रुद्राष्टाध्यायी प्रथमोऽध्यायः

रुद्राष्टाध्यायी
— प्रथमोऽध्यायः —

ग॒णानां॑ त्वा ग॒णप॑तिᳪ हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिᳪ हवामहे नि॒धीनां॑ त्वा॑ निधि॒पति॑ᳪ हवामहे वसो मम । आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् |

गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप्प॒ङ्क्त्या स॒ह । बृ॒ह॒त्युष्णिहा॑ क॒कुप्सू॒चीभि॑: शम्यन्तु त्वा

द्विप॑दा॒ याश्चतु॑ष्पदा॒स्त्रिप॑दा॒ याश्च॒ षट्प॑दाः । विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभि॑: शम्यन्तु त्वा

स॒हस्तो॑माः स॒हच्छ॑न्दस आ॒वृत॑: स॒हप्र॑मा॒ ऋष॑यः स॒प्त दै॑व्याः । पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो न र॒श्मीन्

यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑ । दू॒र॒ङ्ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु

येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीरा॑: । यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु

यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ । यस्मा॒न्न ऋ॒ते किं च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु

येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्व॑म् । येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु

यस्मि॒न्नृच॒: साम॒ यजू॑ᳪषि॒ यस्मि॒न् प्रति॑ष्ठिता रथना॒भावि॑वा॒राः । यस्मिँ॑श्चि॒त्तᳪ सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु

सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॒न्नेनी॒यते॒ऽभीशु॑भिर्वा॒जिन॑ इव । हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु .

॥ इति रुद्रपाठे प्रथमोऽध्यायः ॥ १ ॥

Post a Comment

आपला अमूल्य प्रतिसाद आमच्यासाठी खूप महत्त्वाचा आहे. जर आमच्याकडून लिखाणात काही चुकी झाली असेल किंवा आपणांस अजून काही सुचवायचा असेल तर खालील कमेंट बॉक्स मध्ये नक्की लिहा .

थोडे नवीन जरा जुने