॥ अथ श्रीसत्यदत्त व्रत पूजा विधी ॥
(व्रतकर्त्याने स्नान करून शुभ्र वस्त्रे परिधान करावीत. पूजेच्या आसनावर बसून आचमन व प्राणायाम करावा आणि खालीलप्रमाणे देवादिकांना वंदन करावे.)
श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः । उमामहेश्वराभ्यां नमः । शचीपुरन्दराभ्यां नमः । मातापितृभ्यां नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । आदित्यादिनवग्रहदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः । एतत्कर्मप्रधानदेवताभ्यो नमः । अविघ्नमस्तु ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तु ते ॥
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् । येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥
विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् । सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥
अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥
सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः । देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥
-----------
॥ सङ्कल्प ॥
श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वितीये परार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमचरणे भरतवर्षे भरतखण्डे जम्बूद्वीपे दण्डकारण्ये देशे गोदावर्याः दक्षिणे तीरे (वा उत्तरे तीरे) शालिवाहनशके बौद्धावतारे रामक्षेत्रे अस्मिन् वर्तमाने (अमुक) नाम संवत्सरे (अमुक) अयने (अमुक) ऋतौ (अमुक) मासे (अमुक) पक्षे (अमुक) तिथौ (अमुक) वासरे (अमुक) दिननक्षत्रे (अमुक) स्थिते वर्तमाने चन्द्रे (अमुक) स्थिते श्रीसूर्ये (अमुक) स्थिते देवगुरौ शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु एवंगुणविशेषेणविशिष्टायां शुभपुण्यतिथौ मम आत्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं मम समस्तसम्भावितदुरितोपशमपूर्वकसकलमनोरथसिद्धयर्थं यथामिलितोपचारद्रव्यैः श्रीसत्यदत्तस्य साङ्गस्य सपरिवारस्य पूजनं करिष्ये । तत्रादौ निर्विघ्नतासिध्यर्थं गणपतिपूजनं शरीरशुद्धयर्थं षडङ्गन्यासांश्च कलशशङ्खघण्टापूजनं च करिष्ये । (इति सङ्कल्प्य । पाणी सोडावे)
-----------
॥ श्री महागणपती पूजन ॥
ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमं ।
ज्येष्ठराजं ब्रह्मणांब्रह्मणस्पत आनः शृण्वन्नूतिभिः सीद सादनं ॥
श्रीऋद्धिबुद्धिसिद्धिसहितं साङ्गं सपरिवारं सायुधं सशक्तिकं गणपतिं अस्मिन् पूगीफले ॐ भूर्भुवःस्वर्महागणपतये नमः आवाहयामि ॥
महागणपतये नमः । आसनार्थे अक्षतान् समर्पयामि । पादयोः पाद्यं समर्पयामि । हस्तयोः अर्घ्यं समर्पयामि । आचमनीयं समर्पयामि । स्त्रानीयं समर्पयामि । पयोदधिघृतमधुशर्करास्त्रानं समर्पयामि । शुद्धोदकस्त्रानं समर्पयामि । वस्त्रोपवस्त्रं समर्पयामि । यज्ञोपवितं समर्पयामि । विलेपनार्थे चन्दनं समर्पयामि । अलङ्कारार्थे अक्षतान् समर्पयामि । ऋद्धयै नमः । सिद्धयै नमः । हरिद्रां कुंकुमं च सौभाग्यद्रव्याणि समर्पयामि । सिन्दूरं नानापरिमलद्रव्याणि च समर्पयामि । ऋतुकालोद्भवपुष्पाणि दूर्वाङ्कुरांश्च समर्पयामि । धूपं समर्पयामि । दीपं दर्शयामि । नैवेद्यं समर्पयामि । (नैवेद्य दाखवावा) उत्तरापोशनं, मुखप्रक्षालनं, आचमनीयं, करोद्वर्तनार्थे चन्दनं समर्पयामि । मुखवासार्थे पूगीफलताम्बूलं समर्पयामि । सुवर्णपुष्पार्थे दक्षिणां समर्पयामि । फलानि समर्पयामि । महामङ्गलनीराञ्जनदीपं समर्पयामि । कर्पूरार्तिक्यदीपं समर्पयामि । प्रदक्षिणां नमस्कारांश्च समर्पयामि ॥
वक्रतुन्ड महाकाय कोटिसूर्यसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
महागणपतये नमः । मन्त्रपुष्पाञ्जलिं प्रार्थनां च समर्पयामि । अनया पूजया सकलविघ्नहर्ता महागणपतिः प्रीयताम् ॥
-----------
॥ आसनशुद्धी, भूतशुद्धी व षडङ्गन्यास ॥
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनं ॥ (आसनावर अक्षता सोडाव्या)
ॐ अपसर्पतु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाज्ञया ॥ अपक्रामन्तु भूतानि पिशाचाः सर्वतोदिशं । सर्वेषामविरोधेन पूजाकर्म समारभे ॥ (डाव्या पायाची टाच जमिनीवर तीन वेळा आपटावी)
(षडङ्गन्यास) : ॐ यत्पुरुषं व्यदधुः... (हृदयाय नमः) । ॐ ब्राह्मणोस्य... (शिरसे स्वाहा) । ॐ चन्द्रमा मनसो... (शिखायै वषट्) । ॐ नाभ्या आसीदन्तरिक्षं... (कवचाय हूं) । ॐ सप्तास्यासन्... (नैत्रत्रयाय वौषट्) । ॐ यज्ञेन यज्ञमयजन्त... (अस्त्राय फट्) ॥ ॐ भूर्भुवः स्वः इति दिग्बन्धः ॥
-----------
॥ कलश, शंख, घंटा, दीप व वरुण पूजन ॥
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोथ यजुर्वेदा सामवेदो ह्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः । अत्र गायत्री सावित्री शान्तिपुष्टीकरी तथा ॥
आयान्तु देवपूजार्थं दुरितक्षयकारकाः । गङ्गे च यमुने चैव गोदावरी सरस्वती ॥
नर्मदे सिन्धु कावेरी जलेऽस्मिन्सन्निधिं कुरु ॥
कलशदेवताभ्यो नमः । सर्वोपचारार्थे गन्धाक्षतपुष्पं समर्पयामि ॥ (कलशे धेनुमुद्रां प्रदर्शयेत्)
ॐ शङ्खादौ चन्द्रदैवत्यं कुक्षौ वरुणदेवता । पृष्ठे प्रजापतिं विद्यादग्रे गङ्गासरस्वती ॥
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शङ्खे तिष्ठन्ति विप्रेन्द्र तस्माच्छङ्खं प्रपूजयेत् ॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । निर्मितः सर्वदेवैश्च पाञ्चजन्य नमोस्तु ते ॥
ॐ पाञ्चजन्याय विद्महे । पावमानाय धीमहि । तं नः शङ्खः प्रचोदयात् ॥
शङ्खदेवताभ्यो नमः । सर्वोपचारार्थे चन्दनं पुष्पं समर्पयामि ॥ (शङ्खमुद्रां प्रदर्शयेत्)
आगमार्थं तु देवानां गमनार्थं तु रक्षसां । कुर्वे घण्टारवं तत्र देवताह्वानलक्षणम् ॥
घण्टायै नमः । सर्वोपचारार्थे गन्धाक्षतपुष्पं समर्पयामि ॥ (घण्टामुद्रां प्रदर्शयेत्)
ॐ दिवे दिवे सदृशीरन्यमर्धं कृष्णा असेधदपसद्मनोजाः । अहंदासा वृषभो...
दीपदेवताभ्यो नमः । सर्वोपचारार्थे गन्धाक्षतपुष्पं समर्पयामि ॥
ॐ तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेळमानो वरुणेह बोध्युरुशंसमान आयुः प्रमोषीः ॥
कलशे वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि । ॐ भूर्भुवः स्वः वरुणाय नमः विलेपनार्थे चन्दनं व पञ्चोपचारैः सम्पूज्य पुष्पाञ्जलिं समर्पयामि । अनेन पूजनेन वरुणः प्रीयतां ॥
-----------
॥ पुण्याहवाचन ॥
मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथीदेवो भव । सर्वेभ्यो देवेभ्यो ब्राह्मणेभ्यो नमः ॥
१) मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनमपेक्षमाणाय अद्य करिष्यमाण-श्रीसत्यदत्तव्रताख्यस्य कर्मणः पुण्याहं भवन्तो ब्रुवन्तु ॥ (ॐ अस्तु पुण्याहं - ३ वेळा)
२) मह्यं... श्रीसत्यदत्तव्रताख्याय कर्मणे स्वस्ति भवन्तो ब्रुवन्तु ॥ (आयुष्मते स्वस्ति)
३) मह्यं... श्रीसत्यदत्तव्रताख्यस्य कर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ॥ (कर्म ऋध्यतां - ३ वेळा)
४) मह्यं... कर्मणः श्रीरस्त्विति भवन्तो ब्रुवन्तु ॥ (अस्तु श्रीः - ३ वेळा)
५) मह्यं... कर्मणः कल्याणं भवन्तो ब्रुवन्तु ॥ (अस्तु कल्याणं - ३ वेळा)
मङ्गलानि भवन्तु । वर्षशतं पूर्णमस्तु । अमुकगोत्रस्याभिवृद्धिरस्तु । श्रीदत्तः प्रीयतां ॥
-----------
॥ नवग्रह व पीठदेवता आवाहन ॥
१) ॐ आकृष्णेन रजसा... ॐ भूर्भुवः स्वः सूर्याय नमः सूर्यम् आवाहयामि ॥
२) ॐ आप्यायस्व समेतु... ॐ भूर्भुवः स्वः चन्द्राय नमः चन्द्रम् आवाहयामि ॥
३) ॐ अग्निमूर्धा दिवः... ॐ भूर्भुवः स्वः भौमाय नमः भौमम् आवाहयामि ॥
४) ॐ उद्बुध्यध्वं समनसः... ॐ भूर्भुवः स्वः बुधाय नमः बुधम् आवाहयामि ॥
५) ॐ बृहस्पते अतियदर्यो... ॐ भूर्भुवः स्वः गुरवे नमः गुरुम् आवाहयामि ॥
६) ॐ शुक्रः शुशुक्वाँउषो... ॐ भूर्भुवः स्वः शुक्राय नमः शुक्रम् आवाहयामि ॥
७) ॐ शमग्निरग्निभिः... ॐ भूर्भुवः स्वः शनैश्चराय नमः शनैश्चरम् आवाहयामि ॥
८) ॐ कयानश्चित्र आभुवद्... ॐ भूर्भुवः स्वः राहवे नमः राहुम् आवाहयामि ॥
९) ॐ केतुं कृण्वन्नकेतवे... ॐ भूर्भुवः स्वः केतवे नमः केतुम् आवाहयामि ॥
(अष्टदिक्पाल) : ॐ इन्द्राय नमः इन्द्रम् आवाहयामि । ॐ अग्नये नमः अग्निम् आवाहयामि । ॐ यमाय नमः यमम् आवाहयामि । ॐ निर्ऋतये नमः निर्ऋतिम् आवाहयामि । ॐ वरुणाय नमः वरुणम् आवाहयामि । ॐ वायवे नमः वायुम् आवाहयामि । ॐ सोमाय नमः सोमम् आवाहयामि । ॐ ईशानाय नमः ईशानम् आवाहयामि ॥
(द्वारदेवता) : ॐ लक्ष्मीनारायणाभ्यां नमः लक्ष्मीनारायणौ आवाहयामि । ॐ पार्वतीपरमेश्वराभ्यां नमः पार्वतीपरमेश्वरौ आवाहयामि । ॐ रतिकन्दर्पाभ्यां नमः रतिकन्दर्पौ आवाहयामि । ॐ भूवराहाभ्यां नमः भूवराहौ आवाहयामि ॥ (इति एकविंशतिदेवतावाहनं)
ॐ सूर्याद्यावाहितपीठदेवताभ्यो नमः इति षोडशोपचारैः सम्पूज्य ॥
॥ श्री सत्यदत्त मुख्य पूजा ॥
(चौरंगावरील ताम्हनात श्रीदत्तयंत्र, मूर्ती, गुरुपादुका किंवा शालिग्राम ठेवून "ॐ नमो भगवते दत्तात्रेयाय" या मंत्राने आवाहन व ध्यान करावे.)
श्रीदत्तं खेचरीमुद्रामुद्रितं योगिसद्गुरुम् । सिद्धासनस्थं ध्यायेऽभीवरप्रदकरं हरिं ॥
ॐ भूर्भुवः स्वः नमो भगवते दत्तात्रेयाय साङ्गाय सपरिवाराय नमः ध्यायामि ध्यानम् समर्पयामि ॥
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलं ॥
दत्तात्रेयाह्वयाम्यत्र परिवारैः सहार्चने । श्रद्धाभक्तत्येश्वरागच्छ ध्यातधाम्नाञ्जसा विभो ॥
ॐ नमो भगवते दत्तात्रेयाय साङ्गाय सपरिवाराय नमः आवाहयामि ॥
ॐ पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यं । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥
सौवर्णं रत्नजडितं कल्पितं देवतामयम् । रम्यं सिंहासनं दत्त तत्रोपविश यन्त्रिते ॥
ॐ नमो भगवते दत्तात्रेयाय साङ्गाय सपरिवाराय नमः आसनं समर्पयामि ॥
ॐ एतावानस्य महिमातोज्यायांश्च पूरुषः । पादोस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥
पाद्यं चन्दनकर्पूरसुरभि स्वादु वारि ते । गृहाण कल्पितं तेन दत्तांघ्री क्षालयामि ते ॥
ॐ नमो भगवते दत्तात्रेयाय साङ्गाय सपरिवाराय नमः पाद्यं समर्पयामि ॥
ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवत्पुनः । ततोविष्वङ्ग्यक्रामत्साशनानशने अभि ॥
गन्धाब्जतुलसीबिल्वशमीपत्राक्षतान्वितम् । सांब्वर्घ्यं स्वर्णपात्रेण कल्पितं दत्त गृह्यताम् ॥
ॐ नमो भगवते दत्तात्रेयाय० अर्घ्यं समर्पयामि ॥
ॐ तस्माद्विराळजायत विराजो अधिपूरुषः । स जातो अत्यरिच्यत पश्चाद्भूमिमथोपुरः ॥
सुस्वाद्वाचमनीयाम्बु हैमपात्रेण कल्पितम् । तुभ्यमाचम्यतां दत्त मधुपर्कं गृहाण च ॥
ॐ नमो भगवते दत्तात्रेयाय० आचमनीयं समर्पयामि ॥
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
परमभक्ति सुशीतलसज्जलं वपुषि सिक्तमथाप्लुतयेऽस्त्वलम् ॥
ॐ नमो भगवते दत्तात्रेयाय० स्नानीयं समर्पयामि । स्नानान्तरं आचमनीयं समर्पयामि ॥
-----------
॥ पञ्चामृत स्नान ॥
(दूध) : कामधेनोः समुद्भूतं देवर्षिपितृतृप्तिदम् । पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् ॥
ॐ नमो भगवते दत्तात्रेयाय० पयः स्नानं समर्पयामि । शुद्धोदकस्नानं सम० । आचमनीयं सम० ॥
(दही) : चन्द्रमण्डलसङ्काशं सर्वदेवप्रियं दधि । स्नानार्थं ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥
ॐ नमो भगवते दत्तात्रेयाय० दधिस्नानं सम० । शुद्धोदकस्नानं सम० । आचमनीयं सम० ॥
(तूप) : आज्यं सुराणामाहार आज्यं यज्ञे प्रतिष्ठितं । आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ नमो भगवते दत्तात्रेयाय० घृतस्नानं सम० । शुद्धोदकस्नानं सम० । आचमनीयं सम० ॥
(मध) : सर्वोषधिसमुत्पन्नं पीयूषसदृशं मधु । स्नानार्थं ते प्रयच्छामि गृहाण परमेश्वर ॥
ॐ नमो भगवते दत्तात्रेयाय० मधुस्नानं सम० । शुद्धोदकस्नानं सम० । आचमनीयं सम० ॥
(साखर) : इक्षुदण्डसमुद्धृतदिव्यशर्करया हरिम् । स्नापयामि सदा भक्त्या प्रीतो भव सुरेश्वर ॥
ॐ नमो भगवते दत्तात्रेयाय० शर्करास्नानं सम० । शुद्धोदकस्नानं सम० । आचमनीयं सम० ॥
(गन्धोदक) : कर्पूरैलासमायुक्तं सुगन्धिद्रव्यसंयुतम् । गन्धोदकं मया दत्तं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ नमो भगवते दत्तात्रेयाय० गन्धोदकस्नानं सम० । शुद्धोदकस्नानं सम० । आचमनीयं सम० ॥
(यानंतर देवाला पुरुषसूक्त, रुद्र, पवमान, श्रीसूक्त इत्यादि मंत्रांनी महाअभिषेक करावा.)
ॐ नमो भगवते दत्तात्रेयाय० महाभिषेकस्नानं समर्पयामि । स्नानान्तरं आचमनीयं समर्पयामि ॥
ॐ कनिक्रदञ्जनुषं प्रब्रुवाण इयार्तिवाचमरितेव नावं । सुमङ्गलश्चशकुने भवासि...
ॐ भूर्भुवः स्वः नमो भगवते दत्तात्रेयाय० तैलोद्वर्तनं उष्णोदकस्नानं समर्पयामि । आचमनीयं सम० ॥
(देव पुसून मुख्य पीठावर स्थापन करावेत) ॐ तदस्तु मित्रावरुणातदग्ने... सुप्रतिष्ठितमस्तु ॥
-----------
॥ वस्त्र, चन्दन व अलङ्कार ॥
ॐ तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः । तेनदेवा अयजन्त साध्या ऋषयश्च ये ॥
भक्त्या दिगंबराचान्तजलेदं दत्त कल्पितं । काषायपरिधानं तद्गृहाणाचमनीयकं ॥
ॐ नमो भगवते दत्तात्रेयाय० वस्त्रोपवस्त्रं समर्पयामि । वस्त्रानन्तरं आचमनीयं समर्पयामि ॥
ॐ तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यं । पशून्ताँश्चक्रे वायव्यानाराण्यान्ग्राम्याश्च ये ॥
नानासूत्रधरैते ते ब्रह्मसूत्रे प्रकल्पिते । गृहाण दैवतमये श्रीदत्त नवतन्तुके ॥
ॐ नमो भगवते दत्तात्रेयाय० यज्ञोपवीतं समर्पयामि । आचमनीयं सम० ॥
ॐ तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्मादयजुस्तस्मादजायत ॥
भूतिमृत्स्त्रासुकस्तूरीकेशरान्वितचन्दनं । रत्नाक्षताः कल्पितास्त्वामलङ्कुर्वेथ दत्त तैः ॥
ॐ नमो भगवते दत्तात्रेयाय० विलेपनार्थे चन्दनं अक्षतांश्च समर्पयामि ॥
हरिद्रा स्वर्णवर्णाभा सर्वसौभाग्यदायिनी । सर्वालङ्कारमुख्या हि देवि त्वं प्रतिगृह्यतां ॥
हरिद्राचूर्णसंयुक्तं कुङ्कुमं कामदायकम् । वस्त्रालङ्करणं सर्वं देवि त्वं प्रतिगृह्यतां ॥
ॐ नमो भगवते दत्तात्रेयाय० हरिद्रां कुङ्कुमं सम० ॥
ज्योत्स्नापते नमस्तुभ्यं नमस्ते विश्वरूपिणे । नानापरिमलद्रव्यं गृहाण परमेश्वर ॥
ॐ नमो भगवते दत्तात्रेयाय० नानापरिमलद्रव्याणि समर्पयामि ॥
ॐ तस्मादश्वा अजायन्त ये केचोभयादतः । गावोह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥
सच्छमीबिल्वतुलसीपत्रैः सौगन्धिकैः सुमैः । मनसा कल्पितैर्नानाविधैर्दत्तार्चयाम्यहम् ॥
ॐ नमो भगवते दत्तात्रेयाय० नानाविधपुष्पाणि तुलसीपत्राणि बिल्वपत्राणि च समर्पयामि ॥
-----------
॥ आवरणपूजा (७ आवरणे) ॥
(देवाला चहूबाजूनी अक्षता वाहून पूजा करावी. 'दयाब्धे त्राहि...' हा श्लोक प्रत्येक आवरणाच्या शेवटी म्हणावा.)
(१) ॐ शिक्षायै नमः । ॐ कल्पाय नमः । ॐ व्याकरणाय नमः । ॐ निरुक्ताय नमः । ॐ ज्योतिषाय नमः । ॐ छन्दसे नमः । ॐ वह्नये नमः । ॐ ईशाय नमः । ॐ रक्षसे नमः । ॐ वायवे नमः ॥
दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनं ॥१॥
(२) ॐ ऋग्वेदाय नमः । ॐ यजुर्वेदाय नमः । ॐ सामवेदाय नमः । ॐ अथर्वणाय नमः । ॐ इतिहासपुराणेभ्यो नमः । ॐ मीमांसायै नमः । ॐ न्यायाय नमः ॥
दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनं ॥२॥
(३) ॐ सरस्वत्यै नमः । ॐ गणपतये नमः । ॐ शुकाय नमः । ॐ सुमन्तवे नमः । ॐ जैमिनये नमः । ॐ वैशम्पायनाय नमः । ॐ पैलाय नमः । ॐ गोभिलाय नमः ॥
दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनं ॥३॥
(४) ॐ कश्यपाय नमः । ॐ अत्रये नमः । ॐ भरद्वाजाय नमः । ॐ विश्वामित्राय नमः । ॐ गौतमाय नमः । ॐ जमदग्नये नमः । ॐ वसिष्ठाय नमः । ॐ व्यासाय नमः ॥
दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनं ॥४॥
(५) ॐ अणिमायै नमः । ॐ महिमायै नमः । ॐ गरिमायै नमः । ॐ लघिमायै नमः । ॐ प्राप्त्यै नमः । ॐ प्राकाम्याय नमः । ॐ ईशित्वाय नमः । ॐ वशित्वाय नमः ॥
दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनं ॥५॥
(६) ॐ नन्दनाथाय नमः । ॐ मत्स्येन्द्राय नमः । ॐ दलेन्द्राय नमः । ॐ गोरक्षाय नमः । ॐ गोगणेश्वराय नमः । ॐ नागार्जुनाय नमः । ॐ मेघनादाय नमः । ॐ भुजङ्गाय नमः । ॐ कुरुनायकाय नमः । ॐ भैरवाय नमः ॥
दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं षष्ठावरणार्चनं ॥६॥
(७) ॐ इन्द्राय नमः । ॐ अग्नये नमः । ॐ यमाय नमः । ॐ निर्ऋतये नमः । ॐ वरुणाय नमः । ॐ वायवे नमः । ॐ सोमाय नमः । ॐ ईशानाय नमः ॥
दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनं ॥७॥
अनेन आवरणदेवतापूजनेन श्रीदत्तात्रेय प्रीयतां ॥
-----------
॥ धूप, दीप व महानैवेद्य ॥
ॐ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू का ऊरूपादा उच्येते ॥
लाक्षासिताभ्रश्रीवासश्रीखण्डागरुगुग्गुलैः । युक्तोऽग्नियोजितो धूपो हृदा स्वीकुरुदत्त तम् ॥
ॐ नमो भगवते दत्तात्रेयाय० धूपं आघ्रापयामि ॥
ॐ ब्राह्मणोस्य मुखमासीद्वाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥
स्वर्णपात्रे गोघृताक्तवर्तिप्रज्वालितं हृदा । दीपं दत्तं सकर्पूरं गृहाण स्वप्रकाशक ॥
ॐ नमो भगवते दत्तात्रेयाय० दीपं दर्शयामि ॥
ॐ चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥
सषड्रसं षड्विधान्नं नैवेद्यं गव्यसंयुतम् । कल्पितं हैमपात्रे ते भुंक्ष्व दत्तांब्वदः पिब ॥
ॐ नमो भगवते दत्तात्रेयाय० नैवेद्यं समर्पयामि ॥ (नैवेद्यावर पाणी फिरवावे)
सत्यं त्वर्तेन परिषिञ्चामि । अमृतोपस्तरणमसि स्वाहा । ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । ॐ ब्रह्मणे स्वाहा ॥ मध्ये प्राशनार्थे पानीयं समर्पयामि । (पुन्हा प्राणाय स्वाहा...) उत्तरापोशनं समर्पयामि । हस्तप्रक्षालनं समर्प० । मुखप्रक्षालनं समर्प० । करोद्वर्तनार्थे चन्दनं समर्पयामि । नैवेद्यानन्तरं आचमनीयं समर्पयामि ॥
त्रीश तेऽद्य परभक्तिवीटिका पञ्चमैकपुरुषार्थसाधिका । निर्विकल्पकसमाधितः पुरा रञ्जिकाऽस्तु भवभञ्जिका वरा ॥
ॐ नमो भगवते दत्तात्रेयाय० ताम्बूलं समर्पयामि । हिरण्य गर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिंप्रयच्छ मे ॥ सुवर्णपुष्पार्थे दक्षिणां समर्प० ॥ इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सुफला वाप्तिर्भवेज्जन्मनि जन्मनि ॥ नानाविधफलानि समर्प० ॥
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारं । सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि ॥
ॐ नमो भगवते दत्तात्रेयाय० महामङ्गलनीराञ्जनदीपं कर्पूरार्तिक्यदीपं च समर्पयामि ॥
ॐ नाभ्या आसीदन्तरिक्षं शीष्र्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथालोकाँ अकल्पयन् ॥
त्वंत्रीशाहमहं त्वमित्यवगत स्थेम्ने निदिध्यासनात्मानस्ते परिदक्षिणा हि विहिता यद्यच्च मे क्रीडितम् । तद्ब्रह्मास्तु चिदन्वयेक्षितुरथो त्वानुस्मरन् व्याहरे तारं तारकमेकमात्मनि यथा शार्दूलविक्रीडितम् ॥
ॐ नमो भगवते दत्तात्रेयाय० प्रदक्षिणां समर्पयामि ॥
ॐ सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुं ॥
नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः । आचार्यसिद्धेश्वरपादुकाभ्यो नमोऽस्तु लक्ष्मीपतिपादुकाभ्यः ॥
नमः सर्वहितार्थाय जगदाधारहेतवे । साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मया कृतः ॥
ॐ नमो भगवते दत्तात्रेयाय० नमस्कारान्समर्पयामि ॥ मन्त्रपुष्पाञ्जलिं समर्पयामि । राजोपचारान् समर्पयामि ॥
-----------
॥ प्रार्थना व साङ्गता ॥
त्वत्प्रेमभक्तचैव सदा मदात्मा धिया धियं दृष्टिमपीश दृष्टया ।
अङ्गैः सदाङ्गानि दृढं दयाब्धे हरे निबधन्त्विति मेऽस्ति याञ्चा ॥१॥
यः सर्वहृत्स्थोऽस्य यतः स्मृतिर्विद्वेदान्तकृद्योऽपि च वेदवेद्यः ।
समौ यदंशौ सयुजौ सुपर्णो वृक्षाश्रितौ भुक्तत्यवलोकनोत्कौ ॥२॥
स त्वं परात्मा पुरुषोत्तमः श्रुतिख्यातः समाविश्य जगत्त्रयं सदा ।
ईशाव्ययानन्त बिभर्षि दत्त ते पादाब्जयुग्माय नमोऽस्तु सर्वदा ॥३॥
असकृदभिहिता तेऽनेकजन्माप्तपुण्यैः प्रणतिविततिरेषाऽद्वैतशेषाऽविशेषा ।
त्वयि विनिहितमेतन्मेद्य सर्वं स्वकीयं त्र्यधिप दयतु पूजा त्वद्यशोमालिनीयम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥४॥
अन्यथाशरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष परमेश्वर ॥
ॐ नमो भगवते दत्तात्रेयाय० प्रार्थनां समर्पयामि ॥ यस्य स्मृत्या च नामोक्तया तपः पूजाक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतं ॥
अनेन यथाज्ञानेन यथामिलितोपचारद्रव्यैः ध्यानावाहनादिषोडशोपचारपूजनपूर्वक श्रीसत्यदत्तव्रताख्येन कर्मणा श्रीसत्यदत्तः साङ्गः सपरिवारः प्रीयतां ॥ ॐ तत्सत्ब्रह्मार्पणमस्तु ॥ ॐ तस्तत् ॥
-----------
॥ श्रीदत्तात्रेय अष्टोत्तरशत नामावली (१०८ नावे) ॥
(प्रत्येक नावाचा उच्चार करून एक-एक दूर्वा/तुळस/बेल/फूल देवाला अर्पण करावी.)
१) ॐ दत्ताय नमः । २) ॐ दशातीताय नमः । ३) ॐ दयाब्धये नमः । ४) ॐ दहनाय नमः । ५) ॐ दमाय नमः । ६) ॐ दक्षाय नमः । ७) ॐ दरघ्नाय नमः । ८) ॐ दस्युघ्नाय नमः । ९) ॐ दर्शाय नमः । १०) ॐ दर्पहराय नमः ॥१०॥
११) ॐ दवाय नमः । १२) ॐ दात्रे नमः । १३) ॐ दारुणाय नमः । १४) ॐ दान्ताय नमः । १५) ॐ दास्यादाय नमः । १६) ॐ दानतोषणाय नमः । १७) ॐ दानाय नमः । १८) ॐ दावप्रियाय नमः । १९) ॐ दावाय नमः । २०) ॐ दासत्राय नमः ॥२०॥
२१) ॐ दारवर्जिताय नमः । २२) ॐ दिक्पाय नमः । २३) ॐ दिवसपाय नमः । २४) ॐ दिवस्थाय नमः । २५) ॐ दिव्ययोगाय नमः । २६) ॐ दिगंबराय नमः । २७) ॐ दिव्याय नमः । २८) ॐ दिष्टाय नमः । २९) ॐ दिनाय नमः । ३०) ॐ दिश्याय नमः ॥३०॥
३१) ॐ दिव्याङ्गाय नमः । ३२) ॐ दितिजार्चिताय नमः । ३३) ॐ दीनपाय नमः । ३४) ॐ दीधितये नमः । ३५) ॐ दीप्ताय नमः । ३६) ॐ दीर्घाय नमः । ३७) ॐ दीपाय नमः । ३८) ॐ दीप्तगवे नमः । ३९) ॐ दीनसेव्याय नमः । ४०) ॐ दीनबन्धवे नमः ॥४०॥
४१) ॐ दीक्षादाय नमः । ४२) ॐ दीक्षितोत्तमाय नमः । ४३) ॐ दुर्ज्ञेयाय नमः । ४४) ॐ दुर्गुहाय नमः । ४५) ॐ दुर्गाय नमः । ४६) ॐ दुर्गेशाय नमः । ४७) ॐ दुःखभञ्जनाय नमः । ४८) ॐ दुष्टघ्नाय नमः । ४९) ॐ दुग्धपाय नमः । ५०) ॐ दुःखाय नमः ॥५०॥
५१) ॐ दुर्वासोग्ऱ्याय नमः । ५२) ॐ दुरासदाय नमः । ५३) ॐ दूताय नमः । ५४) ॐ दूतप्रियाय नमः । ५५) ॐ दूष्याय नमः । ५६) ॐ दूष्यत्राय नमः । ५७) ॐ दूरदर्शिपाय नमः । ५८) ॐ दूराय नमः । ५९) ॐ दूरतमाय नमः । ६०) ॐ दूर्वाभाय नमः ॥६०॥
६१) ॐ दूराङ्गाय नमः । ६२) ॐ दूरगाय नमः । ६३) ॐ देवार्ध्याय नमः । ६४) ॐ देवपाय नमः । ६५) ॐ देवाय नमः । ६६) ॐ देयज्ञाय नमः । ६७) ॐ देवत्तोतमाय नमः । ६८) ॐ देवज्ञाय नमः । ६९) ॐ देहिने नमः । ७०) ॐ देशाय नमः ॥७०॥
७१) ॐ देशिकाय नमः । ७२) ॐ देहिजीवनाय नमः । ७३) ॐ दैन्याय नमः । ७४) ॐ दैन्यहराय नमः । ७५) ॐ दैवाय नमः । ७६) ॐ दैन्यदाय नमः । ७७) ॐ दैविकान्तकाय नमः । ७८) ॐ दैत्यघ्नाय नमः । ७९) ॐ दैवताय नमः । ८०) ॐ दैर्ध्याय नमः ॥८०॥
८१) ॐ दैवज्ञाय नमः । ८२) ॐ दैहिकार्तिहाय नमः । ८३) ॐ दोषघ्नाय नमः । ८४) ॐ दोषदाय नमः । ८५) ॐ दोषाय नमः । ८६) ॐ दोषित्राय नमः । ८७) ॐ दोर्द्धयान्विताय नमः । ८८) ॐ दोषज्ञाय नमः । ८९) ॐ दोहपाय नमः । ९०) ॐ दोषेट्बन्धदे नमः ॥९०॥
९१) ॐ दोर्जाय नमः । ९२) ॐ दोहदाय नमः । ९३) ॐ दौरात्म्यघ्नाय नमः । ९४) ॐ दौर्मनस्यहराय नमः । ९५) ॐ दौर्भाग्यमोचनाय नमः । ९६) ॐ दौष्टचत्राय नमः । ९७) ॐ दौष्कुल्यदोषहराय नमः । ९८) ॐ दौर्हद्यभञ्जनाय नमः । ९९) ॐ दण्डज्ञाय नमः । १००) ॐ दण्डिने नमः ॥१००॥
१०१) ॐ दण्डाय नमः । १०२) ॐ दम्भघ्नाय नमः । १०३) ॐ दम्भिशासनाय नमः । १०४) ॐ दन्त्यास्याय नमः । १०५) ॐ दन्तुराय नमः । १०६) ॐ दंशिघ्नाय नमः । १०७) ॐ दण्ड्यज्ञाय नमः । १०८) ॐ दण्डदाय नमः ॥१०८॥
अनन्तानन्तनामानि सन्ति तेऽनन्तविक्रम । वेदोऽपि चकितो यत्र नुर्वाग्हहूर का कथा ॥१॥
॥ इति श्रीदत्तात्रेय अष्टोत्तरशतनामावलिः ॥
-----------
॥ श्रीदत्तात्रेय प्रार्थनास्तोत्रम् ॥
श्रीपाद श्रीवल्लभ त्वं सदैव । श्रीदत्तास्मान्पाहि देवाधिदेव ॥
भावग्राह्य क्लेशहारिन्सुकीर्ते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥
त्वं नो माता त्वं पिताऽऽप्तोधिपस्त्वं । त्राता योगक्षेमकृत्सद्गुरुस्त्वम् ॥
त्वं सर्वस्वं श्रीप्रभो विश्वमूर्ते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥
पापं तापं व्याधिमाधिं च दैन्यं । भितिं क्लेशं त्वं हराशु त्वदैन्यम् ॥
त्रातारं नो वीक्ष ईशास्तजूतें । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥
नान्यस्त्राता नापि दाता न भर्ता । त्वत्तो देव त्वं शरण्योऽकहर्ता ॥
कुर्वात्रेयानुग्रहंपूर्णराते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥
धर्मे प्रीतिं सन्मतिं देवभक्तिं । सत्संगाप्तिं देहि भुक्तिं च मुक्तिम् ॥
भावासक्तिं चाखिलानंदमूर्ते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥
श्लोकपंचकमेतद्यो लोकमंगलवर्धनं । प्रपठेन्नियतो भक्त्या स श्रीदत्तप्रियो भवेत् ॥
-----------
॥ इति श्रीसत्यदत्तव्रतपूजाकथा समाप्ता ॥