समंत्रक नवग्रह मंडल देवता स्थापनम्

×

📿 सेवा बुकिंग / चौकशी फॉर्म

(मध्यभागी लाल रंगाचा, गोल आकाराचा सूर्य)

तत्र पीठमये वर्तुल द्वादशाङ्गुल मण्डले प्राङ्मुखं सूर्यं रक्तपुष्पाक्षतैरावाहयेत् ॥

ॐ आकृष्णेनरजसावर्त्तमानोनिवेशयन्नमृतंमर्त्यञ्च । हिरण्ययेनसविता रथेनादेवोयाति भुवनानि पश्यन् ॥१॥

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । 

तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥

ॐ भूर्भुवः स्वः कलिंगदेशोद्भव काश्यपसगोत्र रक्तवर्ण भो सूर्य इहागच्छ इह तिष्ठ सूर्याय नमः सूर्यम् आवाहयामि स्थापयामि ॥१॥

-----------

(आग्नेय दिशेला पांढऱ्या रंगाचा, चौकोनी आकाराचा चंद्र)

तत आग्नेय्यां दिशि चतुरस्त्रे चतुर्विंशत्यङ्गुल मण्डले प्रत्यङ्मुखं सोमं शुक्लपुष्पाक्षतैः ॥

ॐ इमन्देवाऽअसपत्न्न(गुं) सुवद्ध्वम्महतेक्षत्राय॑म॒हते ज्यैष्ठयाय महते जानराज्यायैन्द्रस्येन्द्रियाय॑ ॥ इमममुष्यपुत्रममुष्यैपुत्रमस्यैविशऽएषवोमीराजासोमोस्माकम्ब्राह्मणाना(गुं)राजा ॥२॥

दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् । 

नमामि शशिनं सोमं शंभोर्मुकुटभूषणम् ॥

ॐ भूर्भुवः स्वः यमुनातीरोद्भव आत्रेयसगोत्र शुक्लवर्ण भो सोम इहागच्छ इह तिष्ठ सोमाय नमः सोमं आवाहयामि स्थापयामि ॥२॥

-----------

(दक्षिण दिशेला लाल रंगाचा, त्रिकोणी आकाराचा मंगळ)

ततो दक्षिणस्यां दिशि त्रिकोणे त्र्यङ्गुल मण्डले दक्षिणाभिमुखं भौमं रक्तपुष्पाक्षतैः ॥

ॐ अग्निर्मूर्द्धादिव: ककुत्पति: पृथिव्याऽअयम् ॥ अपा(गुं)रेता(गुं)सिजिन्वति ॥३॥

धरणीगर्भसंभूतं विद्युत्कांतिसमप्रभम् । 

कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहम् ॥

ॐ भूर्भुवः स्वः अवंतिदेशोद्भव भारद्वाजसगोत्र रक्तवर्ण भो भौम इहागच्छ इह तिष्ठ भौमाय नमः भौमम् आवाहयामि स्थापयामि ॥३॥

-----------

(ईशान्य दिशेला पिवळ्या रंगाचा, बाणाच्या आकाराचा बुध)

ततैशान्यां दिशि बाणाकारे चतुरङ्गुल मण्डले उदङ्मुखं बुधं पीतपुष्पाक्षतैः ॥

ॐ उद्बुध्यस्वाग्नेप्रतिजागृहित्वमिष्टापूर्त्तेस(गुं)सृजेथामयं च ॥ अस्मिन्सधस्थेऽअध्युत्तरस्मिन्विश्वेदेवा यजमानश्चसीदत ॥४॥

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । 

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥

ॐ भूर्भुवः स्वः मगधदेशोद्भव आत्रेयसगोत्र पीतवर्ण भो बुध इहागच्छ इह तिष्ठ बुधाय नमः बुधम् आवाहयामि स्थापयामि ॥४॥

-----------

(उत्तर दिशेला पिवळ्या रंगाचा, पट्टीच्या आकाराचा गुरु)

तत उत्तरस्यां दिशि लंबदीर्घ चतुरस्त्रे षडङ्गुल मण्डले बृहस्पतिं पीतपुष्पाक्षतैः ॥

ॐ बृहस्पतेऽअतियदर्य्योऽअर्हाद्द्युमद्विभातिक्रतुमज्जनॆषु ॥ यद्दीदयच्छवसऽऋतप्प्रजाततदस्म्मासु॒द्रविणन्धेहिचित्रम् ॥५॥

देवानां च ऋषीणां च गुरुं कांचनसंनिभम् । 

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥

ॐ भूर्भुवः स्वः सिंधुदेशोद्भव आंगिरससगोत्र पीतवर्ण भो बृहस्पते इहागच्छ इह तिष्ठ गुरवे नमः गुरुम् आवाहयामि स्थापयामि ॥५॥

-----------

(पूर्वेला पांढऱ्या रंगाचा, पंचकोनी आकाराचा शुक्र)

तत: पूर्वस्यां दिशि पंचकोणे नवाङ्गुल मण्डले प्राङ्मुखं शुक्रं शुक्लपुष्पाक्षतैः ॥

ॐ अन्नात्परिस्रुतो रसम्बृह्मणाव्यपिबत्क्षत्रम्पय: सोमम्प्रजापति: ॥ ऋतेनसत्यमिन्द्रियम्विपान(गुं)शुक्रमन्धसऽइन्द्रस्येन्द्रियमिदमपयोमृतम्मधु ॥६॥

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । 

सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥

ॐ भूर्भुवः स्वः भोजकटदेशोद्भव भार्गवसगोत्र शुक्लवर्ण भो शुक्र इहागच्छ इह तिष्ठ शुक्राय नमः शुक्रम् आवाहयामि स्थापयामि ॥६॥

-----------

(पश्चिम दिशेला काळ्या रंगाचा, धनुष्याच्या आकाराचा शनि)

तत: पश्चिमायां दिशि धनुराकारे ह्यङ्गुल मण्डले प्रत्यङ्मुखं शनिं कृष्णपुष्पाक्षतैः ॥

ॐ शन्नोदेवीरभिष्टयऽआपोभवन्तुपीतये ॥ शय्योरभिस्रवन्तुन: ॥७॥

नीलांजनसमाभासं रविपुत्रं यमाग्रजम् । 

छायामार्तंडसंभूतं तं नमामि शनैश्चरम् ॥

ॐ भूर्भुवः स्वः सौराष्ट्रदेशोद्भव काश्यपसगोत्र कृष्णवर्ण भो शनैश्चर इहागच्छ इह तिष्ठ शनैश्चराय नमः शनैश्चरम् आवाहयामि स्थापयामि ॥७॥

-----------

(नैऋत्य कोनात हिरव्या रंगाचा, सुर्पाच्या आकाराचा राहु)

ततो नैऋत्यां दिशि शूर्पाकारे द्वादशाङ्गुल मण्डले दक्षिणाभिमुखं राहुं कृष्णपुष्पाक्षतैः ॥

ॐ कयाानश्चित्रऽआभुवदूतीसदावृध: सखा ॥ कयाशचिष्ठयावृता ॥८॥

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् । 

सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥

ॐ भूर्भुवः स्वः राठिनापुरोद्भव पैठीनससगोत्र नीलवर्ण भो राहो इहागच्छ इह तिष्ठ राहवे नमः राहुम् आवाहयामि स्थापयामि ॥८॥

-----------

(वायव्य दिशेला चित्रविचित्र रंगाचा, झेंड्याच्या आकाराचा केतु)

ततो वायव्यां दिशि ध्वजाकारे षडङ्गुल मण्डले दक्षिणाभिमुखान् केतून् धूम्रपुष्पाक्षतैः ॥

ॐ केतुंकृण्वन्नकेतवेपेशोमय्र्याऽअपेशसे ॥ समुषद्भिरजायथा: ॥९॥

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् । 

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥

ॐ भूर्भुवः स्वः अंतर्वेदीसमुद्भव जैमिनिसगोत्र धूम्रवर्ण भो केतव इहागच्छत इह तिष्ठत केतुभ्यो नमः केतून आवाहयामि स्थापयामि ॥९॥

॥ अधिदेवता स्थापना ॥

सूर्यदक्षिणपार्श्वे ॥ (सूर्य ग्रहाच्या उजव्या बाजूस)

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ॥ उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥

ईश्वरं सर्वभूतानां सर्वविद्येश्वरं तथा ॥ 

शंकरं पार्वतीनाथं प्रणमामि मुहुर्मुहुः ॥

ॐ भूर्भुवः स्वः ईश्वराय नमः ईश्वरम् आवाहयामि स्थापयामि ॥

-----------

सोमदक्षिणपार्श्वे ॥ (चंद्र ग्रहाच्या उजव्या बाजूस)

ॐ श्रीश्च ते लक्ष्मीश्च पत्न्या वहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् ॥

हिमाचलसुतां देवीं शंकरप्राणवल्लभाम् ॥ 

उमां सौभाग्यदात्रीं च वन्देऽहं जगदम्बिकाम् ॥

ॐ भूर्भुवः स्वः उमायै नमः उमाम् आवाहयामि स्थापयामि ॥

-----------

भौमदक्षिणपार्श्वे ॥ (मंगळ ग्रहाच्या उजव्या बाजूस)

ॐ यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् ॥ श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥

महादेवांशसंभूतं कृत्तिकातनयं तथा ॥ 

सेनानीं देवतानां च नमामि स्कन्दमद्भुतम् ॥

ॐ भूर्भुवः स्वः स्कन्दाय नमः स्कन्दम् आवाहयामि स्थापयामि ॥

-----------

बुधदक्षिणपार्श्वे ॥ (बुध ग्रहाच्या उजव्या बाजूस)

ॐ विष्णोरराटमसि विष्णोः श्नप्त्रेस्थो विष्णोः स्यूरसि विष्णोर्ध्रुवोसि ॥ वैष्णवमसि विष्णवे त्वा ॥

सृष्टिसंरक्षितारं च लक्ष्मीनाथं वरं विभुम् ॥ 

वैकुण्ठवासिनं वन्दे विष्णुं जिष्णुं परं प्रभुम् ॥

ॐ भूर्भुवः स्वः विष्णवे नमः विष्णुम् आवाहयामि स्थापयामि ॥

-----------

गुरुदक्षिणपार्श्वे ॥ (गुरु ग्रहाच्या उजव्या बाजूस)

ॐ आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्रे राजन्यः शूर इषव्योतिव्याधी महारथो जायतां दोग्ध्री धेनुर्वोढा नड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥

चतुर्मुखं चतुर्बाहुं सृष्ट्युत्पत्तिकारकम् ॥ 

सावित्रीस्वामिनं देवं ब्रह्माणं प्रणमाम्यहम् ॥

ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आवाहयामि स्थापयामि ॥

-----------

शुक्रदक्षिणपार्श्वे ॥ (शुक्र ग्रहाच्या उजव्या बाजूस)

ॐ सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ॥ जहि शत्रूँ २॥ रप मृधो नुदस्वाभयं कृणुहि विश्वतो नः ॥

स्वर्गाधिपं शचीनाथं देवानां प्रभुमीश्वरम् ॥ 

त्रैलोक्याधिपतिं वन्दे देवेन्द्रं लोकपालकम् ॥

ॐ भूर्भुवः स्वः इन्द्राय नमः इन्द्रम् आवाहयामि स्थापयामि ॥

-----------

शनिदक्षिणपार्श्वे ॥ (शनि ग्रहाच्या उजव्या बाजूस)

ॐ यमाय त्वांगिरस्वते पितृमते स्वाहा ॥ स्वाहा घर्म्माय स्वाहा घर्म्मः पित्रे ॥

धर्माधर्मविवेकतारं पुण्यपापफलप्रदम् ॥ 

सर्वलोकनियन्तारं वन्दे वैवस्वतं यमम् ॥

ॐ भूर्भुवः स्वः यमाय नमः यमम् आवाहयामि स्थापयामि ॥

-----------

राहुदक्षिणपार्श्वे ॥ (राहु ग्रहाच्या उजव्या बाजूस)

ॐ काषिर्हसि समुद्रस्य त्वा क्षित्या उन्नयामि ॥ समापो अद्भिरग्मत समोषधीभिरोषधीः ॥

कालं कलयतां नाथं सर्वकालस्वरूपिणम् ॥ 

अद्भुतं भगवद्रूपं नमाम्यहमगोचरम् ॥

ॐ भूर्भुवः स्वः कालाय नमः कालम् आवाहयामि स्थापयामि ॥

-----------

केतुदक्षिणपार्श्वे ॥ (केतु ग्रहाच्या उजव्या बाजूस)

ॐ चित्रावसो स्वस्ति ते पारमशीय ॥

द्रष्टारं सर्वलोकानां सदसत्कर्मणां सदा ॥ 

मन्त्रिणं यमराजस्य चित्रगुप्तं नमाम्यहम् ॥

ॐ भूर्भुवः स्वः चित्रगुप्ताय नमः चित्रगुप्तम् आवाहयामि स्थापयामि ॥

॥ प्रत्यधिदेवता स्थापना ॥

सूर्यवामपार्श्वे ॥ (सूर्य ग्रहाच्या डाव्या बाजूस)

ॐ अग्निदूतं पुरोदधे हव्यवाहमुपब्रुवे ॥ देवाँ २॥ आसादयादिह ॥

चतुःशृङ्गस्त्रिपादश्च द्विशीर्ष सप्तहस्तकः ॥ 

वरुणार्णिसंजातं वन्देऽग्निं मेषवाहनम् ॥

ॐ भूर्भुवः स्वः अग्नये नमः अग्निम् आवाहयामि स्थापयामि ॥

-----------

सोमवामपार्श्वे ॥ (चंद्र ग्रहाच्या डाव्या बाजूस)

ॐ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ॥ महे रणाय चक्षसे ॥

सर्वेषां जीवनोपाया यादसां पतयस्तथा ॥ 

पावनाः सर्वलोकानां शुद्धाः प्रणमाम्यहम् ॥

ॐ भूर्भुवः स्वः अद्भ्यो नमः अपः आवाहयामि स्थापयामि ॥

-----------

भौमवामपार्श्वे ॥ (मंगळ ग्रहाच्या डाव्या बाजूस)

ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी ॥ यच्छा नः शर्म सप्रथाः ॥

वराहेणोद्धृता देवीं सर्वसाधारणक्षमाम् ॥ 

पृथुना संस्कृतां सौम्यां धरां वन्दे वसुप्रदाम् ॥

ॐ भूर्भुवः स्वः पृथिव्यै नमः पृथिवीम् आवाहयामि स्थापयामि ॥

-----------

बुधवामपार्श्वे ॥ (बुध ग्रहाच्या डाव्या बाजूस)

ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ॥ समूढमस्यपा (गुं) सुरे ॥

सर्वत्र व्यापकं देवं प्रभुं लोकनमस्कृतम् ॥ 

सर्वकल्याणकर्तारं वन्दे नारायणं विभुम् ॥

ॐ भूर्भुवः स्वः नारायणाय नमः नारायणम् आवाहयामि स्थापयामि ॥

-----------

गुरुवामपार्श्वे ॥ (गुरु ग्रहाच्या डाव्या बाजूस)

ॐ त्रातारमिन्द्रमवितारमिन्द्रं हवे हवे सुहवं शूरमिन्द्रम् ॥ ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥

कश्यपाद्दितिसंभूतं सहस्राक्षं समर्थकम् ॥ 

जयन्तपितरं वन्दे देवेन्द्रं शतयाजिनम् ॥

ॐ भूर्भुवः स्वः इन्द्राय नमः इन्द्रम् आवाहयामि स्थापयामि ॥

-----------

शुक्रवामपार्श्वे ॥ (शुक्र ग्रहाच्या डाव्या बाजूस)

ॐ अदित्यैरास्नासीन्द्राण्या उष्णीषः ॥ पूषा सिन्धुम्मर्य्यादैषीः ॥

इन्द्रपत्नीं सतीं देवीं सदुणालंकृतां सदा ॥ 

देवान्नार्चितां शुद्धां इन्द्राणीं प्रणमाम्यहम् ॥

ॐ भूर्भुवः स्वः इन्द्राण्यै नमः इन्द्राणीम् आवाहयामि स्थापयामि ॥

-----------

शनिवामपार्श्वे ॥ (शनि ग्रहाच्या डाव्या बाजूस)

ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिता बभूव ॥ यत्कामास्ते जुहुमस्तन्नो अस्तु वयम् स्याम पतयो रयीणाम् ॥

प्रजापतिगणानां यो ह्यधिष्ठाता निरंतरम् ॥ 

वन्दे प्रजापतिं तं तु प्रजानां पतिमुद्धतम् ॥

ॐ भूर्भुवः स्वः प्रजापतये नमः प्रजापतिम् आवाहयामि स्थापयामि ॥

-----------

राहुवामपार्श्वे ॥ (राहु ग्रहाच्या डाव्या बाजूस)

ॐ नमोस्तु सर्पेभ्यो ये के च पृथिवीमनु ॥ येऽन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥

महाफणाधरान् नित्यं पातालतलवासिन: ॥ 

सर्वलोकहितार्थाय सर्पान् वन्दे शिवाय नम: ॥

ॐ भूर्भुवः स्वः सर्पेभ्यो नमः सर्पान् आवाहयामि स्थापयामि ॥

-----------

केतुवामपार्श्वे ॥ (केतु ग्रहाच्या डाव्या बाजूस)

ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ॥ स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥

विष्णोर्वरप्रदानेन तपः कर्तारमद्भुतम् ॥ 

कर्म कर्तुं जगत्स्रष्टारं ब्रह्माणं तं नमाम्यहम् ॥

ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आवाहयामि स्थापयामि ॥

॥ पञ्चलोकपाल देवता स्थापनम् ॥

(सूर्य ग्रहाच्या पश्चिम दिशेस, राहुच्या उत्तरेस क्रमाने पंचलोकपाल स्थापन करावेत)

राहोस्तरतः (राहुच्या उत्तर बाजूस - विनायकादयो वास्तुपुरुषक्षेत्रपालो च)

ॐ गणानां त्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवामहे निधीनां त्वा निधिपतिं हवामहे वसो मम ॥ आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥

पार्वतीशिवसत्पुत्रं गणानां पतिमीश्वरम् । 

सर्वेषां विघ्नहर्तारं गणेशं तं नमाम्यहम् ॥

ॐ भूर्भुवः स्वः गणपतये नमः गणपतिम् आवाहयामि स्थापयामि ॥

-----------

शनेरुत्तरतः (शनिच्या उत्तरेला)

ॐ अम्बे अम्बिकेऽबालिके न मा नयति कश्चन ॥ ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥

जगत्कल्याणसंत्रात्रीं दुष्टदैत्यविनाशिनीम् । 

सर्वेषां मातरं नित्यां दुर्गा देवीं नमाम्यहम् ॥

ॐ भूर्भुवः स्वः दुर्गायै नमः दुर्गाम् आवाहयामि स्थापयामि ॥

-----------

रवेरुत्तरतः (रविच्या उत्तरेला)

ॐ आनो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् ॥ वायो अस्मिन्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥

अनेकरूपभेदेन प्राणिनां जीवनं परम् । 

सर्वत्र संचरन्तं तं वायुं वन्दे ह्यरूपकम् ॥

ॐ भूर्भुवः स्वः वायवे नमः वायुम् आवाहयामि स्थापयामि ॥

-----------

राहोर्दक्षिणे (राहुच्या दक्षिणेला)

ॐ घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा ॥ दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहा ॥

नीरूपं निर्विकारं च सर्वत्र व्यापकं सदा । 

ब्रह्मस्वरूपमज्ञेयमाकाशं प्रणमाम्यहम् ॥

ॐ भूर्भुवः स्वः आकाशाय नमः आकाशम् आवाहयामि स्थापयामि ॥

-----------

केतुदक्षिणे (केतुच्या दक्षिणेला)

ॐ या वां कशा मधुमत्यश्विना सूनृतावती ॥ तया यज्ञं मिमिक्षतम् ॥

अश्विन्यश्वस्वरूपोक्त संज्ञासूर्यसुतौ परौ । 

देवानां भिषजौ वन्दे ह्यश्विनौ युग्मरूपिणौ ॥

ॐ भूर्भुवः स्वः अश्विभ्यां नमः अश्विनौ आवाहयामि स्थापयामि ॥

-----------

॥ वास्तु - क्षेत्रपाल देवता स्थापनम् ॥

ईशान्य कोपऱ्यात (वास्तुपुरुष)

ॐ वास्तोष्पते प्रति जानीह्यस्मान्त्स्वावेशो अनमीवो भवा नः ॥ यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥

नमस्ते वास्तुपुरुष भूशय्याभिरत प्रभो ॥ 

मदगृहं धनधान्यादि समृद्धं कुरु सर्वदा ॥

ॐ भूर्भुवः स्वः वास्तुपुरुषाय नमः वास्तुपुरुषम् आवाहयामि स्थापयामि ॥

-----------

नैऋत्य कोपऱ्यात (क्षेत्रपाल)

ॐ नहि स्पशमविन्दन्नन्यमस्माद्वैश्वानरात्पुर एतारमग्नेः ॥ एमेनमवृधन्नमृता अमर्त्यं वैश्वानरं क्षेत्रजित्याय देवाः ॥

क्षेत्रपाल नमस्तुभ्यं सर्वरोगनिवारक ॥ 

मम यज्ञफलं देहि सर्वकामप्रदो भव ॥

ॐ भूर्भुवः स्वः क्षेत्रपालाय नमः क्षेत्रपालम् आवाहयामि स्थापयामि ॥

॥ अथ दशदिक्पाल आवाहन ॥

(पीठाच्या, चौरंगाच्या दाही दिशेत बाहेरून दशदिक्पालांची स्थापना करावी)

पूर्वे (पूर्व दिशेला)

ॐ त्रातारमिन्द्रमवितारमिन्द्रं हवे हवे सुहवं शूरमिन्द्रम् ॥ ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥

वज्रायुधं देवदेवं पूर्वदिक्पालकं सदा । 

अनेकयज्ञकर्तारमिन्द्रं वन्दे सुरेश्वरम् ॥

ॐ भूर्भुवः स्वः इन्द्राय नमः इन्द्रम् आवाहयामि स्थापयामि ॥

-----------

आग्नेय्यां (आग्नेय दिशेला)

ॐ त्वं नो अग्नेऽवमः देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्व्य ॥ त्राता तोकस्य तनये गवामस्य निमेषं रक्षमाणस्तव व्रते ॥

आग्नेयदिकप्रभुं दीप्तं शक्तिप्रहरणं परम् ।

 ज्वालाभ्यामतनुं वन्दे ह्यग्निं लोकशुभंकरम् ॥

ॐ भूर्भुवः स्वः अग्नये नमः अग्निम् आवाहयामि स्थापयामि ॥

-----------

दक्षिणे (दक्षिण दिशेला)

ॐ यमाय त्वांगिरस्वते पितृमते स्वाहा ॥

सर्वप्राणिनियन्तारं याम्यदिक्पतिमीश्वरम् । 

महादण्डधरं देवं यमं तं प्रणमाम्यहम् ॥

ॐ भूर्भुवः स्वः यमाय नमः यमम् आवाहयामि स्थापयामि ॥

-----------

नैऋत्यां (नैऋत्य दिशेला)

ॐ असुन्वन्त मयजमानमिच्छस्तेनस्येत्यामन्विहि तस्करस्य ॥ अन्यमस्मदिच्छ सातन्त इत्या नमो देवि निर्ऋते तुभ्यमस्तु ॥

राक्षसाधिपतिं शूरं नैऋत्याधीशमीश्वरम् । 

खड्गप्रहरणं वन्दे निर्ऋतिं लोकरक्षकम् ॥

ॐ भूर्भुवः स्वः निर्ऋतये नमः निर्ऋतिम् आवाहयामि स्थापयामि ॥

-----------

पश्चिमे (पश्चिम दिशेला)

ॐ तत्त्वायामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः ॥ अहेडमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः ॥

पाशायुधधरं देवं प्रतीचीदिक्पालकं परम् । 

सर्वेषां जीवनं वन्दे यादसां पतिं वरुणम् ॥

ॐ भूर्भुवः स्वः वरुणाय नमः वरुणम् आवाहयामि स्थापयामि ॥

-----------

वायव्यां (वायव्य दिशेला)

ॐ आनो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् ॥

इन्द्रकृतानेकरूपं दितिसंभुतमद्भुतम् । 

वायव्यदिकप्रभुं वन्दे वायुंकुशधारिणम् ॥

ॐ भूर्भुवः स्वः वायवे नमः वायुम् आवाहयामि स्थापयामि ॥

-----------

उत्तरे (उत्तर दिशेला)

ॐ वयं सोमव्रते तव मनस्तनूषु बिभ्रतः ॥ प्रजावन्तः सचेमहि ॥

यक्षराजं धनाध्यक्षमुदीचीदिक्पतिं प्रभुम् । 

लोकपालमहं वन्दे कुबेरं सुगदाधरम् ॥

ॐ भूर्भुवः स्वः कुबेराय नमः कुबेरम् आवाहयामि स्थापयामि ॥

-----------

ईशान्यां (ईशान्य दिशेला)

ॐ तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम् ॥ पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥

ऐशान्यधिपतिं देवं सर्वदेव सुसेवितम् । 

सर्वेश्वरेश्वरं वन्दे शूलपाणिमीश्वरम् ॥

ॐ भूर्भुवः स्वः ईश्वराय नमः ईश्वरम् आवाहयामि स्थापयामि ॥

-----------

ऊर्ध्व (वरच्या बाजूस - पूर्व ईशान्येच्या मध्ये)

ॐ अस्मे रुद्रा मे हना पर्वतसो वृत्रहत्ये भरहूतौ सजोषाः ॥ यः शंसते स्तुवते धायि पप्रज्ञ इन्द्रज्येष्ठा अस्माँ २॥ अवन्तु देवाः ॥

ऊर्ध्वदिक्पालकं नित्यं लोक सृष्टी विधायकम् । 

पितामहं प्रभुं देवं ब्रह्माणं प्रणमाम्यहम् ॥

ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आवाहयामि स्थापयामि ॥

-----------

अधः (खालच्या बाजूस)

ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ॥

अधोदिक्पालकं देवं सहस्रशीर्षमंडितम् । 

सर्व पृथ्वीधरं वन्दे ह्यनन्तं शुभदायकम् ॥

ॐ भूर्भुवः स्वः अनन्ताय नमः अनन्तम् आवाहयामि स्थापयामि ॥

ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञं समिमं दधातु । विश्वे देवास इह मादयन्तामो३म्प्रतिष्ठ ॥

ॐ अस्मिन् मण्डले सर्वेदेवताः सुप्रतिष्ठिता: वरदा: भवन्तु ॥

Post a Comment

आपला अमूल्य प्रतिसाद आमच्यासाठी खूप महत्त्वाचा आहे. जर आमच्याकडून लिखाणात काही चुकी झाली असेल किंवा आपणांस अजून काही सुचवायचा असेल तर खालील कमेंट बॉक्स मध्ये नक्की लिहा .

थोडे नवीन जरा जुने