नतेतरातिभीकरं नवोदितार्कभास्वरम्
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम्
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२ ॥
समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरम्
दरेतरोदरं वरं वरेभवक्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करम्
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३ ॥
अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनम्
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणम्
कपोलदानवारणं भजे पुराणवारणम् ॥४ ॥
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम्
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनाम्
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५ ॥
महागणेशपञ्चरत्नमादरेण योऽन्वहम्
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहिती सुपुत्रताम्
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥
॥इति श्रीमच्छङ्कराचार्यविरचितं श्रीमहागणेशपञ्चरत्नं सम्पूर्णम् ॥