ॐ ।। योऽपां पुष्पं वेद । पुष्पवान् प्रजावान् पशुमान् भवति ।
चन्द्रमा वा अपां पुष्पम् । पुष्पवान् प्रजावान् पशुमान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ।
अग्निर्वा अपामायतनम् । आयतनवान् भवति ।
योऽग्नेरायतनं वेद ।। आयतनवान् भवति ।
आपो वा अग्नेरायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ।
वायुर्वा अपामायतनम् । आयतनवान् भवति ।
यो वायोरायतनं वेद ।आयतनवान् भवति ।।
आपो वै वायोरायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ।
असौ वै तपन्नपामायतनम् । आयतनवान् भवति ।
योऽमुष्य तपत आयतनं वेद । आयतनवान् भवति ।
आपो वा अमुष्य तपत आयतनम् ।। आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ।
चन्द्रमा वा अपामायतनम् । आयतनवान् भवति ।
यश्चन्द्रमस आयतनं वेद । आयतनवान् भवति ।
आपो वै चन्द्रमस आयतनम् । आयतनवान् भवति ।।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ।
नक्षत्राणि वा अपामायतनम् । आयतनवान् भवति ।
यो नक्षत्राणामायतनं वेद । आयतनवान् भवति ।
आपो वै नक्षत्राणामायतनम् । आयतनवान् भवति ।
य एवं वेद ।। योऽपामायतनं वेद । आयतनवान् भवति ।
पर्जन्यो वा अपामायतनम् । आयतनवान् भवति ।
यः पर्जन्यस्यायतनं वेद । आयतनवान् भवति ।
आपो वै पर्जन्यस्याऽऽयतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद ।। आयतनवान् भवति ।
संवत्सरो वा अपामायतनम् । आयतनवान् भवति ।
यस्संवत्सरस्यायतनं वेद । आयतनवान् भवति ।
आपो वै संवत्सरस्यायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽप्सु नावं प्रतिष्ठितां वेद । प्रत्येव तिष्ठति ।।
।। ॐ शान्तिः शान्तिः शान्तिः ।।
टिप्पणी पोस्ट करा
आपला अमूल्य प्रतिसाद आमच्यासाठी खूप महत्त्वाचा आहे. जर आमच्याकडून लिखाणात काही चुकी झाली असेल किंवा आपणांस अजून काही सुचवायचा असेल तर खालील कमेंट बॉक्स मध्ये नक्की लिहा .