समंत्रक योगिनी देवता स्थापनम्

×

📿 सेवा बुकिंग / चौकशी फॉर्म

संकल्प :- अद्यपूर्वोच्चारित एवं ग्रहगुणविशेषेण विशिष्टायां शुभपुण्यतिथौ प्रारब्धस्य सग्रहमुख अमुक कर्म अंगभूत अस्मिन् योगिनी मंडले योगिनीदेवतानां पूजनं च करिष्ये ॥

॥ मण्डल देवता आवाहन ॥

ॐ अम्बेऽअम्बिकेऽबालिके न मा नयति कञ्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥

ॐ भूर्भुवः स्वः महाकाल्यै नमः महाकालीम् आवाहयामि स्थापयामि ॥

-----------

ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणामुम्म इषाण सर्वलोकम्म इषाण ॥

ॐ भूर्भुवः स्वः महालक्ष्म्यै नमः महालक्ष्मीं आवाहयामि स्थापयामि ॥

-----------

ॐ पावक नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ॥

ॐ भूर्भुवः स्वः महासरस्वत्यै नमः महासरस्वतीं आवाहयामि स्थापयामि ॥

-----------

१ ॐ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥

ॐ भूर्भुवः स्वः गजाननाय नमः गजाननमावाहयामि स्थापयामि ॥

-----------

२ ॐ आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामा राष्ट्रे राजन्यः शूर इषव्योऽतिव्याधी महारथो जायतां दोग्ध्री धेनुर्वोढाऽनड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवाऽस्य यजमानस्य वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥

ॐ भूर्भुवः स्वः सिंहमुख्यै नमः सिंहमुखीमावाहयामि स्थापयामि ॥

-----------

३ ॐ महां २ इन्द्रो य ओजसा पर्जन्यो वृष्टिमॉ २ इव । स्तोमैर्वत्सस्य वावृधे ॥

ॐ भूर्भुवः स्वः गृध्रास्यायै नमः गृध्रास्याम् आवाहयामि स्थापयामि ॥

-----------

४ ॐ सद्योजातोऽयमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः । अस्य होतृः प्रदिश्यृतस्य वाचि स्वाहाकृतं हविर्दन्तु देवाः ॥

ॐ भूर्भुवः स्वः काकतुण्डिकायै नमः काकतुण्डिकाम् आवाहयामि स्थापयामि ॥

-----------

५ ॐ आदित्यं गर्भं पयसा समङ्धि सहस्रस्य प्रतिमां विश्वरूपम् । परिवृधि हरसा माभिमंस्थाः शतायुषं कृणुहि चीयमानः ॥

ॐ भूर्भुवः स्वः उष्ट्रग्रीवायै नमः उष्ट्रग्रीवाम् आवाहयामि स्थापयामि ॥

-----------

६ ॐ स्वर्णं घर्मं स्वाहा स्वर्णार्कं स्वाहा स्वर्णं शुक्रं स्वाहा स्वर्णं ज्योतिः स्वाहा स्वर्णं सूर्य स्वाहा ॥

ॐ भूर्भुवः स्वः हयग्रीवायै नमः हयग्रीवाम् आवाहयामि स्थापयामि ॥

-----------

७ ॐ सत्यञ्च मे श्रद्धा च मे जगच्च मे धनञ्च मे विश्वञ्च मे महश्च मे क्रीडा च मे मोदश्च मे जातञ्च मे जनिष्यमाणञ्च मे सूक्तञ्च मे सुकृतञ्च मे यज्ञेन कल्पन्ताम् ॥

ॐ भूर्भुवः स्वः वाराह्यै नमः वाराहीम् आवाहयामि स्थापयामि ॥

-----------

८ ॐ भायै दाव्वाहिाराम्प्रभायांऽअग्नये धम्म्रन्दृश्वनस्या विष्टपायाभिषेक्तारं वर्षिष्ठाय नाकाय परिवेष्टारं देवलोकाय पेशितारं मनुष्यलोकाय प्रकर्त्तारं सर्वेभ्यो लोकेभ्य उपसेक्तारमवर्द्धक्रत्यूर्ध्वय उपमन्थितारं मेधाय वासः पल्लपूलिम्प्रकामाय रजियित्रीम् ॥

ॐ भूर्भुवः स्वः शरभाननायै नमः शरभाननाम् आवाहयामि स्थापयामि ॥

-----------

९ ॐ जिह्वा मे भद्रं वाङ् मे भामः प्राणो मे मन्युः स्वराड् भामः । मोदः प्रमोदः अङ्गुलीरङ्गानि मित्रं मे सह ॥

ॐ भूर्भुवः स्वः उलूकिकायै नमः उलूकिकाम् आवाहयामि स्थापयामि ॥

-----------

१० ॐ हिङ्काराय स्वाहा हिङ्कृताय स्वाहा क्रन्दते स्वाहा वक्रन्दाय स्वाहा प्रोथते स्वाहा प्रप्रोथाय स्वाहा गन्धाय स्वाहा घ्राताय स्वाहा निविष्टाय स्वाहोपविष्टाय स्वाहा सन्दिताय स्वाहा वल्गते स्वाहाऽऽसीनाय स्वाहा शयानाय स्वाहा स्वपते स्वाहा जाग्रते स्वाहा कूजते स्वाहा प्रबुद्धाय स्वाहा विजृम्भमाणाय स्वाहा विवृत्ताय स्वाहा शयानाय स्वाहोपस्थिताय स्वाहायनाय स्वाहा प्रायणाय स्वाहा ॥

ॐ भूर्भुवः स्वः शिवारावायै नमः शिवारावाम् आवाहयामि स्थापयामि ॥

-----------

११ ॐ अग्निश्च मे घर्मश्च मेऽपञ्च मे वीरुधश्च मेऽओषधयश्च मे कृष्टपच्या च मेऽकृष्टपच्या च मे ग्राम्याश्च मे पशव आरण्याश्च मे वित्तञ्च मे वित्तिश्च मे भूतञ्च मे भूतिश्च मे यज्ञेन कल्पन्ताम् ॥

ॐ भूर्भुवः स्वः मयूर्यै नमः मयूरीम् आवाहयामि स्थापयामि ॥

-----------

१२ ॐ पूषण्तव व्रते वयं नरिष्येम कदाचन । स्तोतारस्त इह स्मसि ॥

ॐ भूर्भुवः स्वः विकटाननायै नमः विकटाननाम् आवाहयामि स्थापयामि ॥

-----------

१३ ॐ वेद्या वेदिः समाप्यते बर्हिषा बर्हिरिन्द्रियम् । यूपेन यूप आप्यते प्रणीतोऽअग्निरग्निना ॥

ॐ भूर्भुवः स्वः अष्टवक्रायै नमः अष्टवक्राम् आवाहयामि स्थापयामि ॥

-----------

१४ ॐ अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः । मूर्द्धा कवी रयीणाम् ॥

ॐ भूर्भुवः स्वः कोटराक्ष्यै नमः कोटराक्षीम् आवाहयामि स्थापयामि ॥

-----------

१५ ॐ इमं मे वरुण श्रुधी हवमद्या च मृडय । तत्वामवस्युराचके ॥

ॐ भूर्भुवः स्वः कुब्जायै नमः कुब्जाम् आवाहयामि स्थापयामि ॥

-----------

१६ ॐ यमाय त्वाङ्गिरस्वते पितृमते स्वाहा । स्वाहा घर्माय स्वाहा घर्मं पित्रे ॥

ॐ भूर्भुवः स्वः विकटलोचनायै नमः विकटलोचनाम् आवाहयामि स्थापयामि ॥

-----------

१७ ॐ गन्धर्वस्त्वा विश्वावसुः परिदधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडितः । इन्द्रस्य बाहुरसि दक्षिणो विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडितः । मित्रावरुणौ त्वोत्तरतः परिधत्तां ध्रुवेण धर्म्मणा विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडितः ॥

ॐ भूर्भुवः स्वः शुष्कोदर्यै नमः शुष्कोदरीम् आवाहयामि स्थापयामि ॥

-----------

१८ ॐ मित्रस्य चर्षणीधृतो वो देवस्य सानसि । द्युम्नं चित्रश्रवस्तमम् ॥

ॐ भूर्भुवः स्वः ललज्जिह्वायै नमः ललज्जिहाम् आवाहयामि स्थापयामि ॥

-----------

१९ ॐ अग्ने ब्रह्मन् गृणोष्व धरुणं स्यन्तरिक्षं दृंह ब्रह्मवन्वि तत्वा क्षत्रवन्वि तत्वा सजातवन्व्युपदधामि भ्रातृव्यस्य वधाय । धर्म्ममसि दिवं दृंह ब्रह्मवन्वि तत्वा क्षत्रवन्वि तत्वा सजातवन्व्युपदधामि भ्रातृव्यस्य वधाय । विश्वाभ्यस्त्वाशाभ्य उपदधामि चितस्ते उर्ध्वचितो मृणृणामग्निंरसान्तर्पसा तप्यद्ध्वम् ॥

ॐ भूर्भुवः स्वः श्वदंष्ट्रायै नमः श्वदंष्ट्राम् आवाहयामि स्थापयामि ॥

-----------

२० ॐ भगप्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः । भग प्र नो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥

ॐ भूर्भुवः स्वः वानराननायै नमः वानराननाम् आवाहयामि स्थापयामि ॥

-----------

२१ ॐ सुपर्णोऽसि गरुत्मांन्पृष्ठे पृथिव्याः सीद । भासान्तरिक्षमापृण ज्योतिषा दिवमुत्तम्भान तेजसा दिश उदृंह ॥

ॐ भूर्भुवः स्वः रक्षाक्ष्यै नमः रक्षाक्षीम् आवाहयामि स्थापयामि ॥

-----------

२२ ॐ उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥

ॐ भूर्भुवः स्वः केकराक्ष्यै नमः केकराक्षीम् आवाहयामि स्थापयामि ॥

-----------

२३ ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनीस्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद ॥

ॐ भूर्भुवः स्वः बृहत्तुण्डायै नमः बृहत्तुण्डाम् आवाहयामि स्थापयामि ॥

-----------

२४ ॐ वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । करतां नः सुराधसः ॥

ॐ भूर्भुवः स्वः सुराप्रियायै नमः सुराप्रियाम् आवाहयामि स्थापयामि ॥

-----------

२५ ॐ हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥

ॐ भूर्भुवः स्वः कपालहस्तायै नमः कपालहस्ताम् आवाहयामि स्थापयामि ॥

-----------

२६ ॐ सुसन्दृशं त्वा वयम् मघवन् वन्दिषीमहि । प्र नूनम्पूर्णवन्धुरस्तुतो यासि वशॉ २ अनुयोजान्विन्द्रे ते हरी ॥

ॐ भूर्भुवः स्वः रक्ताक्ष्यै नमः रक्ताक्षीम् आवाहयामि स्थापयामि ॥

-----------

२७ ॐ प्रतिपदसि प्रतिपदे त्वाऽनुपदसि अनुपदे त्वा सम्पदसि सम्पदे त्वा तेजौऽसि तेजसे त्वा ॥

ॐ भूर्भुवः स्वः शुकीभ्यः नमः शुकीम् आवाहयामि स्थापयामि ॥

-----------

२८ ॐ देवीस्त्रिधोऽअश्विनाभिषेजेन्द्रे सरस्वती । प्राणन्न वीर्य्यन्नसि दुद्रारौ दधुरिन्द्रियं वसुवनै वसुधेयस्य व्यन्तु यज ॥

ॐ भूर्भुवः स्वः श्येनीभ्यः नमः श्येनीम् आवाहयामि स्थापयामि ॥

-----------

२९ ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । सरस्वत्यै वाचो यन्तुर्यन्त्रेण दधामि बृहस्पतेष्ट्वा साम्राज्येनाभिषिञ्चाम्यसौ ॥

ॐ भूर्भुवः स्वः कपोतिकाभ्यः नमः कपोतिकां आवाहयामि स्थापयामि ॥

-----------

३० ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः साम्राज्वेनाभिषिञ्चामि ॥

ॐ भूर्भुवः स्वः पाशहस्तायै नमः पाशहस्ताम् आवाहयामि स्थापयामि ॥

-----------

३१ ॐ मुवो यजस्य रजसश्च नेता यत्रा नियुक्तः सचसे शिवाभिः । दिवि मूर्द्धानं दधिषे स्वर्षां जिह्वमग्ने चकृषे हव्यवाहम् ॥

ॐ भूर्भुवः स्वः दण्डहस्तायै नमः दण्डहस्ताम् आवाहयामि स्थापयामि ॥

-----------

३२ ॐ कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन् भूय इन्नु ते दानं देवस्य पृच्यते ॥

ॐ भूर्भुवः स्वः प्रचण्डायै नमः प्रचण्डम् आवाहयामि स्थापयामि ॥

-----------

३३ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम हि देवहितं यदायुः ॥

ॐ भूर्भुवः स्वः चण्डविक्रमायै नमः चण्डविक्रमाम् आवाहयामि स्थापयामि ॥

-----------

३४ ॐ इषे त्वोर्ज्जे त्वा वायवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्म्मण आप्यायध्वमघ्न्या इन्द्राय भागम्प्रजावतीरनमीवा अयक्ष्मा मा वस्तेन ईशत माघशंसो ध्रुवा अस्मिन्गोपतौ स्यात बह्वीर्यजमानस्य पशून्पाहि ॥

ॐ भूर्भुवः स्वः शिशुघ्न्यै नमः शिशुघ्नीम् आवाहयामि स्थापयामि ॥

-----------

३५ ॐ देवीं द्यावापृथिवी मखस्य वामद्य शिरो राद्ध्यासन्देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे ॥

ॐ भूर्भुवः स्वः पापहन्त्र्यै नमः पापहन्त्रीम् आवाहयामि स्थापयामि ॥

-----------

३६ ॐ असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यामन्विहितस्करस्य । अन्यमस्मदच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यमस्तु ॥

ॐ भूर्भुवः स्वः काल्यै नमः कालीम् आवाहयामि स्थापयामि ॥

-----------

३७ ॐ विश्वानि देव सवितुर्दुरितानि परा सुव । यद्भद्रं तन्न आसुव ॥

ॐ भूर्भुवः स्वः रुधिरपायिन्यै नमः रुधिरपायिनीम् आवाहयामि स्थापयामि ॥

-----------

३८ ॐ अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्य्यश्च मे प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे चित्तञ्च मेऽधीतञ्च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रञ्च मे दक्षश्च मे बलञ्च मे ओजश्च मे सहश्च मे आत्मा च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च मेऽस्थानि च मे परूंषि च मे शरीराणि च मे यज्ञेन कल्पन्ताम् ॥

ॐ भूर्भुवः स्वः वसाधायै नमः वसाधयम् आवाहयामि स्थापयामि ॥

-----------

३९ ॐ बह्वीनामपिता बहुरस्य पुत्रश्चिश्चाकृणोति समनावगत्य । इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥

ॐ भूर्भुवः स्वः गर्भभक्षायै नमः गर्भभक्षाम् आवाहयामि स्थापयामि ॥

-----------

४० ॐ नमस्ते रुद्र मन्यव उतो त इषवे नमः । बाहुभ्यामुत ते नमः ॥

ॐ भूर्भुवः स्वः शवहस्तायै नमः शवहस्ताम् आवाहयामि स्थापयामि ॥

-----------

४१ ॐ ऋतं वस्ते यज्ञं वितन्वन् सन्तु मासा रक्षन्तु ते हविः । संवत्सरस्ते यज्ञं दधातु नः प्रजां च परिपातु नः ॥

ॐ भूर्भुवः स्वः आन्त्रमालिन्यै नमः आन्त्रमालिनीम् आवाहयामि स्थापयामि ॥

-----------

४२ ॐ तेऽआचरन्तीः समनेव योषा मातेव पुत्रं बिभृतामुपस्थे । अपशत्रून्विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥

ॐ भूर्भुवः स्वः स्थूलकेश्यै नमः स्थूलकेशीम् आवाहयामि स्थापयामि ॥

-----------

४३ ॐ वेद्या वेदिः समाप्यते बर्हिषा बर्हिरिन्द्रियम् । यूपेन यूप आप्यते प्रणीतोऽअग्निरग्निना ॥

ॐ भूर्भुवः स्वः बृहत्कुक्ष्यै नमः बृहत्कुक्षीम् आवाहयामि स्थापयामि ॥

-----------

४४ ॐ पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ॥

ॐ भूर्भुवः स्वः सर्पास्यायै नमः सर्पास्याम् आवाहयामि स्थापयामि ॥

-----------

४५ ॐ अस्कन्नमद्य देवेभ्य आज्यं सम्प्रियासं मङ्क्षु घृणा विष्णो मा त्वा वक्रमार्क्षं वसुमती मग्नेस्ते च्छायामुपस्थेषं विष्णोः स्थानमसीदं इन्द्रो वीर्य्यमकृणोदुच्चोद्धर आस्थान्त् ॥

ॐ भूर्भुवः स्वः प्रेतवाहनायै नमः प्रेतवाहनाम् आवाहयामि स्थापयामि ॥

-----------

४६ ॐ यमाय त्वाङ्गिरस्वते पितृमते स्वाहा । स्वाहा घर्माय स्वाहा घर्मं पित्रे ॥

ॐ भूर्भुवः स्वः दन्दशूकायै नमः दन्दशूकराम् आवाहयामि स्थापयामि ॥

-----------

४७ ॐ मही द्यौः पृथिवी च न इिमं यज्ञम्मिमिक्षताम् । पिपृतां नो भरीमभिः ॥

ॐ भूर्भुवः स्वः क्रौञ्च्यै नमः क्रौञ्चीम् आवाहयामि स्थापयामि ॥

-----------

४८ ॐ उपयाम गृहीतोसि हीरसि हीरयोजु नो हरिभ्यान्त्वा । हर्योर्द्धानास्थ सह सोमाय इन्द्राय ॥

ॐ भूर्भुवः स्वः मृगशीर्षायै नमः मृगशीर्षाम् आवाहयामि स्थापयामि ॥

-----------

४९ ॐ आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य सङ्गथे ॥

ॐ भूर्भुवः स्वः वृषणाननायै नमः वृषणाननाम् आवाहयामि स्थापयामि ॥

-----------

५० ॐ कार्षिरसि समुद्रस्य त्वाक्षित्या उन्नयामि । समापो अद्द्भिरग्मन्त्समोषधीभिरोषधीः ॥

ॐ भूर्भुवः स्वः व्यात्तास्यायै नमः व्यात्तास्याम् आवाहयामि स्थापयामि ॥

-----------

५१ ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥

ॐ भूर्भुवः स्वः धूमनिःश्वासायै नमः धूमनिःश्वासाम् आवाहयामि स्थापयामि ॥

-----------

५२ ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणामुम्म इषाण सर्वलोकम्म इषाण ॥

ॐ भूर्भुवः स्वः व्योमैकचरणोर्ध्वदृशे नमः व्योमैकचरणोर्ध्वदृशाम् आवाहयामि स्थापयामि ॥

-----------

५३ ॐ विष्णोरराटमसि विष्णोः श्नप्त्रे स्थो विष्णोः स्यूरसि विष्णोर्ध्रुवोसि । वैष्णवमसि विष्णवे त्वा ॥

ॐ भूर्भुवः स्वः तापिन्यै नमः तापिनीम् आवाहयामि स्थापयामि ॥

-----------

५४ ॐ ब्राह्मण मद्य विन्देय पितृमन्तमैतूमत्तमृषिमार्षेयः सुधातृदक्षिणम् । अस्मद्राता देवत्रा गच्छत प्रदातारमाविशत ॥

ॐ भूर्भुवः स्वः शोषणीदृष्ट्यै नमः शोषणीदृष्टिम् आवाहयामि स्थापयामि ॥

-----------

५५ ॐ या ह्यग्रं विषूचिकोभौ वृकञ्च रक्षति । श्येनम्पतत्रिणं सिंहं हस मपात्वंहसः ॥

ॐ भूर्भुवः स्वः कोटर्यै नमः कोटरीम् आवाहयामि स्थापयामि ॥

-----------

५६ ॐ एका च मे तिस्रश्च मे तिस्रश्च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च मे नव च मे एकादश च मे एकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च मे एकविंशतिश्च मे एकविंशतिश्च मे त्रयोविंशतिश्च मे त्रयोविंशतिश्च मे सप्तविंशतिश्च मे सप्तविंशतिश्च मे नवविंशतिश्च मे नवविंशतिश्च मे एकत्रिंशच्च मे एकत्रिंशच्च मे त्रयस्त्रिंशच्च मे यज्ञेन कल्पन्ताम् ॥

ॐ भूर्भुवः स्वः स्थूलनासिकायै नमः स्थूलनासिकाम् आवाहयामि स्थापयामि ॥

-----------

५७ ॐ ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः । आशासते प्रतिहर्य्यन्त्युक्थे मा हरी बृहत्स्तानो अछ ॥

ॐ भूर्भुवः स्वः विद्युत्प्रभायै नमः विद्युत्प्रभाम् आवाहयामि स्थापयामि ॥

-----------

५८ ॐ अग्नये युक्त्वा ह्ये तवाश्वाॉ २ सो देव साधवः । अरं ब्रहन्ति मन्यवे ॥

ॐ भूर्भुवः स्वः बलाकास्यायै नमः बलाकास्याम् आवाहयामि स्थापयामि ॥

-----------

५९ ॐ सुपर्णोऽसि गरुत्मांन्पृष्ठे पृथिव्याः सीद । भासान्तरिक्षमापृण ज्योतिषा दिवमुत्तम्भान तेजसा दिश उदृंह ॥

ॐ भूर्भुवः स्वः मार्जर्यै नमः मार्जरीम् आवाहयामि स्थापयामि ॥

-----------

६० ॐ या ते रुद्र शिवा तनूरघोराऽपापकाशिनी । तया नस्तन्वा शन्तमया गिरिशन्ता भिचाकशीहि ॥

ॐ भूर्भुवः स्वः कटपूतनायै नमः कटपूतनाम् आवाहयामि स्थापयामि ॥

-----------

६१ ॐ देवीं द्यावापृथिवी मखस्य वामद्य शिरो राद्ध्यासन्देवयजने पृथिव्याः । मखाय त्वा मखस्य तत्वा शीर्ष्णे ॥

ॐ भूर्भुवः स्वः अट्टहासायै नमः अट्टहासाम् आवाहयामि स्थापयामि ॥

-----------

६२ ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पां सुरे स्वाहा ॥

ॐ भूर्भुवः स्वः कामाक्ष्यै नमः कामाक्षीम् आवाहयामि स्थापयामि ॥

-----------

६३ ॐ वृष्णो ऊर्मिरसि राष्ट्रदा राष्ट्रं मे देहि स्वाहा वृष्णो ऊर्मिरसि राष्ट्रदा राष्ट्रममुष्मै देहि वृषसेनोसि राष्ट्रदा राष्ट्रं मे देहि स्वाहा वृषसेनोसि राष्ट्रदा राष्ट्रममुष्मै देहि ॥

ॐ भूर्भुवः स्वः मृगाक्ष्यै नमः मृगाक्षीम् आवाहयामि स्थापयामि ॥

-----------

६४ ॐ भायै दाव्वाहिाराम्प्रभायांऽअग्नये धम्म्रन्दृश्वनस्या विष्टपायाभिषेक्तारं वर्षिष्ठाय नाकाय परिवेष्टारं देवलोकाय पेशितारं मनुष्यलोकाय प्रकर्त्तारं सर्वेभ्यो लोकेभ्य उपसेक्तारमवर्द्धक्रत्यूर्ध्वय उपमन्थितारं मेधाय वासः पल्लपूलिम्प्रकामाय रजियित्रीम् ॥

ॐ भूर्भुवः स्वः मृगलोचनायै नमः मृगलोचनाम् आवाहयामि स्थापयामि ॥

-----------

ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञं समिमं दधातु । विश्वे देवास इह मादयन्तामो३म्प्रतिष्ठ ॥

ॐ गजाननादि चतुष्षष्ट योगिनी मण्डलदेवताः सुप्रतिष्ठिता वरदा भवन्तु ॥

Post a Comment

आपला अमूल्य प्रतिसाद आमच्यासाठी खूप महत्त्वाचा आहे. जर आमच्याकडून लिखाणात काही चुकी झाली असेल किंवा आपणांस अजून काही सुचवायचा असेल तर खालील कमेंट बॉक्स मध्ये नक्की लिहा .

थोडे नवीन जरा जुने