•|| षोडश मातृका मंडल स्थापनम् ||•

क्षेत्रपाल मंडळ
संकल्प :- अद्यपूर्वोच्चारित एवं ग्रहगुणविशेषेण विशिष्टायां शुभपुण्यतिथौ प्रारब्धस्य सग्रहमुख अमुक कर्म अंगभूत अस्मिन् मातृका मंडले मातृनां पूजनं च करिष्ये ॥

॥ षोडश मातृका ॥

१. ॐ गौर्यै नमः
२. ॐ पद्मायै नमः
३. ॐ शच्यै नमः
४. ॐ मेधायै नमः
५. ॐ सावित्र्यै नमः
६. ॐ विजयायै नमः
७. ॐ जयायै नमः
८. ॐ देवसेनायै नमः
९. ॐ स्वधायै नमः
१०. ॐ स्वाहायै नमः
११. ॐ मातृभ्यो नमः
१२. ॐ लोकमातृभ्यो नमः
१३. ॐ धृत्यै नमः
१४. ॐ पुष्ट्यै नमः
१५. ॐ तुष्ट्यै नमः
१६. ॐ आत्मनः कुलदेवतायै नमः

॥ सप्त घृत मातृका (वसोर्धारा) ॥

१. ॐ श्रियै नमः
२. ॐ लक्ष्म्यै नमः
३. ॐ धृत्यै नमः
४. ॐ मेधायै नमः
५. ॐ पुष्ट्यै नमः
६. ॐ प्रज्ञायै नमः
७. ॐ सरस्वत्यै नमः
गणानान्त्वा गणपति(गुं)हवामहे प्प्रियाणान्त्वा प्प्रियपति(गुं)हवामहे निधीनान्त्वा निधिपति(गुं)हवामहे वसोमम । आहमजानि गर्भधमात्त्व मजासि गर्भधम् ॥ समीपे मातृवर्गस्य सर्वविघ्नहर सदा ।
त्रैलोक्यपूजितं देवं गणेशं स्थापयाम्यहं ॥
ॐ भूर्भुवः स्वः गणेशाय नमः गणेशम् आवाहयामि स्थापयामि ॥
-----------
आयङ्गौ: पृश्न्निरक्रमीदसदन्मातरम्पुरः । पितरञ्च प्प्रयन्त्स्व: ॥ हिमाद्रितनयां देवीं वरदां भैरवप्रियाम् ।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः गौर्यै नमः गौरीम् आवाहयामि स्थापयामि ॥१॥
-----------
हिरण्ण्यरूपाऽउषसौ ब्विरोकऽउभाविन्द्राऽउदिथ: सूर्य्यश्च । आरौहतं वरुणमित्र गर्त्तन्ततक्षाथामदितिन्दितिंच मित्रोसिवरु॑णोसि ॥ सुवर्णाभां पद्महस्तां विष्णोर्वक्षस्थलस्थिताम् ।
त्रैलोक्यपूजिता देवीं पद्मामावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः पद्मायै नमः पद्माम् आवाहयामि स्थापयामि ॥२॥
-----------
कदाचन स्तरीरसिनेन्द्रसश्चसि दाशुषे । उपोपेनुमं घवन्भूयऽइन्नुते दानन्दे॒वस्य पृच्यतऽआदित्त्येब्भ्यस्त्वा ॥ दिव्यरूपां विशालाक्षीं सुचिंकुण्डलधाणिणीम् ।
देवराजप्रियां भद्रां शचीमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः शच्यै नमः शचीम् आवाहयामि स्थापयामि ॥३॥
-----------
मेधाम्मे वरूणोददातु मेधामग्नि: प्प्रजापति: । मेधामिन्द्रंश्च वायु श्च मेधां धाता ददातु मे स्वाहा ॥ वैवस्वत्कतफुल्लाज तुल्याभां पद्मवासिनीम् ।
बुद्धिप्रसादिनीं सौम्यां मेधामावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः मेधायै नमः मेधाम् आवाहयामि स्थापयामि ॥४॥
-----------
उपयामगृहीतोसि सावित्रोसि चनोधाश्चनोधाऽअसि चनोमयि धेहि । जिन्वय॒ज्ज्ञञ्जिन्वय॒ज्ज्ञपति॒म्भगाय दे॒वाय॑त्त्वासवि॒त्रे ॥ जगत्सृष्टिकरीं धात्रीं रूपेण च व्यवस्थिताम् ।
काराख्यां भगवतीं सावित्रीमाहृयाम्यहम् ॥
ॐ भूर्भुवः स्वः सावित्र्यै नमः सावित्रीम् आवाहयामि स्थापयामि ॥५॥
-----------
विज्यन्धनु: कपर्द्दिनो विशल्ल्यो बाणवाँउत । अनॆशन्नस्य याऽइषवऽआभुरस्य निषङगधिः ॥ विष्णुरूद्रार्कदेवानाम शरीरेषु व्यवस्थिताम् ।
त्रैलोक्यवासिनीं देवीं विजयामाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः विजयायै नमः विजयाम् आवाहयामि स्थापयामि ॥६॥
-----------
याते रुद्र शिवा तनूरघोरा पापकाशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि ॥ दैत्यरक्षःक्षयकरीं देवानामभयप्रदाम् ।
गीर्वाणवन्दितां देवीं जयामावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः जयायै नमः जयाम् आवाहयामि स्थापयामि ॥७॥
-----------
देवानाम्भद्रा सुम॒तिर्ऋजूयतान्देवाना(गुं) रातिरभिनोनिव॑र्त्तताम् । देवाना(गुं) सक्ख्यमुपसेदिमावयन्देवानऽआयु: प्प्रतिरन्तुजीवसे ॥ मयुरवाहनां देवीं शक्तीशङ्खधनुर्धराम् ।
आवाहये देवसेनां तारकासुरमर्दिनीम् ॥
ॐ भूर्भुवः स्वः देवसेनायै नमः देवसेनाम् आवाहयामि स्थापयामि ॥८॥
-----------
पितृभ्य: स्वधायिभ्य: स्वधानम: पितामहेब्भ्य: स्वधायिभ्य: स्वधानम: प्प्रपितामहेब्भ्य: स्वधायिभ्य: स्वधानम: ॥ कव्यमादाय सततं पितृभ्यो या प्रयच्छति ।
पितृलोकार्चितां देवीं स्वधामावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः स्वधायै नमः स्वधाम् आवाहयामि स्थापयामि ॥९॥
-----------
स्वाहाय॒ज्ज्ञम्मनस: स्वाहोरोरन्तर्रिक्क्षात् स्वाहाद्द्यावापृथिवीब्भ्या(गुं) स्वाहा व्वातादारभे स्वाहा ॥ हविगृहीत्वा सततं देवेभ्ये या प्रयच्छति ।
वह्विप्रिया च सा स्वाहा समागच्छतु साध्वरे ॥
ॐ भूर्भुवः स्वः स्वाहायै नमः स्वाहाम् आवाहयामि स्थापयामि ॥१०॥
-----------
पृषदश्वामरुत: पृश्निमातर: शुभंयावानोविदथेषुजग्ग्मय: । अग्नि-जिह्वामनव: सूरचक्षसो विश्वेनोदेवाऽअव॒सागमन्निह ॥ भूतग्रामभिमं कृत्क्षयामि रूत्पादितं पुरा ।
त्रैलोक्यपूजिता देवीर्मातृरावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः मातृभ्यो नमः मातृ: आवाहयामि स्थापयामि ॥११॥
-----------
अदितिर्यौरदितिरन्तरिक्षमदितिर्मातासपितासपुत्रः । विश्वेदेवाऽअदिति: पन्चजनाऽअदितिर्ज्र्जातमदितिर्ज्जनित्वम् ॥ आवाहयेलोकमातृर्जगत्पालनसंस्थिताः ।
शक्राद्यैरचिंतादेवी: स्तोत्रैराराधनैस्तथा ॥
ॐ भूर्भुवः स्वः लोकमातृभ्यो नमः लोकमातृ: आवाहयामि स्थापयामि ॥१२॥
-----------
धृष्टिरस्यपाग्नेऽअग्निमामाद॑ञ्जहिनिष्क्रव्याद(गुं)सेधादेवयजंवह । ध्रुवमसि पृथिवीन्द्र॑(गुं)हब्रह्मवनत्त्वाक्षत्रवनिसजातवन्युपदधामि ब्भ्रातृव्यस्यवधाय ॥ नमस्तुष्टिकरीं देवीं लोकानुग्रहकर्मणि ।
स्वकामस्य च सिध्यर्थं धृतिमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः धृत्यै नमः धृतिम् आवाहयामि स्थापयामि ॥१३॥
-----------
त्वष्टातुरीपोऽअद्भुतऽइन्द्राग्नीपुष्टिवर्द्धना । द्विपदाच्छन्दऽइन्द्रिय मुक्षा गौर्नवयौदधुः ॥ आवाहयाम्यहं पुष्टिं जगद्विघ्नविनाशिनीम् ।
ज्ञात्वा पुष्टिकरीं देवीं रक्षणायाध्वरे मम ॥
ॐ भूर्भुवः स्वः पुष्ट्यै नमः पुष्टिम् आवाहयामि स्थापयामि ॥१४॥
-----------
बृहस्प्पतेऽअतियदर्षोऽअर्हाद्युमद्विभातिक्रतुमज्जनॆषु । यद्दीदयच्छवसऽऋतप्प्रजाततदस्म्मासु॒द्रविणन्धेहिचित्रम् ॥ सौम्यरूपे सुवर्णाभे विद्युज्वालातिकुण्डले ।
धर्मतुष्टिकरीं देवीं अस्मिन्यज्ञे हिताय वै ॥
ॐ भूर्भुवः स्वः तुष्ट्यै नमः तुष्टिम् आवाहयामि स्थापयामि ॥१५॥
-----------
अम्बेऽअम्बिकेम्बालिकेनमानयति कश्चन । ससस्त्यश्वक: सुभद्रिकांङ्काम्पीलवासिनीम् ॥ त्वमात्मा सर्वदेवानां देहिनां मन्त्रसर्वगाम् ।
वंशरक्षाकरी देवींकुलदेवींप्रपूजये ॥
ॐ भूर्भुवः स्वः आत्मनः कुलदेवतायै नमः कुलदेवताम् आवाहयामि स्थापयामि ॥१६॥
-----------

॥ सप्त वसोर्धारा पूजन ॥

ॐ व्वसौ पवित्रंममसिशतधारंवसौं पवित्रंमसि सहस्रंधारम् ॥ देवस्त्वां सविता पुनातुवसौ पवित्रेणशतधारण सुप्प्वा - ॐ इति मंत्रेण सप्त वसोर्धाराः कार्याः ॥

ततः ॐ कार्मधुक्क्षः ॥ इति पठित्वोर्ध्वभागे तासामेकीकरण् ॥

दक्षिणत: आरभ्योदक्संस्थं श्री - यादी सप्तवसोर्धाराणामावाहनं कार्यम् ।
ॐ मनस: काममाकूतिं वाच: सत्यमशीय ॥ पशूना (गुं) रूपमन्नस्यरसोयश: श्री: श्रयताम्मयिस्वाहा ॥ सुवर्ण पदमहस्तां तां विष्णो र्धक्षः स्थले स्थिताम् ।
त्रैलोक्यवल्लभां देवी श्रियामावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः श्रियै नमः श्रियम् आवाहयामि स्थापयामि ॥
-----------
श्रीश्चतेलक्ष्मीश्चपत्न्यावहोरात्रेपार्श्वेनक्षत्राणिरूपमश्विनौव्यात्तम् ॥ इष्ण्णन्निषाणामुम्म॑ऽइषाणसर्वलोकम्म॑ऽइषाण ॥ शुभलक्षण संपन्नां क्षीरसागर संभवाम् ।
चंद्रस्य भगिनीं सौम्यां लक्ष्मीमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः लक्ष्म्यै नमः लक्ष्मीम् आवाहयामि स्थापयामि ॥
-----------
ॐ इहरतिरिहरमद्धमिहधृति॑रिहस्वधृति॒: स्वाहा ॥ उपसृजन्धरूणम्मात्रेधरूणौमातरन्धय॑न् ॥ रायस्प्पोषमस्म्मासुदीधरत्त्स्वाहा ॥ संसार धारणपरां धर्यलक्षणसंयुताम् ।
सर्व सिद्धिकरीं देवीं धृतिमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः धृत्यै नमः धृतिम् आवाहयामि स्थापयामि ॥
-----------
ॐ मेधाम्मेवरूणो ददातुमेधामग्निःप्प्रजाप॑ति ॥ मेधामिन्द्रवायुश्च मेधान्धाताददातुमेस्वाहा‌ ॥ सदसत्कार्य करणक्षमां बुद्धीविशालिनीम् ।
मम कार्य शुभकरीं मेधामावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः मेधायै नमः मेधाम् आवाहयामि स्थापयामि ॥
-----------
ॐ‌ देवी जोष्ट्रीसरस्वत्त्यश्विनेन्द्रमवर्द्धयन् ॥ श्रोत्रन्नकर्ण्णयोयशोजोष्ट्रीब्भ्यान्दधुरिन्द्रियंवसुवनॆवसुधेयस्य व्यन्तुयर्ज ॥ सोमरूपां सुवर्णाभां विद्युज्ज्वलित कुंडलाम् ।
जननीं पुष्टीकरिणीं पुष्टि मावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः पुष्ट्यै नमः पुष्टिम् आवाहयामि स्थापयामि ॥
-----------
ॐ व्रतेनंदीक्क्षामाप्नोतिदीक्क्षयाप्नोतिदक्षिणाम् ॥ दक्क्षिणाश्श्रद्धामाप्नोति श्रद्धयासत्त्यमाप्प्यते ॥ भूततग्राममिदं सर्वभजेन प्रज्ञा कृतम् ।
प्रज्ञा प्राप्यते सत्यं प्रज्ञामावाहयाम्यम् ॥
ॐ भूर्भुवः स्वः प्रज्ञायै नमः प्रज्ञां आवाहयामि स्थापयामि ॥
-----------
ॐ देवीस्तित्रस्तिस्त्रोदेवी: पति॒मिन्द्रमवर्द्धयन् ॥ अस्पृक्ष‌द्भारतीदिव(गुं) रूद्रैर्व्यज्ज्ञ(गुं) सरस्वतीडावसुमती गृहान्वसुवनॆवसुधेयस्यवन्तुवर्ज ॥ प्रणवस्थैव जननीं रसनाग्रस्थितां सदा ।
प्रागल्भ्यदात्रीं चपलां वाणीआवाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः सरस्वत्यै नमः सरस्वतीम् आवाहयामि स्थापयामि ॥
-----------
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञं समिमं दधातु । विश्वे देवास इह मादयन्तामो३म्प्रतिष्ठ ॥ ॐ अस्मिन् कलशे (किंवा मातृका मण्डले) सर्वदेवताः सुप्रतिष्ठिता वरदा भवन्तु ॥

संबंधित इतर पोस्ट्स 👇

थोडे नवीन जरा जुने