समंत्रक सर्वतोभद्रमंडल देवता स्थापनम्

×

📿 सेवा बुकिंग / चौकशी फॉर्म

ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सीम॑तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विव॑ ॥

एह्येहि विश्वाधिपते मुनींद्र लोकेश सार्द्धं पितृदेवताभिः ।
विशाध्वरांतः सततं शिवाय पितामहस्त्वं सततं नमस्ते ॥

ॐ भूर्भुवः स्वः ब्रह्मणे नमः | ब्रह्माणम् आवाहयामि, स्थापयामि !

-----------

व॒यꣳ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि ॥

एह्येहि यज्ञेश्वर यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्द्धम् ।
सर्वौषधीभिः पितृभिः सहैव गृहाण पूजां भगवन्नमस्ते ॥

ॐ भूर्भुवः स्वः सोमाय नमः | सोमम् आवाहयामि, स्थापयामि !

-----------

तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियञ्जि॒न्वमव॑से हूमहे व॒यम् । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द् वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥

एह्येहि विश्वेश्वर विश्वमूर्ते त्रिशूलखट्वाङ्गधरेण सार्द्धम् ।
लोकेन भूतेश्वर यज्ञसिद्ध्यै गृहाण पूजां भगवन्नमस्ते ॥

ॐ भूर्भुवः स्वः ईशानाय नमः | ईशानम् आवाहयामि, स्थापयामि !

-----------

त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रꣳ॒ हवे॑ हवे सु॒हव॒ꣳ॒ शूर॒मिन्द्र॑म् । ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्रंꣳ॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥

एह्येहि सर्वामरसिद्धसाध्यैरभिष्टुतो वज्रधरामरेश ।
संवीज्यमानोप्सरसां गणेन रक्षाध्वरं नो भगवन्नमस्ते ॥

ॐ भूर्भुवः स्वः इन्द्राय नमः | इन्द्रम् आवाहयामि, स्थापयामि !

-----------

त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॑श्च वन्द्य । त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑मु॒स्यनि॑मेषꣳ रक्ष्यमा॑ण॒स्तव॑ व्र॒ते ॥

एह्येहि सर्वामरहव्यवाह मुनिप्रवीरे रभिहृष्ट मानसः ।
तेजोवता लोकगणेन सार्द्धं ममाध्वरं रक्ष कवे नमस्ते ॥

ॐ भूर्भुवः स्वः अग्नये नमः | अग्निम् आवाहयामि, स्थापयामि !

-----------

य॒माय॑ त्वाऽङ्गिरस्वते पितृ॒मते॒ स्वाहा॑ । स्वाहा॑ घ॒र्माय॒ स्वाहा॑ घ॒र्मः पि॒त्रे ॥

एह्येहि वैवस्वत धर्मराज सर्वामरैरर्चितधर्ममूर्ते ।
शुभाशुभानन्दशुचामधीश शिवाय नः पाहिमखं नमस्ते ॥

ॐ भूर्भुवः स्वः यमाय नमः | यमम् आवाहयामि, स्थापयामि !

-----------

असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यामन्वि॑हि॒ तस्क॑रस्य । अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्ऋते॒ तुभ्य॑मस्तु ॥

एह्येहि रक्षो गणनायकस्त्वं विशालवेताल पिशाच संघैः ।
ममाध्वरं पाहि पिशाचनाथ लोकेश्वरस्त्वं भगवन्नमस्ते ॥

ॐ भूर्भुवः स्वः निर्ऋतये नमः | निर्ऋतिम् आवाहयामि, स्थापयामि !

-----------

तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्र मो॑षीः ॥

एह्येहि यादोगणवारिधीनां गणेन पर्जन्य सहाप्सरोभिः ।
विद्याधरेन्द्रा मरगीयमान पाहि त्वमस्मान्भगवन्नमस्ते ॥

ॐ भूर्भुवः स्वः वरुणाय नमः | वरुणम् आवाहयामि, स्थापयामि !

-----------

आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रꣳ स॑हस्रि॒णीभि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

एह्येहि यज्ञे मम रक्षणाय मृगाधिरूढः सह सिद्धसंघैः ।
प्राणाधिपः कालकवेः सहायो गृहाण पूजां भगवन्नमस्ते ॥

ॐ भूर्भुवः स्वः वायवे नमः | वायुम् आवाहयामि, स्थापयामि !

-----------

सु॒गा वो॑ देवाः॒ सद॑ना अकर्म॒ य आ॑ज॒ग्मेदꣳ सव॑नं जुषा॒णाः । भर॑माणा॒ वह॑माना ह॒वीꣳष्य॒स्मे ध॑त्त वसवो॒ वसू॑नि॒ स्वाहा॑ ॥

एह्येहि सर्वे वसवो निधीशा रत्नाकराः सर्व सहस्रभासः ।
धनस्वरुपा मम पान्तु यज्ञं गृह्णीत पूजां भगवन्त एताम् ॥

ॐ भूर्भुवः स्वः अष्टवसुभ्यो नमः | अष्टवसून् आवाहयामि, स्थापयामि !

-----------

रु॒द्राः सृ॒जस्व्य॑ पृथि॒वीं बृहज्ज्योतिः॒ समि॑धिरे । तेषां॑ भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते ॥

एह्येहि यज्ञेश्वर नस्त्रिशूलकपाल खट्वाङ्ग धरावसार्धम् ।
लोकेश यज्ञेश्वर यज्ञसिद्ध्यै गृहाण पूजां भगवन्नमस्ते ॥

ॐ भूर्भुवः स्वः एकादशरुद्रेभ्यो नमः | एकादशरुद्रान् आवाहयामि, स्थापयामि !

-----------

यु॒ञ्जो दे॒वानां॑ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळयन्त॑: । आ वोऽर्वाची॑ सु॒मति॑र्ववृत्यादꣳहोश्चि॒द्या वरि॑वो॒वित्त॑रास॒न्दादि॑त्येभ्य॒स्त्वा ॥

एह्येहि पद्मासन पद्मपाणे सुरक्तसिन्दूर समान वर्ण ।
सप्ताश्व रक्ताम्बर सूर्य शीघ्रं गृहाण पूजां भगवन्नमस्ते ॥

ॐ भूर्भुवः स्वः द्वादशादित्येभ्यो नमः | द्वादशादित्यान् आवाहयामि, स्थापयामि !

-----------

या वां॒ कशा॒ मधु॑मत्यश्विना सू॒नृता॑वती । तया॑ य॒ज्ञं मि॑मिक्षतम् । उ॒पया॒मगृ॑हीतोऽस्यश्वि॒भ्यां॑ त्वै॒ष ते॒ योनि॒र्माध्वी॑भ्यां त्वा ॥

अश्विनौ देववैद्यौ च सर्गस्थित्यन्त कारकौ ।
आगच्छतम् मण्डले तु पूजयाऽभिष्टसिद्धये ॥

ॐ भूर्भुवः स्वः अश्विभ्यां नमः | अश्विनौ आवाहयामि, स्थापयामि !

-----------

ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वाꣳसो॑ दा॒शुषः॑ सु॒तम् । उ॒पया॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥

विश्वनावाहयिष्यामि देवानां वरप्रदान् ।
आयान्तु मम यज्ञेऽस्मिन् विश्वेदेवास्त्रयोदश ॥

ॐ भूर्भुवः स्वः सपैतृकविश्वेभ्यो देवेभ्यो नमः | सपैतृकविश्वान् देवान् आवाहयामि, स्थापयामि !

-----------

अ॒भि त्यं दे॒वꣳ स॑वि॒तार॑मो॒ण्योः॑ क॒विक्र॑तुमर्चा॒मि स॒त्यस॑वꣳ रत्नुधा॒मभि प्रि॒यं म॒तिं क॒विम् । ऊ॒र्ध्वा यस्याम॒तिर्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सुक्रतुः॑ कृ॒पा स्वः॑ । प्र॒जाभ्य॑स्त्वा प्र॒जास्त्वा॑ ऽनुप्राण॑न्तु प्र॒जास्त्वमनु॑प्राणिहि ॥

यदृच्छया पर्यटन्ति यक्षाः सर्वे महीतले ।
कौतुकं प्रेक्षितुं चास्मिन् मण्डले सन्तु सुस्थिराः ॥

ॐ भूर्भुवः स्वः सप्तयक्षेभ्यो नमः | सप्तयक्षान् आवाहयामि, स्थापयामि !

-----------

भू॒ताय॑ त्वा॒ नारा॑तये स्व॒रभिविख्ये॑षं दृꣳह॑न्तां॒ दुर्याः॑ पृथि॒व्यामु॒र्व॑न्तरि॑क्षमन्वे॑मि पृथि॒व्यास्त्वा॒ नाभौ॑ सादया॒म्यदि॑त्या उ॒पस्थेऽग्ने॑ ह॒व्यꣳ र॑क्ष ॥

एतैत सर्पाः शिवकण्ठभूषा लोकोपकाराय भुवं वहन्तः ।
जिह्वाद्वयोपेतमुखा मदीयां गृह्णीत पूजां सुखदा नमो वः ॥

ॐ भूर्भुवः स्वः भूतनागेभ्यो नमः | भूतनागान् आवाहयामि, स्थापयामि !

-----------

ऋ॒ताषाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयोऽप्स॒रसो॒ मुदो॒ नाम॑ । स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥

आवाहयेहं सुरदेवसेव्याः स्वरुप तेजोमुखपद्मभासः ।
सर्वामरेशैः परिपूर्ण कामाः पूजां गृहीतुं मम यज्ञभूमौ ॥

ॐ भूर्भुवः स्वः गन्धर्वाप्सरेभ्यो नमः | गन्धर्वाप्सरसः आवाहयामि, स्थापयामि !

-----------

यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्समु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑पस्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥

एह्येहि देवेश्वर शंभूसूनो शिखीन्द्रगामिन् सुरसिद्धसङ्घै ।
संस्तूयमानात्मशुभाय नित्यं गृहाण पूजां भगवन्नमस्ते ॥

ॐ भूर्भुवः स्वः स्कन्दाय नमः | स्कन्दम् आवाहयामि, स्थापयामि !

-----------

आ॒शुः शि॑शाना वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् । संक्रन्द॑नोऽनिमि॒ष एक॑वी॒रः श॒तꣳ सेना॑ अजयत्सा॒कमिन्द्रः॑ ॥

एह्येहि देवेन्द्र पिनाकपाणे खण्डेन्दुमौलिप्रिय शुभ्रवर्ण ।
गौरीशयानेश्वर यक्षसिद्ध गृहाण पूजां भगवन्नमस्ते ॥

ॐ भूर्भुवः स्वः नन्दीश्वराय नमः | नन्दीश्वरम् आवाहयामि, स्थापयामि !

-----------

उ॒ग्रँल्लोहि॑तेन मि॒त्रꣳ सौ॑व्रत्ये॒न रु॒द्रं दौ॑र्व्रत्ये॒नेन्द्रं॑ प्रक्रीडे॒नं म॒रुतो॒ बले॑न सा॒ध्यान् प्र॒मुदा॑ । भु॒वस्य॒ कण्ठ्ये॑ꣳ रु॒द्रस्या॑न्तः पा॒र्श्व्यं॑ महादे॒वस्य॒ यकृ॑च्छर्व॒स्य॑ वनि॒ष्ठुः पशुपतेः॑ पुरीतत् ॥

आयातमायातमुमाप्रियस्य प्रियौ मुनींद्रादिकासिद्धसेव्यौ ।
गृह्णीमेतां मम शूलकालौ पूजां सुखौघं कुरूतं नमो वाम् ॥

ॐ भूर्भुवः स्वः शूलमहाकालाभ्यां नमः | शूलमहाकालौ आवाहयामि, स्थापयामि !

-----------

अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥

एतौत देवालयविश्वमूर्तयश्चतुर्मुखाः श्रीधरशम्भु मान्याः ।
सूपुस्तकाप्तस्रुवपात्रपाणयो गृह्णीत पूजां नितरां नमो वः ॥

ॐ भूर्भुवः स्वः दक्षादिसप्तगणेभ्यो नमः | दक्षादिसप्तगणान् आवाहयामि, स्थापयामि !

-----------

अम्बे॒ अम्बिकेऽम्बालिके॒ न मां नयति॒ कश्च॒न । सस॑स्त्यश्व॒कः सुभ॑द्रिकां काम्पीलवा॒सिनी॑म् ॥

एह्येहि दुर्गे दुरितौघनाशिनि प्रचण्डदैत्यौघ विनाशकारिणी ।
उभे महेशार्धशरीरधारिणि स्थिरा भव त्वं मम यज्ञकर्मणि ॥

ॐ भूर्भुवः स्वः दुर्गायै नमः | दुर्गाम् आवाहयामि, स्थापयामि !

-----------

इ॒दं विष्णुर्र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढमस्य पाꣳसु॒रे स्वाहा॑ ॥

एह्येहि नीलाम्बुद मेचक त्वं श्रीवत्सवक्षः कमलाधिनाथ ।
सर्वामरैः पूजितपादपद्म गृहाण पूजां भगवन्नमस्ते ॥

ॐ भूर्भुवः स्वः विष्णवे नमः | विष्णुम् आवाहयामि, स्थापयामि !

-----------

पि॒तृभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ पिताम॒हेभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॒ प्रपि॑तामहेभ्यः स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ । अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तरः॑ पि॒तरः॑ शुन्ध॑ध्वम् ॥

सुखाय पितॄन् कुलवृद्धिकर्तॄन् रक्तोत्पलाभा निहरक्त नेत्रान् ।
सुरक्तमाल्याम्बर भूषितांश्च नमामि पीठे कुलवृद्धिहेतोः ॥

ॐ भूर्भुवः स्वः स्वधायै नमः | स्वधाम् आवाहयामि, स्थापयामि !

-----------

परं॑ मृ॒त्यो अनु॒ परे॑हि॒ पन्थां॒ यस्ते॒ अन्य इत॑रो देवया॒नात् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान् ॥

मृत्युरोगानन्तकस्य प्रेष्यान्प्राणाहरान् गणान् ।
आवाहयामि यज्ञेऽस्मिन् पूजार्थं लोकनाशकान् ॥

ॐ भूर्भुवः स्वः मृत्युरोगाभ्यां नमः | मृत्युरोगौ आवाहयामि, स्थापयामि !

-----------

ग॒णानां॑ त्वा ग॒णप॑तिꣳ हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिꣳ हवामहे नि॒धीनां॑ त्वा नि॒धिप॑तिꣳ हवामहे वसो मम । आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ॥

एह्येहि विघ्नाधिपते सुरेन्द्र ब्रह्मादिदेवैरभिवन्द्य पाद ।
गजास्य विद्यालय विश्वमूर्ते गृहाण पूजां भगवन्नमस्ते ॥

ॐ भूर्भुवः स्वः गणपतये नमः | गणपतिम् आवाहयामि, स्थापयामि !

-----------

शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥

एह्येहि लोकेश्वर पाशपाणे यादोगणैर्वन्दित पादपद्म ।
पीठेऽत्र देवेश गृहाण पूजां पाहि त्वमस्मान् भगवन्नमस्ते ॥

ॐ भूर्भुवः स्वः अद्भ्यो नमः | अपः आवाहयामि, स्थापयामि !

-----------

मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो विम॑हसः । स सुगो॒पातो॑ ज॒नः ॥

एह्येहि यज्ञेश समीरण त्वं मृगाधिरूढः सहसिद्धसङ्घैः ।
प्राणस्वरूपिन् सुरतासहाय गृहाण पूजां भगवन्नमस्ते ॥

ॐ भूर्भुवः स्वः मरुद्भ्यो नमः | मरुतः आवाहयामि, स्थापयामि !

-----------

स्यो॒ना पृ॑थिवि नो भवा॒नृक्षरा नि॒वेश॑नी । यच्छा॑ नः॒ शर्म॑ स॒प्रथाः॑ ॥

पृथिव्या धार्यते विश्वं दुर्गहं सागरैर्नरैः ।
यज्ञ आवाहयामीह ब्रह्मणो मण्डले पदे ॥

ॐ भूर्भुवः स्वः पृथिव्यै नमः | पृथिवीम् आवाहयामि, स्थापयामि !

-----------

पञ्च॑ न॒द्यः सर॑स्वतीमपि यन्ति सस्रो॒तसः॑ । सर॑स्वती तु पञ्च॒धा सो दे॒शेऽभवत्स॒रित् ॥

एह्येहि गङ्गे दुरितौघनाशिनि झषाधिरूढे उदकुम्भहस्ते ।
श्रीविष्णुपादाम्बुजसंभवे त्वं साकं नदीभिः शुभदे नमस्ते ॥

ॐ भूर्भुवः स्वः गङ्गादिनदीभ्यो नमः | गङ्गादिनदीः आवाहयामि, स्थापयामि !

-----------

इ॒मं मे॑ वरुण श्रुधी हव॑म॒द्या च॑ मृळय । त्वाम॑व॒स्युरा च॑के ॥

समुद्राः सर्वतोयेषु श्रेष्ठा वै हरिवल्लभाः ।
मण्डले स्थापयामिह तान्नदीशान् सुखाप्तये ॥

ॐ भूर्भुवः स्वः सप्तसागरेभ्यो नमः | सप्तसागरान् आवाहयामि, स्थापयामि !

-----------

प्र पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठान्नाव॑श्चरन्ति स्व॒सिच॑ इया॒नाः । ता आऽव॑वृत्रन्नधरा॒गुद॑क्ता॒ अहिं॑ बु॒ध्न्यमनु॑ रीय॒माणाः । विष्णो॑र्विक्र॒मण॑मसि॒ विष्णो॑र्विक्रान्तमसि॒ विष्णोः॑ क्रा॒न्तम॑सि ॥

एह्येहि कार्त्तस्वररुप सर्वभूभृत्पते चन्द्ररवीदधान ।
सर्वौषधिस्थान महेन्द्रमित्र लोकत्रयावास नमोऽस्तु तुभ्यम् ॥

ॐ भूर्भुवः स्वः मेरवे नमः | मेरुम् आवाहयामि, स्थापयामि !

-----------

ग॒णानां॑ त्वा ग॒णप॑तिꣳ हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिꣳ हवामहे नि॒धीनां॑ त्वा नि॒धिप॑तिꣳ हवामहे वसो मम । आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ॥

निषिक्ता कुमुदाक्षस्य नाम्ना कौमोदकी गदा ।
शान्तिदा स्मरणादेव तस्यै तुभ्यं नमो नमः ॥

ॐ भूर्भुवः स्वः गदायै नमः | गदाम् आवाहयामि, स्थापयामि !

-----------

त्रि॒ꣳशद्धाम॒ वि रा॑जति॒ वाक् प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥

ॐ महायोगीन्द्रहस्तस्य शङ्करस्य प्रियङ्कर ।
त्रिशूल त्वमिहागच्छ पूजेयं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः त्रिशूलाय नमः | त्रिशूलम् आवाहयामि, स्थापयामि !

-----------

म॒हाँ२ इन्द्रो॒ वज्र॑हस्तः षोड॒शी शर्म॑ यच्छतु । हन्तुं॑ पा॒प्मानं॒ योऽस्मान्द्वेष्टि॑ ॥ उ॒पया॒मगृ॑हीतोऽसि म॒हेन्द्रा॑य त्वै॒ष ते॒ योनि॑र्म॒हेन्द्रा॑य त्वा ॥

ॐ तप्तकाञ्चन वर्णाभं वज्रं धै शस्त्रनायकम् ।
आवाहयामि यज्ञेऽस्मिन् गृहाणेमां नमोऽस्तुते ॥

ॐ भूर्भुवः स्वः वज्राय नमः | वज्रम् आवाहयामि, स्थापयामि !

-----------

वसुं॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च मेऽर्थ॑श्च म॒ एम॑श्च म॒ इत्या॑ च मे॒ गति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥

ॐ सर्वदैत्यविनाशाय सर्वकामफलप्रदे ।
सर्वसत्वहिते शक्ते शान्तिं यच्छ नमोऽस्तुते ॥

ॐ भूर्भुवः स्वः शक्तये नमः | शक्तिम् आवाहयामि, स्थापयामि !

-----------

इ॒ड एह्यदि॑त॒ एहि॒ काम्या॑ एत॑ । मयि॑ वः कामधरणं भूयात् ॥

ॐ धर्मराजस्य हस्तस्य यमस्य च सदा प्रिय ।
दण्डायुध नमस्तेऽस्तु सर्व सिद्धिप्रदो भव ॥

ॐ भूर्भुवः स्वः दण्डाय नमः | दण्डम् आवाहयामि, स्थापयामि !

-----------

खड्गो वैश्वदे॒वः श्वा कृ॒ष्णः कर्णो॑ गर्द॒भस्तरक्षु॑स्ते रक्षसा॒मिन्द्रा॑य सूक॒रः सि॒ꣳहो मारु॑तः कृकला॒सः पिप्प॑का शकु॒निस्ते श॒र्व्याय॑ विश्वा॑षाड् दे॒वानां॑ पृषतः ॥

ॐ नीलजीमूतवर्णं त्वं तीक्ष्णदंष्ट्र कृशोदर ।
खड्गराज नमस्तुभ्यं पूजेयं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः खड्गाय नमः | खड्गम् आवाहयामि, स्थापयामि !

-----------

उदुत्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मꣳ श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवा॑नागसो॒ अदि॑तये स्याम ॥

ॐ देवासि वरुणास्त्रं त्वं दैत्यवंशविदारणा ।
पाश मां समरे रक्ष रज्जुराज नमोऽस्तुते ॥

ॐ भूर्भुवः स्वः पाशाय नमः | पाशम् आवाहयामि, स्थापयामि !

-----------

अꣳशुश्च॑ मे र॒श्मिश्च॑ मेऽदा॒भ्यश्च॑ मेऽधिप॑तिश्च म उपाꣳशुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्रस्था॒नश्च॑ मे शु॒क्रश्च॑ मे म॒न्थी च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥

ॐ गजघ्नं परवीरघ्नं परसैन्यापहारकम् । गणेशस्य प्रियं
तस्मादङ्कुशाय नमो नमः ॥

ॐ भूर्भुवः स्वः अङ्कुशाय नमः | अङ्कुशम् आवाहयामि, स्थापयामि !

-----------

स॒प्त ऋष॑यः प्रति॑हिताः॒ शरी॑रे स॒प्त रक्ष॑न्ति सदमप्रमादम् । स॒प्तापः॑ स्वप॑तो लो॒कमी॑यु॒स्तत्र॑ जागृ॒तो अस्व॑प्नजौ स॒त्रस॑दौ च दे॒वौ ॥

ॐ गौतमः सर्वभूतानामृषीणां च सदा प्रियः ।
श्रौतानां कर्मणां चैव संप्रदाय प्रवर्तकः ॥

ॐ भूर्भुवः स्वः गौतमाय नमः | गौतमम् आवाहयामि, स्थापयामि !

-----------

अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॑ रथेचि॒त्रश्च॑ सेनानीग्राम॒ण्यौ॑ । मे॒नका च॑ सहजन्या चा॑प्स॒रसौ॑ यातु॒धाना॑ हे॒ती रक्षां॑सि प्रहे॒तिस्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥

ॐ भारद्वाज नमस्तेऽस्तु सदाध्ययनतत्परः ।
आवाहयामि यज्ञेऽस्मिन् पूजेयं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः भरद्वाजाय नमः | भरद्वाजम् आवाहयामि, स्थापयामि !

-----------

इ॒दमु॑त्तरा॒त् स्वस्त॒स्य श्रोत्रं॑ च सौ॒वश्च श॒रच्छौ॑त्र्यनुष्टुप् शा॑रद॒नुष्टुभ॑ ऐडमैडान्म॒न्थी म॒न्थिन॑ एकवि॒ꣳश ए॑कविꣳशाद्वैरा॒जं विश्वा॑मित्र॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्यः॑ ॥

ॐ विश्वामित्र नमस्तुभ्यं ज्वलदग्निसमप्रभ ।
अध्यक्षीकृतगायत्री तपोरूपेणा संस्थितः ॥

ॐ भूर्भुवः स्वः विश्वामित्राय नमः | विश्वामित्रम् आवाहयामि, स्थापयामि !

-----------

त्र्यायुषं ज॒मद॑ग्नेः कश्यप॑स्य त्र्यायुषम् । यद्दे॒वेषु॑ त्र्यायुषं तन्नो॑ अस्तु त्र्यायुषम् ॥

ॐ कश्यपः सर्वलोकाढ्यः सर्वभूतदयाकरः ।
असि त्वां प्रार्थयामीश पूजेयं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः कश्यपाय नमः | कश्यपम् आवाहयामि, स्थापयामि !

-----------

अ॒यं प॒श्चाद् वि॒श्वव्य॑चा॒स्तस्य॑ चक्षुवै॒श्वव्यच॒सं व॒र्षाश्चा॑क्षुष्यो जग॑ती वा॒र्षी जग॑त्या॒ऽ ऋक्च॑समृ॒मक्सा॑माच्छुक्रः शुक्रा॒त् सप्तद॒शः स॑प्तदशाद् वैरू॒पं ज॒मद॑ग्नि॒रृषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्यः॑ ॥

ॐ जमदग्निर्महाते जास्तपसा ज्वलतीहतम् ।
आवाहयामि यज्ञेऽस्मिन् पूजेयं प्रति गृह्यताम् ॥

ॐ भूर्भुवः स्वः जमदग्नये नमः | जमदग्निम् आवाहयामि, स्थापयामि !

-----------

अ॒यं पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वायनो वसं॑तः प्रा॒णायनो गा॑य॒त्री वा॑सन्ती गा॑यत्र्यै गा॑य॒त्रं गा॑यत्रादु॒पाꣳशु॑रुपाꣳशोस्त्रिवृत् त्रि॒वृतो॑ रथन्त॒रं वसि॑ष्ठ॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्रा॒णं गृ॑ह्णामि प्र॒जाभ्यः॑ ॥

ॐ नमस्तुभ्यं वसिष्ठाय कर्मकर्त्रे महामुने ।
धर्मरूपाय महते लोकानां हितकारिणे ॥

ॐ भूर्भुवः स्वः वसिष्ठाय नमः | वसिष्ठम् आवाहयामि, स्थापयामि !

-----------

अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम् । अमी॑मदन्त पितरो॑ यथाभा॒गमावृ॑षायिषत ॥

ॐ अत्रये तु नमस्तुभ्यं सर्वलोकहितैषिणे ।
तपोरूपाय सत्याय ब्रह्मणेऽमिततेजसे ॥

ॐ भूर्भुवः स्वः अत्रये नमः | अत्रिम् आवाहयामि, स्थापयामि !

-----------

तं पत्नी॑भिरनुं गच्छेम देवाः पु॒त्रैर्भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः । ना॒कं गृभ्णा॒नाः सुकृ॒तस्य॑ लो॒के तृतीये॑ पृ॒ष्टे अधि॑ रोच॒ने दि॒वः ॥

ॐ अरुन्धत्यै नमस्तुभ्यं सर्वसौख्यप्रदायिनि ।
एहि मण्डलमध्ये त्वं नमः पूजां गृहाण मे ॥

ॐ भूर्भुवः स्वः अरुन्धत्यै नमः | अरुन्धतीम् आवाहयामि, स्थापयामि !

-----------

अदि॑त्यै रास्ना॑ऽसीन्द्राण्या उ॒ष्णीषः॑ । पू॒षाऽसि॑ घ॒र्मायं दी॑ष्व ॥

ॐ इन्द्राणीं गजकुम्भस्थां सहस्रनयनोज्ज्वलाम् ।
नमामि वरदां देवीं सर्वदेवैर्नमस्कृताम् ॥

ॐ भूर्भुवः स्वः ऐन्द्र्यै नमः | ऐन्द्रीम् आवाहयामि, स्थापयामि !

-----------

यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शिखा इ॑व । तन्न॒ इन्द्रो॒ बृह॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥

एह्येहि कौमारि विधेहि शान्तिं शक्तिं दधानेऽपि सदाममध्ये ।
स्कन्धाधिरूढे शिखिपुंगवाभ्यां मातः प्रसादप्रसृतिं प्रयच्छ ॥

ॐ भूर्भुवः स्वः कौमार्यै नमः | कौमारीम् आवाहयामि, स्थापयामि !

-----------

इन्द्रा॑याहि तू॒तुजा॑न॒ऽउप॒ ब्रह्मा॑णि हरिबः । सु॒ते द॑धिष्व नश्चनः ॥

ॐ चतुर्मुखीं जगद्धात्रीं हंसारूढां वरप्रदाम् ।
सृष्टिरुपां महाभागां ब्रह्माणीं तां नमाम्यहम् ॥

ॐ भूर्भुवः स्वः ब्राह्म्यै नमः | ब्राह्मीम् आवाहयामि, स्थापयामि !

-----------

आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्वः॑ ॥

ॐ वाराहरूपिणीं देवीं दंष्ट्रोद्धृ तवसुन्धराम् ।
शुभदां पीतवसनां वाराहीं तां नमाम्यहम् ॥

ॐ भूर्भुवः स्वः वाराह्यै नमः | वाराहीम् आवाहयामि, स्थापयामि !

-----------

अम्बे॒ अम्बिकेऽम्बालिके॒ न मां नयति॒ कश्च॒न । सस॑स्त्यश्व॒कः सुभ॑द्रिकां काम्पीलवा॒सिनी॑म् ॥

ॐ चामुण्डां मुण्डमथनां मुण्डमालोपशोभिताम् ।
अट्टाट्टहसमुदितां नमाम्यात्मविभूतये ॥

ॐ भूर्भुवः स्वः चामुण्डायै नमः | चामुण्डाम् आवाहयामि, स्थापयामि !

-----------

विष्णो॑ ररा॒टम॑सि॒ विष्णोः॒ श्नप्त्रे॑ स्थो विष्णोः॒ स्यूर॑सि विष्णोर्ध्रु॒वो॑ऽसि । वै॒ष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥

ॐ शङ्खचक्रगदापद्मधारिणीं कृष्णरूपिणीम् ।
स्थितिरूपां खगेन्द्रस्थां वैष्णवीं तां नमाम्यहम् ॥

ॐ भूर्भुवः स्वः वैष्णव्यै नमः | वैष्णवीम् आवाहयामि, स्थापयामि !

-----------

त्र्यं॑म्बकं यजामहे सुग॒न्धिं प॑तिवे॒दन॑म् । उ॒र्वा॒रु॒कमि॑व बन्ध॑नादितो मु॑क्षीय॒ मामुत॑: ॥

ॐ वृषारूढां शुभां शुभ्रां त्रिनेत्रां वरदां शिवाम् ।
माहेश्वरी नमाम्यद्य सृष्टिसंहारकारिणीम् ॥

ॐ भूर्भुवः स्वः माहेश्वर्यै नमः | माहेश्वरीम् आवाहयामि, स्थापयामि !

-----------

सम॑ख्ये दे॒व्या धि॒या सं दक्षि॑णयो॒रुच॑क्षसा । मा म॒ आयुः॒ प्रमो॑षी॒र्मो अ॒हं तव॑ । वी॒रं वि॑न्देय॒ तव॑ देवि सं॒दृशि॑ ॥

ॐ चतुर्भुजां त्रिनेत्रां च सर्वाभरणभूषिताम् ।
आवाहयामि देवीशीं पूजेयं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः वैनायक्यै नमः | वैनायकीम् आवाहयामि, स्थापयामि !

Post a Comment

आपला अमूल्य प्रतिसाद आमच्यासाठी खूप महत्त्वाचा आहे. जर आमच्याकडून लिखाणात काही चुकी झाली असेल किंवा आपणांस अजून काही सुचवायचा असेल तर खालील कमेंट बॉक्स मध्ये नक्की लिहा .

थोडे नवीन जरा जुने