ऋषिरुवाच
अजं निर्विकल्पं निराकारमेकम्
निरानन्दमानन्दमद्वैतपूर्णम् ।
परं निर्गुनं निर्विशेष निरीहम्
परब्रह्मरूप गणेशं भजेम ॥१ ॥
गुणातीतमान चिदानन्दरूपम्
चिदाभासकं सर्वग ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूप परेशम्
परब्रह्मरूप गणेश भजेम ॥२ ॥
जगत्कारणं कारणज्ञानरूपम
सुरादि सुखादि गुणेशं गणेशम् ।
जगद्वयापिन विश्ववन्य सुरेशम्
परब्रह्मरूप गणेश भजेम ॥३ ॥
रजोयोगतो ब्रह्मरूपं श्रुतिइम्
सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् ।
जगत्कारणं सर्वविद्यानिदानम्
परब्रह्मरूपं गणेश नताः स्मः ॥४ ॥
सदा सत्ययोग्यं मुदा क्रीडमान
सुरारीन् हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजज्ञानहारम
सदा विश्वरूपं गणेशं नमामः ॥५ ॥
तमोयोगिनं रुद्ररूपं त्रिनेत्रम्
जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमः स्वजन बोधयन्त
सदा सर्वरूपं गणेशं नमामः ॥६ ॥
तमस्स्तोमहार जनाज्ञानहारम्
त्रयीवेदसार परब्रह्मसारम् ।
मुनिज्ञानकारं विदूरे विकारम्
सदा ब्रह्मरूपं गणेशं नमामः ॥७ ॥
निजैरोषधीस्तर्पयन्त करायः
सुरौघान्कलाभिः सुधास्राविणीभिः ।
दिनेशांशुसन्तापहारं द्विजेशम्
शशाङ्कस्वरूपं गणेशं नमामः ॥८
प्रकाशस्वरूप नभो वायुरूपम्
विकारादिहेतुं कलाधाररूपम् ।
अनेककियानेकशक्तिस्वरूपम्
सदा शक्तिरूपं गणेशं नमामः॥९ ॥
प्रधानस्वरूप महत्तत्वरूपम्
धराचारिरूप दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुरूपम
सदा विश्वरूपं गणेश नताः स्मः ॥१० ॥
त्वदीये मनः स्थापयेदवियुग्मे
जनो विघ्नसातपीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितोऽयम्
जनो ध्वान्तपीडां कथं वालभेत ॥१
वयं भ्रामिताः सर्वथाऽज्ञानयोगा
दलब्धास्तवाहि बहून् वर्षपूगान् ।
इदानीमवाप्तास्तवैवः प्रसादात
प्रपन्नान् सदा पाहि विश्वम्भराय ॥१२
एवं स्तुतो गणेशस्तु
सन्तुष्टोऽभून्महामुने ।
कृपया परयोपतो
अभिधातुमुपचक्रमे ॥१३ ॥
॥ इति श्रीमद् - गर्गऋषिकृतो गणपतिस्तवः सम्पूर्णः ॥