श्री (नारायण) पुरुष सूक्तम्

 सहस्त्रशीर्षा पुरुष:सहस्राक्ष:सहस्रपात् ।


स भूमि सर्वत: स्पृत्वाSत्यतिष्ठद्द्शाङ्गुलम् ।।1।।



पुरुषSएवेदं सर्व यद्भूतं यच्च भाव्यम् ।


उतामृतत्यस्येशानो यदन्नेनातिरोहति ।।2।।



एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।


पादोSस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।।3।।



त्रिपादूर्ध्व उदैत्पुरुष:पादोSस्येहाभवत्पुनः ।


ततो विष्वङ् व्यक्रामत्साशनानशनेSअभि ।।4।।



ततो विराडजायत विराजोSअधि पूरुषः ।


स जातोSअत्यरिच्यत पश्चाद्भूमिमथो पुर: ।।5।।



तस्माद्यज्ञात्सर्वहुत: सम्भृतं पृषदाज्यम् ।


पशूंस्न्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ।।6।।



तस्माद्यज्ञात् सर्वहुतSऋचः सामानि जज्ञिरे ।


छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ।।7।।



तस्मादश्वाSअजायन्त ये के चोभयादतः ।


गावो ह जज्ञिरे तस्मात्तस्माज्जाताSअजावयः ।।8।।



तं यज्ञं बर्हिषि प्रौक्षन् पूरुषं जातमग्रत:।


तेन देवाSअयजन्त साध्याSऋषयश्च ये ।।9।।



यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन् ।


मुखं किमस्यासीत् किं बाहू किमूरू पादाSउच्येते ।।10।।



ब्राह्मणोSस्य मुखमासीद् बाहू राजन्य: कृत: ।


ऊरू तदस्य यद्वैश्य: पद्भ्या शूद्रोSअजायत ।।11।।



चन्द्रमा मनसो जातश्चक्षो: सूर्यो अजायत ।


श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ।।12।।



नाभ्याSआसीदन्तरिक्ष शीर्ष्णो द्यौः समवर्त्तत ।


पद्भ्यां भूमिर्दिश: श्रोत्रात्तथा लोकांर्Sअकल्पयन् ।।13।।



यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।


वसन्तोSस्यासीदाज्यं ग्रीष्मSइध्म: शरद्धवि: ।।14।।



सप्तास्यासन् परिधयस्त्रि: सप्त: समिध: कृता:।


देवा यद्यज्ञं तन्वानाSअबध्नन् पुरुषं पशुम् ।।15।।



यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।


ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा: ।।16।।



अद्भ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताग्ने।


तस्य त्वष्टा विदधद्रूपमेति तन्मत्त्यस्य देवत्वमाजानमग्रे॥17॥



वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्।


तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय॥18॥



प्रजापतिश्चरति गर्भे अन्तरजायमानो बहुधा वि जायते।


तस्य योनिं परि पश्यन्ति धीरास्तस्मिन् ह तस्थुर्भुवनानि विश्वा॥19॥



यो देवेभ्य आतपति यो देवानां पुरोहितः।


पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मे॥20॥



रुचं ब्राह्मं जनयन्तो देवा अग्रे तदब्रुवन्।


यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा असन् वशे॥21॥



श्रीश्च ते लक्ष्मीश्च पल्यावहोरात्रे पार्श्निक्षत्राणि रूपमश्विनौ व्यात्तम्।


 इष्णन्निषाणामुं  इषाण सर्वलोकं म इषाण॥22॥


🛕 लोकप्रिय पूजा साहित्य Amazon Store
अधिक प्रॉडक्ट्स पहा ↗ * As an Amazon Associate I earn from qualifying purchases.
थोडे नवीन जरा जुने