श्री कृष्णयजुर्वेदीय मंत्रपुष्पम्

ॐ ।। योऽपां पुष्पं वेद । पुष्पवान् प्रजावान् पशुमान् भवति । 


चन्द्रमा वा अपां पुष्पम् । पुष्पवान् प्रजावान् पशुमान् भवति । 


य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । 


अग्निर्वा अपामायतनम् । आयतनवान् भवति । 


योऽग्नेरायतनं वेद ।। आयतनवान् भवति । 


आपो वा अग्नेरायतनम् । आयतनवान् भवति । 


य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । 


वायुर्वा अपामायतनम् । आयतनवान् भवति । 


यो वायोरायतनं वेद ।आयतनवान् भवति ।।


आपो वै वायोरायतनम् । आयतनवान् भवति । 


य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । 


असौ वै तपन्नपामायतनम् । आयतनवान् भवति । 


योऽमुष्य तपत आयतनं वेद । आयतनवान् भवति । 


आपो वा अमुष्य तपत आयतनम् ।। आयतनवान् भवति । 


य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । 


चन्द्रमा वा अपामायतनम् । आयतनवान् भवति । 


यश्चन्द्रमस आयतनं वेद । आयतनवान् भवति ।


आपो वै चन्द्रमस आयतनम् । आयतनवान् भवति ।।


य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । 


नक्षत्राणि वा अपामायतनम् । आयतनवान् भवति । 


यो नक्षत्राणामायतनं वेद । आयतनवान् भवति । 


आपो वै नक्षत्राणामायतनम् । आयतनवान् भवति । 


य एवं वेद ।। योऽपामायतनं वेद । आयतनवान् भवति । 


पर्जन्यो वा अपामायतनम् । आयतनवान् भवति । 


यः पर्जन्यस्यायतनं वेद । आयतनवान् भवति । 


आपो वै पर्जन्यस्याऽऽयतनम् । आयतनवान् भवति । 


य एवं वेद । योऽपामायतनं वेद ।। आयतनवान् भवति । 


संवत्सरो वा अपामायतनम् । आयतनवान् भवति । 


यस्संवत्सरस्यायतनं वेद । आयतनवान् भवति । 


आपो वै संवत्सरस्यायतनम् । आयतनवान् भवति । 


य एवं वेद । योऽप्सु नावं प्रतिष्ठितां वेद । प्रत्येव तिष्ठति ।।


।। ॐ शान्तिः शान्तिः शान्तिः ।।

थोडे नवीन जरा जुने