त्वदीयपादपङ्कजं नमामि देवि नर्मदे | नर्मदाष्टकम्

सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं 

द्विषत्सु पापजातजातकादिवारिसंयुतम् ।

कृतान्तदूतकालभूतभीतिहारिवर्मदे

 त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १ ॥
 

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं 

कलौ मलौघभारहारिसर्वतीर्थनायकम् । 

सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे

 त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २ ॥ 


महागभीरनीरपूरपापधूतभूतलं 

ध्वनत्समस्तपातकारिदारितापदाचलम् ।
 
जगल्लये महाभये मृकण्डुसूनुहर्म्यदे

 त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥ 


गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा 

मृकण्डुसूनुशौनकासुरारिसेवितं सदा ।

 पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे 

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४ ॥
 

अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं 

सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।

 वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे 

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५ ॥
 

सनत्कुमारनाचिकेतकश्यपात्रिषत्पदैः

 धृतं स्वकीयमानसेषु नारदादिषतपदैः ।
 
रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे 

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६ ।।


अलक्षलक्षलक्षपापलक्षसारसायुधं 

ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।

 विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदे

 त्वदीयपादपङ्कजं नमामि देवि नर्मदे ।। ७ ।। 


अहो धृतं स्वनं श्रुतं महेशिकेशजातटे

 किरातसूतबाडबेषु पण्डिते शठे नटे ।

 दुरन्तपापतापहारि सर्वजन्तुशर्मदे 

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८॥


 इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा 

पठन्ति ते निरन्तरं न यन्ति दुर्गतिं कदा ।
 
सुलभ्यदेहदुर्लभं महेशधामगौरवं

 पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ।। ९ ||

 इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य 
श्रीमच्छंकरभगवतः कृतौ नर्मदाष्टकं सम्पूर्णम् ॥
थोडे नवीन जरा जुने