समंत्रक मातृका मंडल स्थापनम्

संकल्प :- अद्यपूर्वोच्चारित एवं ग्रहगुणविशेषेण विशिष्टायां शुभपुण्यतिथौ प्रारब्धस्य सग्रहमुख अमुक कर्म अंगभूतं मातृनां पूजनं च करिष्ये ॥

ॐ ग॒णानां॑ त्वा ग॒णप॑तिᳪ हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिᳪ हवामहे नि॒धीनां॑ त्वा॑ निधि॒पति॑ᳪ हवामहे वसो मम । आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम्

समीपे मातृवर्गस्य सर्वविघ्नहर सदा ।
त्रैलोक्यपूजितं देवं गणेशं स्थापयाम्यहं ॥

ॐ भूर्भुवः स्वः गणेशाय नमः गणेशम् आवाहयामि स्थापयामि ॥

-----------

आयं गौः पृश्निर॑क्रमी॒दस॑दन् मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्वः॑॥

हिमाद्रितनयां देवीं वरदां भैरवप्रियाम् ।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः गौर्यै नमः गौरीम् आवाहयामि स्थापयामि ॥१॥

-----------

हिर॑ण्यरूपा उ॒षसो॑ विरो॒क उ॒भावि॑न्द्रा॒ उदि॑थ॒: सूर्य॑श्च । आ रो॑हतं वरुण मित्र॒ गर्त्तं॒ तत॑श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च मि॒त्रो॒ऽसि॒ वरु॑णोऽसि ।।

सुवर्णाभां पद्महस्तां विष्णोर्वक्षस्थलस्थिताम् ।
त्रैलोक्यपूजिता देवीं पद्मामावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः पद्मायै नमः पद्माम् आवाहयामि स्थापयामि ॥२॥

-----------

क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यत आदि॒त्येभ्य॑स्त्वा

दिव्यरूपां विशालाक्षीं सुचिंकुण्डलधाणिणीम् ।
देवराजप्रियां भद्रां शचीमावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः शच्यै नमः शचीम् आवाहयामि स्थापयामि ॥३॥

-----------

मे॒धां मे॒ वरु॑णो ददातु मे॒धाम॒ग्निः प्र॒जाप॑तिः । मे॒धामिन्द्र॑श्च वा॒युश्च॑ मे॒धां धा॒ता द॑दातु मे॒ स्वाहा॑

वैवस्वत्कतफुल्लाज तुल्याभां पद्मवासिनीम् ।
बुद्धिप्रसादिनीं सौम्यां मेधामावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः मेधायै नमः मेधाम् आवाहयामि स्थापयामि ॥४॥

-----------

उ॒प॒या॒मगृ॑हीतोऽसि सावि॒त्रो॒ऽसि चनो॒धाश्च॑नो॒धा अ॑सि॒ चनो॒ मयि॑ धेहि । जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिं॒ भगा॑य दे॒वाय॑ त्वा सवि॒त्रे

जगत्सृष्टिकरीं धात्रीं रूपेण च व्यवस्थिताम् ।
काराख्यां भगवतीं सावित्रीमाहृयाम्यहम् ॥

ॐ भूर्भुवः स्वः सावित्र्यै नमः सावित्रीम् आवाहयामि स्थापयामि ॥५॥

-----------

विज्यं॒ धनु॑: कप॒र्दिनो॒ विश॑ल्यो॒ वाण॑वाँ२ उ॒त । अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः

विष्णुरूद्रार्कदेवानाम शरीरेषु व्यवस्थिताम् ।
त्रैलोक्यवासिनीं देवीं विजयामाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः विजयायै नमः विजयाम् आवाहयामि स्थापयामि ॥६॥

-----------

या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒न्वा शन्त॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि

दैत्यरक्षःक्षयकरीं देवानामभयप्रदाम् ।
गीर्वाणवन्दितां देवीं जयामावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः जयायै नमः जयाम् आवाहयामि स्थापयामि ॥७॥

-----------

दे॒वानां॑ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वाना॑ᳪ रा॒तिर॒भि नो॒ निव॑र्तताम् । दे॒वाना॑ᳪ स॒ख्यमुप॑सेदिमा व॒यं दे॒वा न॒ आयु॒: प्रति॑रन्तु जी॒वसे॑

मयुरवाहनां देवीं शक्तीशङ्खधनुर्धराम् ।
आवाहये देवसेनां तारकासुरमर्दिनीम् ॥

ॐ भूर्भुवः स्वः देवसेनायै नमः देवसेनाम् आवाहयामि स्थापयामि ॥८॥

-----------

पि॒तृभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ पिताम॒हेभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॒ प्रपि॑तामहेभ्यः स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ । अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तरः॑ पि॒तरः॑ शुन्धध्वम् ॥

कव्यमादाय सततं पितृभ्यो या प्रयच्छति ।
पितृलोकार्चितां देवीं स्वधामावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः स्वधायै नमः स्वधाम् आवाहयामि स्थापयामि ॥९॥

-----------

स्वाहा॑ य॒ज्ञं मन॑सः॒ स्वाहोरोर॒न्तरि॑क्षा॒त्स्वाहा॒ द्यावा॑पृथि॒वीभ्याꣳस्वाहा॒ वाता॒दार॑भे॒ स्वाहा॑ ॥

हविगृहीत्वा सततं देवेभ्ये या प्रयच्छति ।
वह्विप्रिया च सा स्वाहा समागच्छतु साध्वरे ॥

ॐ भूर्भुवः स्वः स्वाहायै नमः स्वाहाम् आवाहयामि स्थापयामि ॥१०॥

-----------

पृष॑दश्वा म॒रुत॒: पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः । अ॒ग्नि॒जि॒ह्वा मन॑व॒: सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒साग॑मन्नि॒ह

भूतग्रामभिमं कृत्क्षयामि रूत्पादितं पुरा ।
त्रैलोक्यपूजिता देवीर्मातृरावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः मातृभ्यो नमः मातृ: आवाहयामि स्थापयामि ॥११॥

-----------

अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥

आवाहयेलोकमातृर्जगत्पालनसंस्थिताः ।
शक्राद्यैरचिंतादेवी: स्तोत्रैराराधनैस्तथा ॥

ॐ भूर्भुवः स्वः लोकमातृभ्यो नमः लोकमातृ: आवाहयामि स्थापयामि ॥१२॥

-----------

धृष्टि॑र॒स्यपा॑ऽग्ने अ॒ग्निमा॒मादं॑ जहि॒ निष्क्र॒व्याद॑ᳪ से॒धा दे॑व॒यजं॑ वह । ध्रु॒वम॑सि पृथि॒वीं दृ॑ᳪह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भातृ॑व्यस्य व॒धाय॑

नमस्तुष्टिकरीं देवीं लोकानुग्रहकर्मणि ।
स्वकामस्य च सिध्यर्थं धृतिमावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः धृत्यै नमः धृतिम् आवाहयामि स्थापयामि ॥१३॥

-----------

त्वष्टा॑ तु॒रीपो॒ अद्भु॑त इन्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना । द्विप॑दा॒ छन्द॑ इन्द्रि॒यमु॒क्षा गौ॒र्न वयो॑ दधुः

आवाहयाम्यहं पुष्टिं जगद्विघ्नविनाशिनीम् ।
ज्ञात्वा पुष्टिकरीं देवीं रक्षणायाध्वरे मम ॥

ॐ भूर्भुवः स्वः पुष्ट्यै नमः पुष्टिम् आवाहयामि स्थापयामि ॥१४॥

-----------

बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द् द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु । यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् । उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पत॑ये त्वै॒ष ते॒ योनि॒र्बृह॒स्पत॑ये त्वा

सौम्यरूपे सुवर्णाभे विद्युज्वालातिकुण्डले ।
धर्मतुष्टिकरीं देवीं अस्मिन्यज्ञे हिताय वै ॥

ॐ भूर्भुवः स्वः तुष्ट्यै नमः तुष्टिम् आवाहयामि स्थापयामि ॥१५॥

-----------

अम्बे॒ अम्बिकेऽम्बालिके॒ न मां नयति॒ कश्च॒न । सस॑स्त्यश्व॒कः सुभ॑द्रिकां काम्पीलवा॒सिनी॑म् ॥

त्वमात्मा सर्वदेवानां देहिनां मन्त्रसर्वगाम् ।
वंशरक्षाकरी देवींकुलदेवींप्रपूजये ॥

ॐ भूर्भुवः स्वः आत्मनः कुलदेवतायै नमः कुलदेवताम् आवाहयामि स्थापयामि ॥१६॥

-----------

॥ सप्त वसोर्धारा पूजन ॥

ॐ व्वसौ पवित्रंममसिशतधारंवसौं पवित्रंमसि सहस्रंधारम् ॥ देवस्त्वां सविता पुनातुवसौ पवित्रेणशतधारण सुप्प्वा - ॐ इति मंत्रेण सप्त वसोर्धाराः कार्याः ॥

ततः ॐ कार्मधुक्क्षः ॥ इति पठित्वोर्ध्वभागे तासामेकीकरण् ॥

दक्षिणत: आरभ्योदक्संस्थं श्री - यादी सप्तवसोर्धाराणामावाहनं कार्यम् ।

ॐ मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीय । प॒शूनाꣳ रू॒पमन्न॑स्य॒ रसो॒ यशः॒ श्रीः श्र॑यतां॒ मयि॒ स्वाहा॑ ॥

सुवर्ण पदमहस्तां तां विष्णो र्धक्षः स्थले स्थिताम् ।
त्रैलोक्यवल्लभां देवी श्रियामावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः श्रियै नमः श्रियम् आवाहयामि स्थापयामि ॥

-----------

श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्या॑वहोरा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पम॒श्विनौ॑ व्यात्त॑म् । इ॒ष्णन्नि॑षाणामुं॒ म॑ इषाण सर्वलो॒कं म॑ इषाण ॥

शुभलक्षण संपन्नां क्षीरसागर संभवाम् ।
चंद्रस्य भगिनीं सौम्यां लक्ष्मीमावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः लक्ष्म्यै नमः लक्ष्मीम् आवाहयामि स्थापयामि ॥

-----------

ॐ इ॒ह रति॑रि॒ह रम॑ध्वमि॒ह धृति॑रि॒ह स्वधृ॑तिः॒ स्वाहा॑ । उ॒प॒सृ॒जन् धरु॑णीं मा॒त्रे धरु॑णो मा॒तरं॑ धयन् । रा॒यस्पोष॑म॒स्मासु॑ दीध॒र्त्स्वाहा॑ ॥

संसार धारणपरां धर्यलक्षणसंयुताम् ।
सर्व सिद्धिकरीं देवीं धृतिमावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः धृत्यै नमः धृतिम् आवाहयामि स्थापयामि ॥

-----------

ॐ मे॒धां मे॒ वरु॑णो ददातु मे॒धाम॒ग्निः प्र॒जाप॑तिः । मे॒धामिन्द्र॑श्च वा॒युश्च॑ मे॒धां धा॒ता द॑दातु मे॒ स्वाहा॑ ॥

सदसत्कार्य करणक्षमां बुद्धीविशालिनीम् ।
मम कार्य शुभकरीं मेधामावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः मेधायै नमः मेधाम् आवाहयामि स्थापयामि ॥

-----------

ॐ दे॒वी जो॒ष्ट्री स॑रस्व॒त्यश्वि॑नेन्द्रमवर्धयन् । श्रोत्रं॒ न कर्णे॒ यशो॑ जो॒ष्ट्रीभ्यां॑ दधुरिन्द्रि॒यं वसु॑वने वसुधे॒यस्य॑ वियन्तु॒ यज॑ ॥

सोमरूपां सुवर्णाभां विद्युज्ज्वलित कुंडलाम् ।
जननीं पुष्टीकरिणीं पुष्टि मावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः पुष्ट्यै नमः पुष्टिम् आवाहयामि स्थापयामि ॥

-----------

ॐ व्र॒तेन॑ दी॒क्षाम॑प्नोति दी॒क्षया॑प्नोति॒ दक्षि॑णाम् । दक्षि॑णा श्र॒द्धामा॑प्नोति श्र॒द्धया॑ स॒त्यमा॑प्यते ॥

भूततग्राममिदं सर्वभजेन प्रज्ञा कृतम् ।
प्रज्ञा प्राप्यते सत्यं प्रज्ञामावाहयाम्यम् ॥

ॐ भूर्भुवः स्वः प्रज्ञायै नमः प्रज्ञां आवाहयामि स्थापयामि ॥

-----------

ॐ दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः पति॒मिन्द्र॑मवर्धयन् । अस्पृ॑क्ष॒द्भार॑ती दि॒वं रु॒द्रैर्य॒ज्ञꣳ सर॑स्वतीडा वसु॑मती गृ॒हान्वसु॑वने वसुधे॒यस्य॑ वियन्तु॒ यज॑ ॥

प्रणवस्थैव जननीं रसनाग्रस्थितां सदा ।
प्रागल्भ्यदात्रीं चपलां वाणीआवाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः सरस्वत्यै नमः सरस्वतीम् आवाहयामि स्थापयामि ॥

-----------

ॐ मनो॒ जूति॑र्जुषता॒माज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नो॒त्वरि॑ष्टं य॒ज्ञꣳ समि॒मं द॑धातु । विश्वे॑ दे॒वास॑ इ॒ह मा॑दयन्ता॒मो३म्प्रति॑ष्ठ ॥

ॐ अस्मिन् कलशे (किंवा मातृका मण्डले) सर्वदेवताः सुप्रतिष्ठिता वरदा भवन्तु ॥

Post a Comment

आपला अमूल्य प्रतिसाद आमच्यासाठी खूप महत्त्वाचा आहे. जर आमच्याकडून लिखाणात काही चुकी झाली असेल किंवा आपणांस अजून काही सुचवायचा असेल तर खालील कमेंट बॉक्स मध्ये नक्की लिहा .

थोडे नवीन जरा जुने