•|| सर्वतोभद्र मंडल देवता स्थापना ||•

१. मध्य व अष्टदिक्पाल देवता
ॐ ब्रह्मजज्ञानंप्रथमंपुरस्ताद्विसीमतः सुरुचोवेनऽआवः । सबुध्न्याऽउपमाऽअस्यविष्ठाः सतश्चयोनिमसतश्चविवः ॥ एह्येहि सर्वाधिपते सुरेन्द्र लोकेन सार्द्धं पितृदेवताभिः । सर्वस्य धाताऽस्यमितप्रभावो रक्षाध्वरं नः सततं शिवाय ॥ ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्मणम् आवाहयामि स्थापयामि ॥१॥
ॐ वयठँसोमव्रतेतवतन्mन्वस्तन्व्षुबिभ्रतः । प्रजावन्तः सचेमहि ॥ एह्येहि यज्ञेश्वर यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्द्धम् । सर्वोषधीभिः पितृभिः सहैव गृहाण पूजां भगवन्नमस्ते ॥ ॐ भूर्भुवः स्वः सोमाय नमः सोमम् आवाहयामि स्थापयामि ॥२॥
ॐ तमीशानं जगतस्तस्थुषस्पतिन्धियञ्जिन्वमवसेहूमहेवयम् । पूषणोनो यथावेदसामसद्वृधेरक्षितापायुरदब्धः स्वस्तये ॥ एह्येहि यज्ञेश्वर नत्रिशूलकपालखट्वाङ्गधरावसार्द्धम् । लोकेश यज्ञेश्वर यज्ञसिद्धयै गृहाण पूजां भगवन्नमस्ते ॥ ॐ भूर्भुवः स्वः ईशानाय नमः ईशानम् आवाहयामि स्थापयामि ॥३॥
ॐ त्रातारमिन्द्रमवितारमिन्द्रठँ ह्वैह्वे सुहवठँ शूरमिन्द्रम् । ह्वयामि शक्रम्पुरुहूतमिन्द्रठँ स्वस्ति नो मघवा धात्विन्द्रः ॥ एह्येहि सर्वामरसिद्धसाध्यैरभिष्टुतो वज्रधरामरेश । संवीज्यमानोऽप्सरसां गणेन रक्षाध्वरं त्वं भगवन्नमस्ते ॥ ॐ भूर्भुवः स्वः इन्द्राय नमः इन्द्रम् आवाहयामि स्थापयामि ॥४॥
ॐ त्वन्नोऽअग्नेवरुणस्यविद्वान्देवस्यहेडोऽअवयासिसीष्ठाः । यजिष्ठोबवह्वितमः शोशुचानोविश्वाद्वेष़ाठँ सिप्रमुमुग्ध्यस्मत् ॥ एह्येहि सर्वामरहव्यवाह युधिप्रवीरैरमराभिजुष्ट । तेजोवता लोकगणेन साकं ममाध्वरं पाहि कवे नमस्ते ॥ ॐ भूर्भुवः स्वः अग्नये नमः अग्निम् आवाहयामि स्थापयामि ॥५॥
ॐ यमायत्वा मखायात्वा सूर्यस्यत्वा तपसे ॥ एह्येहि वैवस्वत धर्मराज सर्वामरैरर्चित धर्ममूर्ते । शुभाशुभानन्द शुचामधीश शिवाय पाहि भगवन्नमस्ते ॥ ॐ भूर्भुवः स्वः यमाय नमः यमम् आवाहयामि स्थापयामि ॥६॥
ॐ असुन्वन्तमयजमानमिच्छस्तेनस्येत्यामन्विहितस्तस्करस्य । अन्यमस्मदिच्छसातऽइत्त्यानमोदेवि निर्ऋतेतुभ्यमस्तु ॥ एह्येहि रक्षोगणनायक त्वं विशालवैताल पिशाचसङ्घैः । ममाध्वरं पाहि पिशाचनाथ लोकेश्वर त्वं भगवन्नमस्ते ॥ ॐ भूर्भुवः स्वः निर्ऋतये नमः निर्ऋतिम् आवाहयामि स्थापयामि ॥७॥
ॐ तत्त्वायामिब्रह्मणावन्दमानस्तदाशास्ते यजमानोहविर्भिः । अहेडमानोवरुणेहबोध्यूरुशठँसमानऽआयुः प्रमोषीः ॥ एह्येहि यादोगणवारिधीनां गणेन पर्जन्यसहाप्सरोभिः । विद्याधरेन्द्रामरगीयमान पाहि त्वमस्मान् भगवन्नमस्ते ॥ ॐ भूर्भुवः स्वः वरुणाय नमः वरुणम् आवाहयामि स्थापयामि ॥८॥
ॐ आनौ नियुद्भिः शतिनीभिरध्वरठँ सहस्रिणीभिरुपयाहि यज्ञम् । वायौऽअस्मिन्त्सवनेमादयस्वयूयम्पातस्वस्तिभिः सदा नः ॥ एह्येहि यज्ञेश समीरण त्वं मृगाधिरूढः सहसिद्धसङ्घैः । प्राणस्वरूपी सुरतासहाय गृहाण पूजां भगवन्नमस्ते ॥ ॐ भूर्भुवः स्वः वायवे नमः वायुम् आवाहयामि स्थापयामि ॥९॥
२. अष्टवसु व एकादश रुद्र
ॐ वसोः पवित्रमसि शतधारं वसोः पवित्रमसि सहस्रधारम् । देवस्त्वासविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा कामधुक्षः ॥ एतैत सर्वे वसवो निधीशा रत्नाकराः सर्वसहस्रभासः । धनस्वरूपा मम पान्तु यज्ञं गृहीत पूजां भगवन्त एताम् ॥ ॐ भूर्भुवः स्वः अष्टवसुभ्यो नमः अष्टवसून् आवाहयामि स्थापयामि ॥१०॥
ॐ नमस्ते रुद्र मन्यवऽउतोतऽइषवे नमः । बाहुभ्यामुत ते नमः ॥ एह्येहि रुद्र देवेश त्रिशूलधर शङ्कर । यज्ञरक्षां विधत्स्व त्वं गणाधिप नमोऽस्तु ते ॥ ॐ भूर्भुवः स्वः एकादशरुद्रेभ्यो नमः एकादशरुद्रान् आवाहयामि स्थापयामि ॥११॥
३. आदित्य, अश्विनीकुमार व अन्य गणात्मक देवता
ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च। हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्॥ विवस्वान् अर्यमा पूषा त्वष्टा सविता भगः। धाता विधाता वरुणो मित्रः शक्र उरुक्रमः॥ ॐ भूर्भुवः स्वः द्वादशादित्येभ्यो नमः द्वादशादित्यान् आवाहयामि स्थापयामि॥
ॐ अश्विना तेजसा चक्षुः प्राणेन सरस्वती वीर्यम्। वाचेन्द्रो बलेनेन्द्राय दधुरिन्द्रियम्॥ नासत्यदत्रौ भिषजौ देवानां तावश्विनौ स्मृतौ। तौ सुवर्णप्रभौ देवौ आवाहयामि पूजये॥ ॐ भूर्भुवः स्वः अश्विनीकुमाराभ्यां नमः अश्विनीकुमारौ आवाहयामि स्थापयामि॥
ॐ विश्वे देवाः शृणुतेमँ हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ। ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादियध्वम्॥ विश्वेदेवाः समायान्तु ये वै ब्रह्माण्डवर्तिनः। पूजां गृण्हन्तु सकलां सौभाग्यं सम्प्रयच्छत॥ ॐ भूर्भुवः स्वः विश्वेदेवेभ्यो नमः विश्वेदेवान् आवाहयामि स्थापयामि॥
ॐ अदित्यै रास्नासीन्द्रण्या उष्णीषः। पूष्णो ध्या असि॥ धनदाधिपतयः सर्वे यक्षाः पुण्यात्मकास्तथा। यक्षराजसमेताश्च मण्डलेऽस्मिन् वसन्तु ते॥ ॐ भूर्भुवः स्वः सप्तयक्षेभ्यो नमः सप्तयक्षान् आवाहयामि स्थापयामि॥
ॐ नमोस्तु सर्पेभ्यो ये के च पृथिवीमनु। ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः॥ अनन्ताद्या महानागाः पाताळतळवासिनः। भूतानां पतयश्चैव नागभूताय नमो नमः॥ ॐ भूर्भुवः स्वः भूतनागेभ्यो नमः भूतनागान् आवाहयामि स्थापयामि॥
ॐ स जोषा धीरैर्हवनं मे अस्य रक्षण्णो देवो गन्धर्वो नि पातु। स नः पातु स नो अर्वन्तः स नो अर्वत्सु शर्म यच्छतु॥ विश्वावसुप्रभृतयो गन्धर्वाः सहसाप्सरः। दिव्यगायना संसक्ता आगच्छन्तु मखालये॥ ॐ भूर्भुवः स्वः गन्धर्वाप्सरोभ्यो नमः गन्धर्वाप्सरसः आवाहयामि स्थापयामि॥
ॐ यदक्रन्दः प्रथमं जायमान उद्यन् समुद्रादुत वा पुरीषात्। श्येनो न पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन्॥ मयूरवाहनं देवं तारकासुरमर्दनम्। शक्तिहस्तं महाभागां स्कन्दं आवाहयाम्यहम्॥ ॐ भूर्भुवः स्वः स्कन्दाय नमः स्कन्दं आवाहयामि स्थापयामि॥
ॐ मानस्तोके तनये मान आयौ मानो गोषु मानो अश्वेषु रीरिषः। मानो वीरान् रुद्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे॥ वृषरूपधरः श्रीमान् शिवप्रीतिविवर्धनः। नन्दीश्वर महाकाय त्वामहं स्थापयाम्यतः॥ ॐ भूर्भुवः स्वः नन्दीश्वराय नमः नन्दीश्वरं आवाहयामि स्थापयामि॥
ॐ मीढुष्टम शिवतम शिवो नः सुमना भव। परमे वृक्ष आयुधं निधाय कृत्तिं वसान आ चर पिनाकं बिभ्रदा गहि॥ कालकाल महाकाल शूलपाणे महेश्वर। रक्ष रक्ष महाप्राज्ञ यूपरूपी महेश्वर॥ ॐ भूर्भुवः स्वः शूलमहाकालाभ्यां नमः शूलमहाकालौ आवाहयामि स्थापयामि॥
४. दुर्गा, विष्णू, पितर व नैसर्गिक देवता
ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयम् स्याम पतयो रयीणाम् स्वाहा ॥ एतन्ते देवालय विश्वमूर्त्यश्चतुर्मुखाः । दक्षादि प्रजापतीन् सर्वान् आवाहयामि पूजये ॥ ॐ भूर्भुवः स्वः दक्षादिसप्तप्रजापतिभ्यो नमः दक्षादिसप्तप्रजापतीन् आवाहयामि स्थापयामि ॥
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन । ससस्त्यश्वकः सुभद्रिकाङ्काम्पीलवासिनीम् ॥ एहोहि दुर्गे दुरितौघनाशिनी प्रचण्डदैत्यौघविनाशकारिणी । उभे महेशार्धशरीरधारिणी स्थिरा भव त्वं मम यज्ञकर्मणि ॥ ॐ भूर्भुवः स्वः दुर्गायै नमः दुर्गाम् आवाहयामि स्थापयामि ॥
ॐ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाँसुरे स्वाहा ॥ एहोहि नीलाम्बुदमेचक त्वं श्रीवत्सवक्षः कमलाधिनाथ । सर्वैरमरैः पूजितपादपद्म गृहाण पूजां भगवन्नमस्ते ॥ ॐ भूर्भुवः स्वः विष्णवे नमः विष्णुम् आवाहयामि स्थापयामि ॥
ॐ उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥ कव्यमादाय सततं पितृभ्यो या प्रयच्छति । स्वधासहित पितृदेवताः आवाहयामि यज्ञे ॥ ॐ भूर्भुवः स्वः स्वधासहितपितृभ्यो नमः स्वधासहितपितृन् आवाहयामि स्थापयामि ॥
ॐ अपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥ एहोहि लोकेश्वर पाशपाणे पीठेऽत्र देवेश गृहाण पूजां पाहि त्वमस्मान् भगवन्नमस्ते ॥ ॐ भूर्भुवः स्वः अद्भ्यो नमः अप आवाहयामि स्थापयामि ॥
ॐ मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभिः ॥ पृथिव्या धार्यते विश्वं यज्ञे आवाहयामीह ब्रह्मणो मण्डले पदे ॥ ॐ भूर्भुवः स्वः पृथिव्यै नमः पृथिवीम् आवाहयामि स्थापयामि ॥
ॐ इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या । गंगादि महानदीः सर्व आवाहयामि पूजये ॥ साकं नदीभिः शुभदे नमस्ते । गङ्गादिनदीन् आवाहयामि ॥ ॐ भूर्भुवः स्वः गङ्गादिनदीभ्यो नमः गङ्गादिनदीन् आवाहयामि स्थापयामि ॥
५. मण्डल आयुध पूजन
ॐ गणानां त्वा गणपतिं हवामहे... ॥ कुमुदाक्षस्य गदां कौमोदकीं आवाहयामि ॥ ॐ भूर्भुवः स्वः गदायै नमः गदाम् आवाहयामि स्थापयामि ॥
ॐ त्रिहयद्गाम विराजति वाक् पतङ्गाय धीयते ॥ शङ्करस्य प्रियङ्करं त्रिशूलं आवाहयामि ॥ ॐ भूर्भुवः स्वः त्रिशूलाय नमः त्रिशूलम् आवाहयामि स्थापयामि ॥
ॐ मवाँ २ इन्द्रो वज्रहस्तः षोडशी शर्म यच्छतु ॥ वज्रं वै शक्रनायकम् आवाहयामि ॥ ॐ भूर्भुवः स्वः वज्राय नमः वज्रम् आवाहयामि स्थापयामि ॥
ॐ उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ॥ पाश मां समरे रक्ष रज्जुराज नमोऽस्तु ते ॥ ॐ भूर्भुवः स्वः पाशाय नमः पाशम् आवाहयामि स्थापयामि ॥
६. सप्तर्षी व अरुंधती पूजन
ॐ त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । यद्देवेषु त्र्यायुषं तन्नो अस्तु त्र्यायुषम् ॥ कश्यपः सर्वलोकाढ्यः सर्वभूतदयाकरः । आवाहयामि यज्ञेऽस्मिन् पूजेयं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः कश्यपाय नमः कश्यपम् आवाहयामि स्थापयामि ॥
ॐ सप्त ऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदनम् अप्रमादम् ॥ गौतम-भरद्वाज-विश्वामित्रादि ऋषीन् सर्वान् आवाहयामि ॥ ॐ भूर्भुवः स्वः सप्तऋषिभ्यो नमः सप्तऋषीन् आवाहयामि स्थापयामि ॥
ॐ तम्पत्नीभिर्नु गच्छेम देवाः... ॥ अरुन्धत्यै नमस्तुभ्यं सर्वसौख्यप्रदायिनि । एहि मण्डलममध्ये त्वं नमः पूजां गृहाण मे ॥ ॐ भूर्भुवः स्वः अरुन्धत्यै नमः अरुन्धतीम् आवाहयामि स्थापयामि ॥
७. सप्तमातृका व वैनायकी पूजन
ॐ इन्द्रायाहि तुतुजान... ॥ चतुर्मुखीं जगद्धात्रीं हंसारूढां ब्रह्माणीं तां नमाम्यहम् ॥ ॐ भूर्भुवः स्वः ब्राह्मयै नमः ब्राह्मीम् आवाहयामि स्थापयामि ॥
ॐ त्र्यम्बकं यजामहे... ॥ वृषारूढां त्रिनेत्रां माहेश्वरीं नमाम्यहम् ॥ ॐ भूर्भुवः स्वः माहेश्वर्यै नमः माहेश्वरीम् आवाहयामि स्थापयामि ॥
ॐ विष्णो रारराटमसि... ॥ शङ्खचक्रगदापद्मधारिणीं वैष्णवीं तां नमाम्यहम् ॥ ॐ भूर्भुवः स्वः वैष्णव्यै नमः वैष्णवीम् आवाहयामि स्थापयामि ॥
ॐ चमुषः स्यदन्तां सोमस्य... ॥ चामुण्डां मुण्डमथनां मुण्डमालोपशोभिताम् । नमाम्यात्मविभूतये ॥ ॐ भूर्भुवः स्वः चामुण्डायै नमः चामुण्डाम् आवाहयामि स्थापयामि ॥
ॐ गणानां त्वा गणपतिं हवामहे... ॥ चतुर्भुजां त्रिनेत्रां सर्वाभरणभूषिताम् । वैनायकीं देवीं आवाहयामि ॥ ॐ भूर्भुवः स्वः वैनायक्यै नमः वैनायकीम् आवाहयामि स्थापयामि ॥
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञं समिमं दधातु । विश्वे देवास इह मादयन्तामो३म्प्रतिष्ठ ॥ ॐ अस्मिन् सर्वतोभद्रमण्डले आवाहित सर्वदेवताः सुप्रतिष्ठिता वरदा भवन्तु ॥

संबंधित इतर पोस्ट्स 👇

थोडे नवीन जरा जुने