आदौ ब्रह्म त्वमेव सर्व जगतां , वेदातत्ममूर्ति विभुं ।
पश्चात् क्षोणिजडा विनाशदितिजा , कृत्वाऽवतारं प्रभो ॥
हत्वा दैत्यमनेकधर्मचरितं , भूत्वाऽत्मजोऽत्रेहे ।
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ॥१ ॥
भूदेवाखिलमानुषं विदुजना , बाधायमानं कलिम् ।
वेदादुष्ममनेकवर्णमनुजा भेदादि भूतोन्नतम् ॥
छेदःकर्मतमांधकारहरणं श्रीपाद - सूर्योदये ।
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ॥२ ॥
धातस्वं हरि शंकर प्रति गुरो , जाताग्रजन्मं विभो ।
हेतुः सर्वविदोजनाय तरणं ज्योतिःस्वरुपं जगत् ॥
चातुर्थाश्रमस्थापितं क्षितितले , पातुः सदा सेव्ययम् ।
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ॥३ ॥
चरितं चित्रमनेकीर्तिमतुलं परिभूतभूमंडले ।
मूकं वाक्य दिवांधकस्य नयनं वंध्यां च पुत्रं ददौ ॥
सौभाग्यं विधवा च दायक श्रियं , दत्वा च भक्तं जनम् ।
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ।।४ ।।
दुरितं घोरदरिद्रदावतिमिरं , हरणं जगज्ज्योतिषम् ।
स्वधैर्नु सुरपादपूजितजना , करूणाब्धि भक्तार्तितः ।।
नरसिंहेंद्र - सरस्वतीश्वर विभो , शरणागंत रक्षकम् ।
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ॥५ ।।
गुरुमूर्तिश्चरणारविंदयुगलं , स्मरणं कृतं नित्यसौ ।
चरितं क्षेत्रमनेकतीर्थसफलं , सरितादि भागीरथी ।
तुरगामेघसहस्त्रगोविदु नाः सम्यक् ददन् तत्फलम् ।
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ।।६ ।।
नो शक्यं तव नाममंगल स्तुवं , वेदागमागोचरम् ।
पादव हृदयाब्जमंतरदलं , निर्धार मीमांसतं ।
भूयोभूयः स्मरन् नमामि मनसा , श्रीमद्गुरुं पाहि माम् ।
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ॥७ ॥
भक्तानां तरणार्थ सर्वजगतां , दीक्षा ददन् योगिनाम् ।
सुक्षेत्रं पुरगाणगस्थित प्रभो , दत्वा चतुष्कामदं ॥
स्तुत्वा भक्तसरस्वती गुरुपदं , जित्वाद्यदोषदिकम् ।
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ।।८ ।।
एवं श्रीगुरुनाथमष्टकमिदं स्तोत्रं पठेन्नित्यसौ ।
तेजोवर्चबलोन्नतं श्रियकरं आनंदवर्थ वपुः ।।
पुत्रापत्यमनेकसंपदशुभा , दीर्घायुमारोग्यतां ।
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ॥९॥