•|| नवग्रह मंडल स्थापनम् ||•

(मध्यभागी लाल रंगाचा, गोल आकाराचा सूर्य)
तत्र पीठमये वर्तुल द्वादशाङ्गुल मण्डले प्राङ्मुखं सूर्यं रक्तपुष्पाक्षतैरावाहयेत् ॥ ॐ आकृष्णेनरजसावर्त्तमानोनिवेशयन्नमृतंमर्त्यञ्च । हिरण्ययेनसविता रथेनादेवोयाति भुवनानि पश्यन् ॥१॥ जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ ॐ भूर्भुवः स्वः कलिंगदेशोद्भव काश्यपसगोत्र रक्तवर्ण भो सूर्य इहागच्छ इह तिष्ठ सूर्याय नमः सूर्यम् आवाहयामि स्थापयामि ॥१॥
-----------
(आग्नेय दिशेला पांढऱ्या रंगाचा, चौकोनी आकाराचा चंद्र)
तत आग्नेय्यां दिशि चतुरस्त्रे चतुर्विंशत्यङ्गुल मण्डले प्रत्यङ्मुखं सोमं शुक्लपुष्पाक्षतैः ॥ ॐ इमन्देवाऽअसपत्न्न(गुं) सुवद्ध्वम्महतेक्षत्राय॑म॒हते ज्यैष्ठयाय महते जानराज्यायैन्द्रस्येन्द्रियाय॑ ॥ इमममुष्यपुत्रममुष्यैपुत्रमस्यैविशऽएषवोमीराजासोमोस्माकम्ब्राह्मणाना(गुं)राजा ॥२॥ दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् । नमामि शशिनं सोमं शंभोर्मुकुटभूषणम् ॥ ॐ भूर्भुवः स्वः यमुनातीरोद्भव आत्रेयसगोत्र शुक्लवर्ण भो सोम इहागच्छ इह तिष्ठ सोमाय नमः सोमं आवाहयामि स्थापयामि ॥२॥
-----------
(दक्षिण दिशेला लाल रंगाचा, त्रिकोणी आकाराचा मंगळ)
ततो दक्षिणस्यां दिशि त्रिकोणे त्र्यङ्गुल मण्डले दक्षिणाभिमुखं भौमं रक्तपुष्पाक्षतैः ॥ ॐ अग्निर्मूर्द्धादिव: ककुत्पति: पृथिव्याऽअयम् ॥ अपा(गुं)रेता(गुं)सिजिन्वति ॥३॥ धरणीगर्भसंभूतं विद्युत्कांतिसमप्रभम् । कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहम् ॥ ॐ भूर्भुवः स्वः अवंतिदेशोद्भव भारद्वाजसगोत्र रक्तवर्ण भो भौम इहागच्छ इह तिष्ठ भौमाय नमः भौमम् आवाहयामि स्थापयामि ॥३॥
-----------
(ईशान्य दिशेला पिवळ्या रंगाचा, बाणाच्या आकाराचा बुध)
ततैशान्यां दिशि बाणाकारे चतुरङ्गुल मण्डले उदङ्मुखं बुधं पीतपुष्पाक्षतैः ॥ ॐ उद्बुध्यस्वाग्नेप्रतिजागृहित्वमिष्टापूर्त्तेस(गुं)सृजेथामयं च ॥ अस्मिन्सधस्थेऽअध्युत्तरस्मिन्विश्वेदेवा यजमानश्चसीदत ॥४॥ प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ॐ भूर्भुवः स्वः मगधदेशोद्भव आत्रेयसगोत्र पीतवर्ण भो बुध इहागच्छ इह तिष्ठ बुधाय नमः बुधम् आवाहयामि स्थापयामि ॥४॥
-----------
(उत्तर दिशेला पिवळ्या रंगाचा, पट्टीच्या आकाराचा गुरु)
तत उत्तरस्यां दिशि लंबदीर्घ चतुरस्त्रे षडङ्गुल मण्डले बृहस्पतिं पीतपुष्पाक्षतैः ॥ ॐ बृहस्पतेऽअतियदर्य्योऽअर्हाद्द्युमद्विभातिक्रतुमज्जनॆषु ॥ यद्दीदयच्छवसऽऋतप्प्रजाततदस्म्मासु॒द्रविणन्धेहिचित्रम् ॥५॥ देवानां च ऋषीणां च गुरुं कांचनसंनिभम् । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ ॐ भूर्भुवः स्वः सिंधुदेशोद्भव आंगिरससगोत्र पीतवर्ण भो बृहस्पते इहागच्छ इह तिष्ठ गुरवे नमः गुरुम् आवाहयामि स्थापयामि ॥५॥
-----------
(पूर्वेला पांढऱ्या रंगाचा, पंचकोनी आकाराचा शुक्र)
तत: पूर्वस्यां दिशि पंचकोणे नवाङ्गुल मण्डले प्राङ्मुखं शुक्रं शुक्लपुष्पाक्षतैः ॥ ॐ अन्नात्परिस्रुतो रसम्बृह्मणाव्यपिबत्क्षत्रम्पय: सोमम्प्रजापति: ॥ ऋतेनसत्यमिन्द्रियम्विपान(गुं)शुक्रमन्धसऽइन्द्रस्येन्द्रियमिदमपयोमृतम्मधु ॥६॥ हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ॐ भूर्भुवः स्वः भोजकटदेशोद्भव भार्गवसगोत्र शुक्लवर्ण भो शुक्र इहागच्छ इह तिष्ठ शुक्राय नमः शुक्रम् आवाहयामि स्थापयामि ॥६॥
-----------
(पश्चिम दिशेला काळ्या रंगाचा, धनुष्याच्या आकाराचा शनि)
तत: पश्चिमायां दिशि धनुराकारे ह्यङ्गुल मण्डले प्रत्यङ्मुखं शनिं कृष्णपुष्पाक्षतैः ॥ ॐ शन्नोदेवीरभिष्टयऽआपोभवन्तुपीतये ॥ शय्योरभिस्रवन्तुन: ॥७॥ नीलांजनसमाभासं रविपुत्रं यमाग्रजम् । छायामार्तंडसंभूतं तं नमामि शनैश्चरम् ॥ ॐ भूर्भुवः स्वः सौराष्ट्रदेशोद्भव काश्यपसगोत्र कृष्णवर्ण भो शनैश्चर इहागच्छ इह तिष्ठ शनैश्चराय नमः शनैश्चरम् आवाहयामि स्थापयामि ॥७॥
-----------
(नैऋत्य कोनात हिरव्या रंगाचा, सुर्पाच्या आकाराचा राहु)
ततो नैऋत्यां दिशि शूर्पाकारे द्वादशाङ्गुल मण्डले दक्षिणाभिमुखं राहुं कृष्णपुष्पाक्षतैः ॥ ॐ कयाानश्चित्रऽआभुवदूतीसदावृध: सखा ॥ कयाशचिष्ठयावृता ॥८॥ अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥ ॐ भूर्भुवः स्वः राठिनापुरोद्भव पैठीनससगोत्र नीलवर्ण भो राहो इहागच्छ इह तिष्ठ राहवे नमः राहुम् आवाहयामि स्थापयामि ॥८॥
-----------
(वायव्य दिशेला चित्रविचित्र रंगाचा, झेंड्याच्या आकाराचा केतु)
ततो वायव्यां दिशि ध्वजाकारे षडङ्गुल मण्डले दक्षिणाभिमुखान् केतून् धूम्रपुष्पाक्षतैः ॥ ॐ केतुंकृण्वन्नकेतवेपेशोमय्र्याऽअपेशसे ॥ समुषद्भिरजायथा: ॥९॥ पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् । रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ ॐ भूर्भुवः स्वः अंतर्वेदीसमुद्भव जैमिनिसगोत्र धूम्रवर्ण भो केतव इहागच्छत इह तिष्ठत केतुभ्यो नमः केतून आवाहयामि स्थापयामि ॥९॥

॥ अधिदेवता स्थापना ॥

सूर्यदक्षिणपार्श्वे ॥ (सूर्य ग्रहाच्या उजव्या बाजूस) ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ॥ उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ ईश्वरं सर्वभूतानां सर्वविद्येश्वरं तथा ॥ शंकरं पार्वतीनाथं प्रणमामि मुहुर्मुहुः ॥ ॐ भूर्भुवः स्वः ईश्वराय नमः ईश्वरम् आवाहयामि स्थापयामि ॥
-----------
सोमदक्षिणपार्श्वे ॥ (चंद्र ग्रहाच्या उजव्या बाजूस) ॐ श्रीश्च ते लक्ष्मीश्च पत्न्या वहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् ॥ हिमाचलसुतां देवीं शंकरप्राणवल्लभाम् ॥ उमां सौभाग्यदात्रीं च वन्देऽहं जगदम्बिकाम् ॥ ॐ भूर्भुवः स्वः उमायै नमः उमाम् आवाहयामि स्थापयामि ॥
-----------
भौमदक्षिणपार्श्वे ॥ (मंगळ ग्रहाच्या उजव्या बाजूस) ॐ यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् ॥ श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥ महादेवांशसंभूतं कृत्तिकातनयं तथा ॥ सेनानीं देवतानां च नमामि स्कन्दमद्भुतम् ॥ ॐ भूर्भुवः स्वः स्कन्दाय नमः स्कन्दम् आवाहयामि स्थापयामि ॥
-----------
बुधदक्षिणपार्श्वे ॥ (बुध ग्रहाच्या उजव्या बाजूस) ॐ विष्णोरराटमसि विष्णोः श्नप्त्रेस्थो विष्णोः स्यूरसि विष्णोर्ध्रुवोसि ॥ वैष्णवमसि विष्णवे त्वा ॥ सृष्टिसंरक्षितारं च लक्ष्मीनाथं वरं विभुम् ॥ वैकुण्ठवासिनं वन्दे विष्णुं जिष्णुं परं प्रभुम् ॥ ॐ भूर्भुवः स्वः विष्णवे नमः विष्णुम् आवाहयामि स्थापयामि ॥
-----------
गुरुदक्षिणपार्श्वे ॥ (गुरु ग्रहाच्या उजव्या बाजूस) ॐ आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्रे राजन्यः शूर इषव्योतिव्याधी महारथो जायतां दोग्ध्री धेनुर्वोढा नड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥ चतुर्मुखं चतुर्बाहुं सृष्ट्युत्पत्तिकारकम् ॥ सावित्रीस्वामिनं देवं ब्रह्माणं प्रणमाम्यहम् ॥ ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आवाहयामि स्थापयामि ॥
-----------
शुक्रदक्षिणपार्श्वे ॥ (शुक्र ग्रहाच्या उजव्या बाजूस) ॐ सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ॥ जहि शत्रूँ २॥ रप मृधो नुदस्वाभयं कृणुहि विश्वतो नः ॥ स्वर्गाधिपं शचीनाथं देवानां प्रभुमीश्वरम् ॥ त्रैलोक्याधिपतिं वन्दे देवेन्द्रं लोकपालकम् ॥ ॐ भूर्भुवः स्वः इन्द्राय नमः इन्द्रम् आवाहयामि स्थापयामि ॥
-----------
शनिदक्षिणपार्श्वे ॥ (शनि ग्रहाच्या उजव्या बाजूस) ॐ यमाय त्वांगिरस्वते पितृमते स्वाहा ॥ स्वाहा घर्म्माय स्वाहा घर्म्मः पित्रे ॥ धर्माधर्मविवेकतारं पुण्यपापफलप्रदम् ॥ सर्वलोकनियन्तारं वन्दे वैवस्वतं यमम् ॥ ॐ भूर्भुवः स्वः यमाय नमः यमम् आवाहयामि स्थापयामि ॥
-----------
राहुदक्षिणपार्श्वे ॥ (राहु ग्रहाच्या उजव्या बाजूस) ॐ काषिर्हसि समुद्रस्य त्वा क्षित्या उन्नयामि ॥ समापो अद्भिरग्मत समोषधीभिरोषधीः ॥ कालं कलयतां नाथं सर्वकालस्वरूपिणम् ॥ अद्भुतं भगवद्रूपं नमाम्यहमगोचरम् ॥ ॐ भूर्भुवः स्वः कालाय नमः कालम् आवाहयामि स्थापयामि ॥
-----------
केतुदक्षिणपार्श्वे ॥ (केतु ग्रहाच्या उजव्या बाजूस) ॐ चित्रावसो स्वस्ति ते पारमशीय ॥ द्रष्टारं सर्वलोकानां सदसत्कर्मणां सदा ॥ मन्त्रिणं यमराजस्य चित्रगुप्तं नमाम्यहम् ॥ ॐ भूर्भुवः स्वः चित्रगुप्ताय नमः चित्रगुप्तम् आवाहयामि स्थापयामि ॥

॥ प्रत्यधिदेवता स्थापना ॥

सूर्यवामपार्श्वे ॥ (सूर्य ग्रहाच्या डाव्या बाजूस) ॐ अग्निदूतं पुरोदधे हव्यवाहमुपब्रुवे ॥ देवाँ २॥ आसादयादिह ॥ चतुःशृङ्गस्त्रिपादश्च द्विशीर्ष सप्तहस्तकः ॥ वरुणार्णिसंजातं वन्देऽग्निं मेषवाहनम् ॥ ॐ भूर्भुवः स्वः अग्नये नमः अग्निम् आवाहयामि स्थापयामि ॥
-----------
सोमवामपार्श्वे ॥ (चंद्र ग्रहाच्या डाव्या बाजूस) ॐ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ॥ महे रणाय चक्षसे ॥ सर्वेषां जीवनोपाया यादसां पतयस्तथा ॥ पावनाः सर्वलोकानां शुद्धाः प्रणमाम्यहम् ॥ ॐ भूर्भुवः स्वः अद्भ्यो नमः अपः आवाहयामि स्थापयामि ॥
-----------
भौमवामपार्श्वे ॥ (मंगळ ग्रहाच्या डाव्या बाजूस) ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी ॥ यच्छा नः शर्म सप्रथाः ॥ वराहेणोद्धृता देवीं सर्वसाधारणक्षमाम् ॥ पृथुना संस्कृतां सौम्यां धरां वन्दे वसुप्रदाम् ॥ ॐ भूर्भुवः स्वः पृथिव्यै नमः पृथिवीम् आवाहयामि स्थापयामि ॥
-----------
बुधवामपार्श्वे ॥ (बुध ग्रहाच्या डाव्या बाजूस) ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ॥ समूढमस्यपा (गुं) सुरे ॥ सर्वत्र व्यापकं देवं प्रभुं लोकनमस्कृतम् ॥ सर्वकल्याणकर्तारं वन्दे नारायणं विभुम् ॥ ॐ भूर्भुवः स्वः नारायणाय नमः नारायणम् आवाहयामि स्थापयामि ॥
-----------
गुरुवामपार्श्वे ॥ (गुरु ग्रहाच्या डाव्या बाजूस) ॐ त्रातारमिन्द्रमवितारमिन्द्रं हवे हवे सुहवं शूरमिन्द्रम् ॥ ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥ कश्यपाद्दितिसंभूतं सहस्राक्षं समर्थकम् ॥ जयन्तपितरं वन्दे देवेन्द्रं शतयाजिनम् ॥ ॐ भूर्भुवः स्वः इन्द्राय नमः इन्द्रम् आवाहयामि स्थापयामि ॥
-----------
शुक्रवामपार्श्वे ॥ (शुक्र ग्रहाच्या डाव्या बाजूस) ॐ अदित्यैरास्नासीन्द्राण्या उष्णीषः ॥ पूषा सिन्धुम्मर्य्यादैषीः ॥ इन्द्रपत्नीं सतीं देवीं सदुणालंकृतां सदा ॥ देवान्नार्चितां शुद्धां इन्द्राणीं प्रणमाम्यहम् ॥ ॐ भूर्भुवः स्वः इन्द्राण्यै नमः इन्द्राणीम् आवाहयामि स्थापयामि ॥
-----------
शनिवामपार्श्वे ॥ (शनि ग्रहाच्या डाव्या बाजूस) ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिता बभूव ॥ यत्कामास्ते जुहुमस्तन्नो अस्तु वयम् स्याम पतयो रयीणाम् ॥ प्रजापतिगणानां यो ह्यधिष्ठाता निरंतरम् ॥ वन्दे प्रजापतिं तं तु प्रजानां पतिमुद्धतम् ॥ ॐ भूर्भुवः स्वः प्रजापतये नमः प्रजापतिम् आवाहयामि स्थापयामि ॥
-----------
राहुवामपार्श्वे ॥ (राहु ग्रहाच्या डाव्या बाजूस) ॐ नमोस्तु सर्पेभ्यो ये के च पृथिवीमनु ॥ येऽन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ महाफणाधरान् नित्यं पातालतलवासिन: ॥ सर्वलोकहितार्थाय सर्पान् वन्दे शिवाय नम: ॥ ॐ भूर्भुवः स्वः सर्पेभ्यो नमः सर्पान् आवाहयामि स्थापयामि ॥
-----------
केतुवामपार्श्वे ॥ (केतु ग्रहाच्या डाव्या बाजूस) ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ॥ स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥ विष्णोर्वरप्रदानेन तपः कर्तारमद्भुतम् ॥ कर्म कर्तुं जगत्स्रष्टारं ब्रह्माणं तं नमाम्यहम् ॥ ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आवाहयामि स्थापयामि ॥

॥ पञ्चलोकपाल देवता स्थापनम् ॥

(सूर्य ग्रहाच्या पश्चिम दिशेस, राहुच्या उत्तरेस क्रमाने पंचलोकपाल स्थापन करावेत)
राहोस्तरतः (राहुच्या उत्तर बाजूस - विनायकादयो वास्तुपुरुषक्षेत्रपालो च) ॐ गणानां त्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवामहे निधीनां त्वा निधिपतिं हवामहे वसो मम ॥ आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥ पार्वतीशिवसत्पुत्रं गणानां पतिमीश्वरम् । सर्वेषां विघ्नहर्तारं गणेशं तं नमाम्यहम् ॥ ॐ भूर्भुवः स्वः गणपतये नमः गणपतिम् आवाहयामि स्थापयामि ॥
-----------
शनेरुत्तरतः (शनिच्या उत्तरेला) ॐ अम्बे अम्बिकेऽबालिके न मा नयति कश्चन ॥ ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥ जगत्कल्याणसंत्रात्रीं दुष्टदैत्यविनाशिनीम् । सर्वेषां मातरं नित्यां दुर्गा देवीं नमाम्यहम् ॥ ॐ भूर्भुवः स्वः दुर्गायै नमः दुर्गाम् आवाहयामि स्थापयामि ॥
-----------
रवेरुत्तरतः (रविच्या उत्तरेला) ॐ आनो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् ॥ वायो अस्मिन्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥ अनेकरूपभेदेन प्राणिनां जीवनं परम् । सर्वत्र संचरन्तं तं वायुं वन्दे ह्यरूपकम् ॥ ॐ भूर्भुवः स्वः वायवे नमः वायुम् आवाहयामि स्थापयामि ॥
-----------
राहोर्दक्षिणे (राहुच्या दक्षिणेला) ॐ घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा ॥ दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहा ॥ नीरूपं निर्विकारं च सर्वत्र व्यापकं सदा । ब्रह्मस्वरूपमज्ञेयमाकाशं प्रणमाम्यहम् ॥ ॐ भूर्भुवः स्वः आकाशाय नमः आकाशम् आवाहयामि स्थापयामि ॥
-----------
केतुदक्षिणे (केतुच्या दक्षिणेला) ॐ या वां कशा मधुमत्यश्विना सूनृतावती ॥ तया यज्ञं मिमिक्षतम् ॥ अश्विन्यश्वस्वरूपोक्त संज्ञासूर्यसुतौ परौ । देवानां भिषजौ वन्दे ह्यश्विनौ युग्मरूपिणौ ॥ ॐ भूर्भुवः स्वः अश्विभ्यां नमः अश्विनौ आवाहयामि स्थापयामि ॥
-----------

॥ वास्तु - क्षेत्रपाल देवता स्थापनम् ॥

ईशान्य कोपऱ्यात (वास्तुपुरुष) ॐ वास्तोष्पते प्रति जानीह्यस्मान्त्स्वावेशो अनमीवो भवा नः ॥ यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥ नमस्ते वास्तुपुरुष भूशय्याभिरत प्रभो ॥ मदगृहं धनधान्यादि समृद्धं कुरु सर्वदा ॥ ॐ भूर्भुवः स्वः वास्तुपुरुषाय नमः वास्तुपुरुषम् आवाहयामि स्थापयामि ॥
-----------
नैऋत्य कोपऱ्यात (क्षेत्रपाल) ॐ नहि स्पशमविन्दन्नन्यमस्माद्वैश्वानरात्पुर एतारमग्नेः ॥ एमेनमवृधन्नमृता अमर्त्यं वैश्वानरं क्षेत्रजित्याय देवाः ॥ क्षेत्रपाल नमस्तुभ्यं सर्वरोगनिवारक ॥ मम यज्ञफलं देहि सर्वकामप्रदो भव ॥ ॐ भूर्भुवः स्वः क्षेत्रपालाय नमः क्षेत्रपालम् आवाहयामि स्थापयामि ॥

॥ अथ दशदिक्पाल आवाहन ॥

(पीठाच्या, चौरंगाच्या दाही दिशेत बाहेरून दशदिक्पालांची स्थापना करावी)
पूर्वे (पूर्व दिशेला) ॐ त्रातारमिन्द्रमवितारमिन्द्रं हवे हवे सुहवं शूरमिन्द्रम् ॥ ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥ वज्रायुधं देवदेवं पूर्वदिक्पालकं सदा । अनेकयज्ञकर्तारमिन्द्रं वन्दे सुरेश्वरम् ॥ ॐ भूर्भुवः स्वः इन्द्राय नमः इन्द्रम् आवाहयामि स्थापयामि ॥
-----------
आग्नेय्यां (आग्नेय दिशेला) ॐ त्वं नो अग्नेऽवमः देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्व्य ॥ त्राता तोकस्य तनये गवामस्य निमेषं रक्षमाणस्तव व्रते ॥ आग्नेयदिकप्रभुं दीप्तं शक्तिप्रहरणं परम् । ज्वालाभ्यामतनुं वन्दे ह्यग्निं लोकशुभंकरम् ॥ ॐ भूर्भुवः स्वः अग्नये नमः अग्निम् आवाहयामि स्थापयामि ॥
-----------
दक्षिणे (दक्षिण दिशेला) ॐ यमाय त्वांगिरस्वते पितृमते स्वाहा ॥ सर्वप्राणिनियन्तारं याम्यदिक्पतिमीश्वरम् । महादण्डधरं देवं यमं तं प्रणमाम्यहम् ॥ ॐ भूर्भुवः स्वः यमाय नमः यमम् आवाहयामि स्थापयामि ॥
-----------
नैऋत्यां (नैऋत्य दिशेला) ॐ असुन्वन्त मयजमानमिच्छस्तेनस्येत्यामन्विहि तस्करस्य ॥ अन्यमस्मदिच्छ सातन्त इत्या नमो देवि निर्ऋते तुभ्यमस्तु ॥ राक्षसाधिपतिं शूरं नैऋत्याधीशमीश्वरम् । खड्गप्रहरणं वन्दे निर्ऋतिं लोकरक्षकम् ॥ ॐ भूर्भुवः स्वः निर्ऋतये नमः निर्ऋतिम् आवाहयामि स्थापयामि ॥
-----------
पश्चिमे (पश्चिम दिशेला) ॐ तत्त्वायामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः ॥ अहेडमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः ॥ पाशायुधधरं देवं प्रतीचीदिक्पालकं परम् । सर्वेषां जीवनं वन्दे यादसां पतिं वरुणम् ॥ ॐ भूर्भुवः स्वः वरुणाय नमः वरुणम् आवाहयामि स्थापयामि ॥
-----------
वायव्यां (वायव्य दिशेला) ॐ आनो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् ॥ इन्द्रकृतानेकरूपं दितिसंभुतमद्भुतम् । वायव्यदिकप्रभुं वन्दे वायुंकुशधारिणम् ॥ ॐ भूर्भुवः स्वः वायवे नमः वायुम् आवाहयामि स्थापयामि ॥
-----------
उत्तरे (उत्तर दिशेला) ॐ वयं सोमव्रते तव मनस्तनूषु बिभ्रतः ॥ प्रजावन्तः सचेमहि ॥ यक्षराजं धनाध्यक्षमुदीचीदिक्पतिं प्रभुम् । लोकपालमहं वन्दे कुबेरं सुगदाधरम् ॥ ॐ भूर्भुवः स्वः कुबेराय नमः कुबेरम् आवाहयामि स्थापयामि ॥
-----------
ईशान्यां (ईशान्य दिशेला) ॐ तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम् ॥ पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥ ऐशान्यधिपतिं देवं सर्वदेव सुसेवितम् । सर्वेश्वरेश्वरं वन्दे शूलपाणिमीश्वरम् ॥ ॐ भूर्भुवः स्वः ईश्वराय नमः ईश्वरम् आवाहयामि स्थापयामि ॥
-----------
ऊर्ध्व (वरच्या बाजूस - पूर्व ईशान्येच्या मध्ये) ॐ अस्मे रुद्रा मे हना पर्वतसो वृत्रहत्ये भरहूतौ सजोषाः ॥ यः शंसते स्तुवते धायि पप्रज्ञ इन्द्रज्येष्ठा अस्माँ २॥ अवन्तु देवाः ॥ ऊर्ध्वदिक्पालकं नित्यं लोक सृष्टी विधायकम् । पितामहं प्रभुं देवं ब्रह्माणं प्रणमाम्यहम् ॥ ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणम् आवाहयामि स्थापयामि ॥
-----------
अधः (खालच्या बाजूस) ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ॥ अधोदिक्पालकं देवं सहस्रशीर्षमंडितम् । सर्व पृथ्वीधरं वन्दे ह्यनन्तं शुभदायकम् ॥ ॐ भूर्भुवः स्वः अनन्ताय नमः अनन्तम् आवाहयामि स्थापयामि ॥
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञं समिमं दधातु । विश्वे देवास इह मादयन्तामो३म्प्रतिष्ठ ॥ ॐ अस्मिन् मण्डले सर्वेदेवताः सुप्रतिष्ठिता: वरदा: भवन्तु ॥

संबंधित इतर पोस्ट्स 👇

थोडे नवीन जरा जुने