सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ,
उज्जयिन्यां महाकालं ओमकारं ममलेश्वरम् ||
परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम् ,
सेतुबन्धे तु रामेशं नागेशं दारुकावने ||
वारणस्यां तु विश्वेशं त्र्यम्बकं गौतमी तटे ,
हिमालय तु केदारं घुश्मेशं च शिवालये ||
एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नरः ,
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ||
।। इति द्वादश ज्योतिर्लिंग स्तुति संपूर्णम् ||
संबंधित इतर पोस्ट्स 👇
🪙
विशेष ज्योतिष उपाय
समृद्धी (Prosperity), बचत (Savings) आणि गुंतवणुकीसाठी (Investment) विशेष मार्गदर्शन