संपूर्ण नान्दीश्राध्द विधी ll

नान्दीमुखाः सत्यवसु संज्ञिकाः विश्वॆदॆवाः भूर्भुवः स्वः इदंवः पाद्यं पादावने जलं पाद प्रक्षालनं वृध्दिः ॥

गोत्राः मातृपितामही प्रपितामह्यः नान्दीमुख्यः भूर्भुवः स्वः इदंवः पाद्यं पादावनॆ जलं पादप्रक्षालं वृध्दिः ॥

गोत्राः पितृपितामह प्रपितामहाः नान्दीमुखाः भूर्भुवः स्वः इदंवः पाद्यं पादावनॆ जलं पादप्रक्षालं वृध्दि ll

द्वितीय गोत्रेभ्यो मातामह प्रमातामह वृध्दप्रमातामहाः सपत्नीकाः नान्दीमुखाः भूर्भुवःस्वः इदंवः पाद्यं पादावनॆ जलं पादप्रक्षालनं वृध्दिः ॥

अद्यः पूर्वोश्चरित एवंगुण विशेषण विशीष्टायां शुभ पूण्यतिथी........ यागाङ्गभूतं सांकल्पिकॆन विधीनां नान्दीश्राध्दं करिष्ये ॥

॥ आसनदानम् ॥

सत्यवसु संज्ञिकानां विश्वेशां देवानां नान्दीमुखानां भूर्भुवः स्वः इदमासनं कुशासनं नान्दीश्राध्दॆक्षणौ क्रियॆतां तथा प्राप्नुवतां भवन्तौ प्राप्नुवामः ॥

गोत्राणां मातृपितामह प्रपितामहिनां नान्दीमुखीनां भूर्भुवःस्वः इदमासनं कुशासनं नान्दीश्राध्देक्षण क्रियेतां तथा प्राप्नुवतां भवन्तौ प्राप्नुवामः ॥

गोत्राणां पितृपितामह प्रपितामहानां नान्दीमुखानां भूर्भुवः स्वः इदमासनं कुशासनं नान्दीश्राध्देक्षणौ क्रियेतां तथा प्राप्नुवतां भवन्तौ प्राप्नुवामः ॥

द्वितीय गोत्राणां मातामह प्रमातामह वृध्दप्रमातामहानां सपत्नीकानां नान्दीमुखानां भूर्भुवःस्वः इदमासनं कुशासनं नांदीश्राध्देक्षणौ क्रियेतां तथा प्राप्नुवतां भवन्तौ प्राप्नुवामः ॥

॥ ततःगंधादिदानम् ॥

सत्यवसु संज्ञिकेभ्यो विश्वेभ्यो दॆवॆभ्यः नान्दीमुखॆभ्यः भूर्भुवः स्वः इदं गंधाद्यर्चनं स्वाहा संपद्यंतां वृध्दिः ॥

गोत्राभ्यः मातृपितामहि प्रपितामहिभ्यः नान्दीमुखॆभ्यः भूर्भुवः स्वः इदं गंधाद्यर्चनं स्वाहा संपद्यंतां वृध्दिः ॥

गोत्रॆभ्यः पितृपितामह प्रपितामहेभ्यः नान्दीमुखेभ्यः भूर्भुवः स्वः इदं गंधाद्यर्चनं स्वाहा संपद्यंतां वृध्दिः ॥

द्वितीय गोत्रेभ्यो मातामह प्रमातामह वृध्दप्रमातामहॆभ्यः सपत्नीकॆभ्यो नान्दीमुखैभ्यः भूर्भुवः स्वः इदं गंधाद्यर्चनं स्वाहा संपद्यतां वृध्दिः ॥

॥ भोजननिष्क्रिय द्रव्यदानं ॥

सत्यवसु संज्ञिकेभ्यो दॆवॆभ्यः नान्दीमुखॆभ्यः भूर्भुवः स्वः दास्यमाण ब्राह्मणयुग्म भोजन पर्याप्त मन्नं तन्निष्क्रियभूतं किंचित हिरण्यं अमृतरूपॆण स्वाहा संपद्यंतां वृध्दिः ॥

गोत्राभ्यः मातृपितामहि प्रपितामहिभ्यः नान्दीमुखॆभ्यः भूर्भुवःस्वः दास्यमाण ब्राह्मणयुग्म भोजन पर्याप्त मन्नं तन्निष्क्रियभूतं किंचित हिरण्यं अमृतरूपॆण स्वाहा संपद्यंतां वृध्दिः ॥

गोत्रॆभ्यः पितृपितामह प्रपितामहेभ्यः नान्दीमुखेभ्यः भूर्भुवः स्वः दास्यमाण ब्राह्मणयुग्म भोजन पर्याप्त मन्नं तन्निष्क्रियभूतं किंचित हिरण्यं अमृतरूपेण स्वाहा संपद्यंतां वृध्दिः ॥

द्वितीय गोत्रेभ्यो मातामह प्रमातामह वृध्दप्रमातामहाः सपत्निकॆभ्यो नान्दीमुखेभ्यः भूर्भुवः स्वः दास्यमाण ब्राह्मणयुग्म भोजन पर्याप्त मन्नं तन्निष्क्रियभूतं किंचित हिरण्यं अमृतरूपॆण स्वाहा संपद्यतां वृध्दिः ॥

॥ सक्षीर यवमुदकदानं ॥

सत्यवसु संज्ञिकाः विश्वॆदॆवाःनान्दीमुखाः भूर्भुवःस्वः प्रियतां ॥

गोत्राः मातृपितामहि प्रपितामह्यः नान्दीमुख्यः भूर्भुवः स्वः प्रियंतां ॥

गोत्राः पितृपितामह प्रपितामहाः नान्दीमुखाः भूर्भुवः स्वः प्रियतां ॥

द्वितीय गोत्राः मातामह प्रमातामह वृध्दप्रमातामहाः सपत्नीकाः नान्दीमुखाः भूर्भुवःस्वः प्रिय॑तां ॥

॥ आशिर्ग्रहणम ॥

गोत्रंनोभिवर्ध्दतां, वर्ध्दतांवोगोत्रंम् ॥
दातारोनोऽभिवर्द्ध तां, वर्ध्दतांवोदातारः ॥
वेदाश्चनोऽभिवर्द्धतां, वर्ध्दतांवो दाः ॥
सन्ततिर्नोऽभिवर्द्धतां, वर्ध्दतांवः सन्ततिः ॥
श्रद्धाचनो मा व्यगमत्, माव्यगमद्वः श्रध्दा ॥
बहुदेयं च नोऽस्तु, अस्तु वो बहुदेयम् ॥
अन्नं च नो बहु भवॆत्, भवतु वो बह्वन्नम् ॥
अतिथींश्चलभैमहि, अतिथींश्च लभध्वम् ॥
याचितारश्च नः सन्तु, सन्तु वो याचितारः ॥
एता आशिष सत्याःसन्तु, सन्त्वेताःसत्या आशिषः ॥

॥ दक्षिणादानम् ॥

सत्यवसु संज्ञिकेभ्यो विश्वेभ्योदॆवॆभ्यः नान्दीमुखेभ्यः भूर्भुवः स्वः कृतस्य नान्दीश्राध्दस्य फल प्रतिष्ठा सिध्यर्थं द्राक्षाऽमलकयवमूल निष्क्रयनीं दक्षणां दातु महमुत्सृजे ॥

गोत्राभ्यः मातृपितामहि प्रपितामहिभ्यः नान्दीमुखीभ्यः भूर्भुवः स्वः कृतस्य नान्दीश्राध्दस्य फल प्रतिष्ठा सिध्यर्थं द्राक्षाऽमलकयवमूल निष्क्रयनीं दक्षणांदातुमहमुत्सृजे ॥

गोत्रेभ्यः पितृपितामहप्रपितामहेभ्यः नान्दीमुखॆभ्यः भूर्भुवः स्वः कृतस्य नान्दीश्राध्दस्य फल प्रतिष्ठा सिध्यर्थं द्राक्षाऽमलकयवमूल निष्क्रयनीं दक्षिणां दातुमहमुत्सृजे ॥

द्वितीय गोत्रेभ्यो मातामह प्रमातामह वृध्दप्रमातामहेभ्यः सपत्नीकॆभ्यो नान्दीमुखैभ्यः कृतस्य नान्दीश्राध्दस्य फल प्रतिष्ठा सिध्यर्थं द्राक्षाऽमलकयवमूल निष्क्रयनीं दक्षणां दातुमहमुत्सृजॆ ॥

ततो नान्दीश्राध्दं संपन्नं सुसपन्नम् ॥

वाजे वाजेति मातृपूर्वग्विसृज्यनं ॥ ॐव्वाजे वाजेवत० ॥
आमाव्वाजेत्यनुवृज्य ॥ ॐ आमाव्वाजस्यप्रसवो० ॥

अस्मिन् नान्दीश्राध्दे न्यूनातिरिक्तो यो विधिःसऽउपविष्ठ ब्राह्मणानां वचनात श्रीमन् महा नान्दीमुख प्रसादात् तत्सर्वं परिपूर्ण तास्तु अस्तुपरिपूर्णताम् ॥ इति

Post a Comment

आपला अमूल्य प्रतिसाद आमच्यासाठी खूप महत्त्वाचा आहे. जर आमच्याकडून लिखाणात काही चुकी झाली असेल किंवा आपणांस अजून काही सुचवायचा असेल तर खालील कमेंट बॉक्स मध्ये नक्की लिहा .

थोडे नवीन जरा जुने