प्रातः स्मरामि करुणावरुणालयं तं । दत्तात्रेय प्रात:स्मरण स्तोत्रम्

 प्रातः स्मरामि करुणावरुणालयं तं । 
श्रीदत्तमार्तवरदं वरदण्डहस्तम् ॥ 
दमनं विनीत - स्वान्त - 
र्गताखिलमलं विमलं प्रशातम् ॥१ 

प्रातर्भजामि भजदिष्टवरप्रदं तम् ॥ 
दत्तं प्रसादसदनं वरहीरदंतम् । 
कान्तं मुद्रात्रितनयं भवमोक्षहेतुम् । 
सेतु वृषस्य परमं जगदादिहेतुम् ॥२ ॥ 

प्रातर्नमामि प्रयतोऽनसूयाः । 
पुत्रं स्वमित्रं यमितोऽनसूयाः ॥ 
भूयांस आप्तास्तमिहार्तबन्धुं । 
कारुण्यसिन्धु प्रणमामि भक्त्या ॥३ ॥ 

लोकत्रयगुरोर्यस्तु श्लोकत्रयमिदं पठेत् । 
श्रीदत्तात्रेयदेवस्य तस्य संसारभीः कुतः ॥४ ॥ 

इति श्री प . प . श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयप्रातःस्मरणस्तोत्रं संपूर्णम् ॥
थोडे नवीन जरा जुने