।
भवे भवे नातिभवे भवस्व मां भवोद्भवाय नमः ॥५॥

वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥६॥

अघोरेभ्योऽथघोरेभ्यो घोरघोरतरेभ्यः ।
सर्वेभ्यः सर्वशर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥७॥

तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ॥८॥

ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ।
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मेऽस्तु सदा शिवोऽहम् ॥९॥

ॐ शिवो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्तेऽस्तु॒ मा मा॑ हिꣳसीः ।
निवर्त॑या॒म्यायु॑षे॒ऽन्नाद्या॑य प्र॒जन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सुवी॒र्या॑य ॥१०॥

ॐ विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव ।
यद्भ॒द्रं तन्न॒ आ सु॑व ॥११॥

ॐ द्यौः शान्ति॑र॒न्तरि॑क्षꣳ॒ शान्तिः॑ पृथि॒वी शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्तिः॑ ।
वन॒स्पत॑यः॒ शान्ति॒र्विश्वे॑ दे॒वाः शान्ति॒र्ब्रह्म॒ शान्तिः॒ सर्व॒ꣳ शान्तिः॒ शान्ति॑रे॒व शान्तिः॒ सा मा॒ शान्ति॑रेधि ॥१२॥

ॐ सर्वेषां वा एष वेदानाꣳ रसो यत्साम सर्वेषामेवैनमेतद्वेदानाꣳ रसेनाभिषिञ्चति ॥१३॥

ॐ शान्तिः शान्तिः शान्तिः । सुशान्तिर्भवतु । सर्वारिष्टशान्तिर्भवतु ॥

॥ इति स्वस्तिप्रार्थनामन्त्राध्यायः ॥
॥ इति रुद्राष्टाध्यायी समाप्ता ॥

यदक्षरपदभ्रष्टं मात्राहीनञ्च यद् भवेत् ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥

अनेन कृतेन श्रीरुद्राभिषेककर्मणा श्री साम्बसदाशिव भवानीशङ्कर महारुद्रः प्रीयताम्, न मम ।

ॐ श्रीसाम्बसदाशिवार्पणमस्तु ।

Post a Comment

आपला अमूल्य प्रतिसाद आमच्यासाठी खूप महत्त्वाचा आहे. जर आमच्याकडून लिखाणात काही चुकी झाली असेल किंवा आपणांस अजून काही सुचवायचा असेल तर खालील कमेंट बॉक्स मध्ये नक्की लिहा .

थोडे नवीन जरा जुने