दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् । श्रीदत्तस्तोत्रम्

दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् । 
प्रपन्नार्तिहरं वंदे स्मर्तृगामी स नोऽवतु ॥१ ॥ 

दीनबंधुं कृपासिंधुं सर्वकारणकारणम् । 
सर्वरक्षाकरं वंदे स्मर्तृगामी स नोऽवतु ॥२ ॥

 शरणागतदीनार्तपरित्राणपरायणम् ।
 नारायणं विभुं वंदे स्मर्तृगामी स नोऽवतु ॥३ ॥ 

सर्वानर्थहरं देव सर्वमंगलमंगलम् । 
सर्वक्लेशहरं वंदे स्मर्तृगामी स नोऽवतु ॥४ ॥

 ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् । 
भक्ताभीष्टप्रदं वंदे स्मर्तृगामी स नोऽवतु ॥५ ॥ 

शोषणं पापपंकस्य दीपनं ज्ञानतेजसः । 
तापप्रशमनं वंदे स्मर्तृगामी स नोऽवतु ॥६ ॥ 

सर्वरोगप्रशमनं सर्वपीडानिवारणम् । 
आपदुद्धरणं वंदे स्मर्तृगामी स नोऽवतु ॥७ ॥ 

जन्मसंसारबंधन्धं स्वरुपानंददायकम् । 
निःश्रेयसप्रदं वंदे स्मर्तृगामी स नोऽवतु ॥८ ॥ 

जयलाभयश : काम - दातुर्दत्तस्य यः स्तवम् । 
भोगमोक्षप्रदस्येमं प्रपठेत्स कृती भवेत्॥९ ॥ 

इति श्री . प . प . श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तस्तोत्रं संपूर्णम्
थोडे नवीन जरा जुने